ऐतरेयारण्यकम् ऋग्वेदस्य द्वयोरारण्यकयोर्मध्ये अन्यतमम् आरण्यकमस्ति । इदमारण्यकमेतरेयब्राह्मणस्यैव परिशिष्टभागोऽस्ति ।

स्वरूपं, कालश्च सम्पादयतु

अस्मिन् पञ्च आरण्यकानि सन्ति । एतान्यारण्यकानि पृथक्-पृथक ग्रन्थरूपेण मन्यन्ते । प्रथमारण्यके महाव्रतस्य वर्णनमस्ति । महाव्रतम् इदमेतरेयब्राह्मणस्य प्रपाठकत्रयस्य गवामयनस्य एवेकोंऽशोऽस्ति । द्वितीयप्रपाठकस्य प्रथमत्रिष्वध्यायेषु उक्थ-निष्कैवल्यशस्त्र-प्राणविद्या-पुरुषप्रभृतीनां विवेचनमस्ति । चतुर्थ-पञ्चमषष्ठाध्यायेषु ऐतरेयोपनिषदस्ति ।

तृतीयारण्यकस्य अपरनामास्ति संहितोपनिषद्। अस्मिन्नुपनिषदि संहिता-पदक्रमपाठानां वर्णनं तथा स्वरव्यञ्जनादिस्वरूपस्य च विवेचनमस्ति । अस्मिन् खण्डे शाकल्यस्य माण्डुकेयस्य च मतानामुल्लेखोऽस्ति । अंशोऽयम् असन्दिग्घरूपेण प्रातिशाख्यनिरुक्ताभ्यां प्राचीनतरोऽस्ति । व्याकरणविषयकस्य अप्ययमंशः नितान्तं प्राचीनविवेचनमस्ति । एतेनास्यारण्यकस्य समयस्य पूर्वसीमा विक्रमपूर्वसहस्रशतकमिति मन्तव्यं भवति । एतादृश्या कतिपयतुलनया आरण्यकमिदं यास्कपूर्ववति इति मन्यन्ते । यतोऽस्मिन्नंशे निर्भुजप्रतृृण्ण-सन्धिसंहितादयः पारिभाषिकशब्दाः प्रयुक्ताः सन्ति ।

चतुर्थारण्यकमतीव लघ्वाकारमस्ति । अस्मिन् अरण्यके महाव्रतस्य पञ्चमेऽहनि प्रयोक्तव्या महानाम्न्यः ऋचः सन्ति । अन्तिमारण्यके निष्कैवल्यशस्त्रस्य वर्णनमस्ति । एतेष्वारण्यकेषु प्रथमत्रयस्य रचयिता ऐतरेयः, चतुर्थस्य आश्वलायनः तथा पञ्चमस्य शौनको मन्यन्ते। शौनकोऽयं बृहद्देवतायाः निर्माताऽस्ति। सर्वसन्दर्भं विभाव्य डॉ० कीथ-महोदयः आरण्यकमिदं निरुतादवाचीनं मत्वाऽस्य समयं विक्रमपूर्वं षष्ठशतकं मन्यते। किञ्च यथार्थतः आरण्यकमिदिं निरुक्तात् अपि प्राचीनं स्वीकृतम् अन्यैः। आरण्यकमिदं महिदास-ऐतरेयस्य प्रथमत्रयाणाम् आरण्यकानां कर्त्तृत्वेन ऐतरेयब्राह्मणस्य एव समकालिकं मन्यते।

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=ऐतरेयारण्यकम्&oldid=455322" इत्यस्माद् प्रतिप्राप्तम्