एवं सततयुक्ता ये...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
अर्जुन उवाच -
- एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
- ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य प्रथमः(१) श्लोकः ।
पदच्छेदः
सम्पादयतुएवं सततयुक्ताः ये भक्ताः त्वां पर्युपासते ये च अपि अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
अन्वयः
सम्पादयतुये भक्ताः एवं सततयुक्ताः त्वां पर्युपासते, ये च अपि अक्षरम् अव्यक्तं तेषां के योगवित्तमाः ?
शब्दार्थः
सम्पादयतु- ये भक्ताः = ये आराधकाः
- एवम् = सर्वकर्मार्पणादिना
- सततयुक्ताः = नित्यसमाहिताः
- त्वां पर्युपासते = त्वां सेवन्ते
- ये च अपि = ये अपि पुनः
- अक्षरम् = अविनाशि
- अव्यक्तम् = अतीन्द्रियम्
- तेषाम् = तेषु उभयेषु
- के = के
- योगवित्तमाः = अतिशयेन योगविदः ।
अर्थः
सम्पादयतुये भक्ताः सर्वाणि कार्याणि समर्प्य नित्यसमाहिताः विश्वरूपं सर्वज्ञं त्वां सेवन्ते, ये पुनः अविनाशि अतीन्द्रियं निर्विशेषं तत्त्वं पर्युपासते तेषु उभयेषु के भक्ताः अतिशयेन योगविदः ?