ब्राह्मणपदं तु ग्रन्थविशेषवाचकमस्ति। बृहि वृद्धौ इति धातोः निष्पन्नं पदं ब्राह्मणम् इति।यज्ञानां विविधक्रियाकलापप्रतिपादकग्रन्था 'ब्राह्मणम्' इत्येतां संज्ञां भजन्ते। वेदो द्विविधो मन्त्ररुपो ब्राह्मणरुपश्चेत्युक्तं तदयं ब्राह्मणाभागोऽपि वेद एव। ब्रह्म वेदस्तद्वयाख्या ब्राह्मण इति केचित्। वेदशेषभूता इमे ब्राह्मणग्रन्था यज्ञानुष्ठानस्य विस्तृतं वर्णनं कुर्वन्ति। कतिचन कथा अपि ब्राह्मणेषु प्राप्यन्ते। प्रत्येकवेदशाखानुसारेण ब्राह्मणा आरण्यकग्रन्थाश्च भिन्नाः सन्ति। वेदार्थानां विवरणं स्पष्टीकरणं विशदीकरणं च उद्दिश्य एतानि ब्राह्मणानि रचितानि।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अर्थः, नाम च

सम्पादयतु

ग्रन्थवाची ब्राह्मणशब्दः विशेषतः नपुंसकलिङ्गे एव प्रयुक्तो भवति। मेदिनीकोशानुसारेण वेदभागस्य सूचकः ब्राह्मणशब्दः नपुंसक एव भवति।[] ग्रन्थार्थ ब्राह्मणशब्दस्य प्रयोगः पाणिनीयव्याकरणे[], निरुक्ते[], शतपथब्राह्मणे[], ऐतरेयब्राह्मणे[] च न केवलं समुपलब्धो भवति, प्रत्युत तैत्तिरीयसंहितायामस्य सर्वाधिकप्राचीनप्रयोगोऽपि प्राप्यते।[] ब्राह्मणं ब्रह्मणः व्याख्यापरकग्रन्थानां नाम अस्ति। ब्रह्म-शब्दः स्वयमनेकार्थेषु प्रयुक्तो भवति, येष्वेकोऽर्थः ‘मन्त्रः' अर्थात् वेदे निर्दिष्टमन्त्रः।[] अनेन प्रकारेण वैदिकमन्त्राणां व्याख्यानोपस्थितकरणेन ब्राह्मणस्येदं नामकरणम् अभवत्। 'ब्राह्म', शब्दस्यापरोऽप्यर्थो भवति - यज्ञः। अर्थात् यज्ञीयकर्मकाण्डस्य व्याख्या-विवरणयोः सम्पादनं ब्राह्मणग्रन्थानां मुख्यविषयः अस्ति। ब्राह्मणेषु मन्त्र-कर्म-विनियोगानां व्याख्याऽस्ति। ब्राह्मणानाम् अन्तरङ्गपरीक्षणेन ज्ञातो भवति यदेते ग्रन्थाः यज्ञानां वैज्ञानिकः, आधिभौतिकः, आध्यात्मिकः च स्वरूपसम्पादनकर्त्ता कश्चन महनीयो विश्वकोशोऽस्ति। यथा -

‘ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः' इति।[]

‘नैरुक्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम् ॥

प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥'[]

एवं वेदो द्विविधो मन्यते — मन्त्ररूपो ब्राह्मणरूपश्च। तदयं ब्राह्मणभागोऽपि वेद एव। ब्रह्मवेदस्तद् व्याख्या ‘ब्राह्मण' इत्यपि केचित्। वेदशेषभूताः इमे ब्राह्मणग्रन्थाः यज्ञानुष्ठानस्य विस्तृतं वर्णनं कुर्वन्ति। काश्चन कथा अपि ब्राह्मणग्रन्थेषु प्राप्यन्ते। प्रत्येकं वेदशाखानुसारेण ब्राह्मणाः, आरण्यकग्रन्थाश्च भिन्नाः सन्ति। साहित्यमिदं गद्यात्मकं विद्यते। यज्ञस्य विधानं कदा कृतं भवेत् ? कानि च साधनानि तदर्थमपेक्ष्यन्ते ? के च तत्तद् यज्ञानामधिकारिणः ? इत्येतद्विषयाणाम् उपपादनं ब्राह्मणसाहित्ये कृतमस्ति। समवाप्तानां प्रमुखब्राह्मणानां वेदाननुसरन्ती संख्या अनेन प्रकारेणास्ति-

( १ ) ऐतरेयब्राह्मणम्,

( २ ) शाङ्ख्यायनब्राह्मणम् ( ऋग्वेदीयम् ),

( ३ ) शतपथब्राह्मणम् ( शुक्लयजुर्वेदीयम्),

(४) तैत्तिरीयब्राह्मणम् ( कृष्णयजुर्वेदीयम् ),

( ५ ) ताण्ड्यम्,

( ६) षड्वंशम्,

( ७ ) सामविधानम्,

( ८ ) अार्षेयम्,

( ९ ) दैवतम्,

( १० ) उपनिषद्ब्राह्मणम्,

( ११ ) संहितोपनिषद्ब्राह्मणम्,

( १२ ) वंशब्राह्मणम्,

( १३ ) जैमिनीयब्राह्मणम् ( सामवेदीयम् ),

( १४ ) गोपथब्राह्मणम् ( अथर्ववेदीयम् )

ब्राह्मणग्रन्थेषु शतपथब्राह्मणं गुरुतममहत्त्वं भजते। तद्विशालकायं, यागानुष्ठानानां प्रतिपादनं सर्वोक्तमरीत्या तत्रैव कृतं दृश्यते। प्रस्तौति तद् यज्ञ-यागविषयकं विवरणं साङ्गोपाङ्गम्।

नामान्तराणि

सम्पादयतु

निरुक्तादिग्रन्थेषु ‘इति विज्ञायते' कथयित्वा ब्राह्मणग्रन्थानामेव निर्देशः कृतः। शब्द-व्याख्यायां दुर्गाचार्येण लिखितम्- 'एवं ब्राह्मणेऽपि विचार्यमाणे ‘ज्ञायते’ इति।[१०] पाणिनेः अष्टाध्यायीसूत्रे ‘अनुब्राह्मण'-शब्दस्य प्रयोगो प्राप्यते -‘अनुब्राह्मणादिनिः' 'तदधीते तद्वेद' इत्यर्थे।[११] ब्राह्मणसदृशो ग्रन्थः अनुब्राह्मणं तदधीते अनुब्राह्मणी'ति। अस्य शब्दस्य प्रयोगः भट्टभास्करेतैत्तिरीयसंहितायाः भाष्यभूमिकायां कृतः। एवं ब्राह्मणस्य एव अन्तरभागम् अनुब्राह्मणपदेन व्यपदिश्यते।

ब्राह्मणग्रन्थानां विस्तारोऽतीव विशालः व्यापकश्चासीत्। आश्वलायनगृह्यसूत्रे ( ३ अ० ३ ख० ) ऋषितर्पणेन सह आचार्यतर्पणोऽपि समुपलब्धो भवति। अाश्वलायनमतानुसारेण मन्त्रद्रष्टारः ऋषयो भवन्ति, ब्राह्मणद्रष्टारः अाचार्याश्च। एवंविधाचार्याणामत्र त्रयः गणाः समुपलब्धाः भवन्ति—

( १ ) माण्डूकेयगणः, ( २ ) शाङ्खायनगणः, ( ३ ) अाश्वलायनगणश्चेति।

एतेषामाचार्याणां क्रमशः नामानि सन्ति- कहोलः, कौषीतकः, महाकौषीतकः, भरद्वाजः, पैङ्गयः, महापैङ्गयः, सुयज्ञः, शाङ्खायनः, ऐतरेयः, वाष्कलः, शाकलः, गाग्र्यः, सुजातवक्रः, अौदवाहिः, सौजामिः, शौनकः, आश्वलायनः च। पैङ्गयमहापैङ्गयनामभ्यां प्रतीतो भवति यद्, भारतः, महाभारत च इमौ द्वौ भिन्नग्रन्थौ आस्ताम्। एकः लघुस्तथाऽपरो बृहदिति। सामान्यतः शाङ्खायनब्राह्मणम् एव कौषीतकिब्राह्मणनाम्ना ख्यातमस्ति, किञ्चास्यां सूच्यां पृथक् पृथग् नामत्वेन ज्ञातो भवति यदिमौ द्वावाचार्यौ स्तः। अत्र निश्चितं नास्ति यद् एतेः आचार्यैः ब्राह्मणग्रन्थानां निर्माणं कृतम्। किञ्च एतरेयस्तथा शाङ्खायनस्तु निश्चय एव ब्राह्मणद्रष्टारौ ऋषी स्तः। अनयोः ब्राह्मणग्रन्थावद्यापि समुपलब्धौ स्तः।

 विषयाः

सम्पादयतु

‘विधि'-शब्दस्य अर्थो भवति - यज्ञस्तथा तस्याङ्गानाम् उपाङ्गानाञ्च अनुष्ठानस्य उपदेशः । ताण्ड्यब्राह्मणे अस्य अनेकविधयो लभन्ते । उदाहरणार्थं 'बहिष पवमानाय' अध्वर्यु-उद्गातादि पञ्च ऋत्विजां प्रसर्पणस्य विधानमस्ति । सहैव नियमद्वयस्य पालनमपि नितान्तमावश्यकं भवति । ऋत्विजः प्रसर्पणं कुर्वन्तः शनैः शनैः पदक्षेपस्य विधानमस्ति । तत्र तूष्णीभावस्य अपि विधानमस्ति । पञ्चसु ऋत्विक्षु अध्वर्यु-प्रस्तोता-उद्गाता-प्रतिहत-ब्रह्मादीनां क्रमशः पङ्क्तिबद्धो भूत्वा गमनस्य व्यवस्था वर्तते । पङ्क्तिभङ्गेन प्रत्यवायो भवति, अनर्थस्यापि सम्भावना वर्द्धते । अस्मिन् काले स्वहस्ते किञ्चिद् धृत्वा चलन्ति ।

शतपथब्राह्मणस्तु विधिविधानानां कश्चन विशालः समूहः। आरम्भस्यैव काण्डे दर्शपौर्णमासादीनां मुख्यस्य अवान्तरस्य च अनुष्ठानानां वर्णनं यागक्रमेण अस्ति। द्वितीये काण्डे आधान-पुनराधान-अग्निहोत्र-उपस्थान-आग्रायण-दाक्षायणादियज्ञानां वर्णनं सविस्तरेण पुङ्खानुपुङ्खक्रमेणास्ति । विधिना सहैव हेतोरपि सयुक्तिकं वर्णनमपि कृतमस्ति। शतपथब्राह्मणस्य प्रारम्भिककण्डिकायामेव सहेतुकविधेः निर्देशः समुपलब्धो भवति । पौर्णमासेष्टयां दीक्षिता व्यक्तिः आहवनीयगार्हपत्याग्नयोर्मध्ये पूर्वस्यां दिशि स्थित्वा जलस्य स्पर्शं करोति । अस्य जलस्पर्शस्य किं कारणम् ? जलं मेध्यं भवति । अर्थात् यज्ञाय उपयोगी पदार्थोऽस्ति । मिथ्यावादिजनः यज्ञाय नोपयुक्तो भवति । अतः जलस्पर्शेन असौ पापम् अपहाय मेध्यो भवति । अतः जलस्पर्शेन जनः पवित्रो भूत्वा दीक्षितो भवति । अतोऽसौ जलस्पर्शं करोति ।

‘अमेध्यो वै पुरुषो यदनृतं वदति तेन पूतिरन्तरतः ॥ मेध्या वा अापः ॥ मेध्यो भूत्वा व्रतमुपायानीति । पवित्रं वा आपः । पवित्रपूतो व्रतमुपायानीति तस्माद्वा अप उपस्पृशति ॥'[१२]

विनियोगः

सम्पादयतु

ब्राह्मणग्रन्थेषु मन्त्राणां विनियोगस्य प्रथमावतारो भवति । कस्य मन्त्रस्य प्रयोगः कस्मिन्नुद्देश्यार्थं भवति ? अस्य सयुक्तिक-व्यवस्था ब्राह्मणग्रन्थे सर्वत्रोपलब्धा भवति । ब्राह्मणग्रन्थाः मन्त्रपदादेव विनियोगस्य युतिमत्तां सिद्धयन्ति । आपाततः मन्त्राणां तात्पर्यस्य यो बोधो भवति, स तु ब्राह्मणानाम् अन्तरज्ञ-आध्यात्मिक-व्याख्यानानन्तरमेव । ताण्ड्यब्राह्मणस्य द्वित्रा एव दृष्टान्ताः सन्ति ।

'स नः पवस्व शंगवे'[१३] अस्याः ऋचः गायनं पशूनां रोगनिवृत्त्यर्थं भवति ।[१४] किञ्च - ‘अा नो मित्रावरुणा' (ऋ० ३।।६२॥१६ ) अस्य मन्त्रगायनस्य विनियोगः दीर्घरोगनिवृत्त्यर्थमेवास्ति । कथनमिदम् आश्चर्यजनकं किञ्चित् प्रतीयते । अस्मिन् विषये ब्राह्मणस्य कथनमस्ति यत्, मित्रवरुणयोः सम्बन्धः प्राणेनापानेन च सहास्ति । दिवसानां देवता मित्रः अस्ति, तेनासौ प्राणानां प्रतिनिधिरस्ति । अनेनैव क्रमेण निशानां देवता वरुणोऽस्ति, अतोऽसौ अपानस्य प्रतीकोऽस्ति । फलतः दीर्धरोगनिवारणार्थम् अस्य मन्त्रस्य पूर्वोक्तविनियोगः नितान्तं सयुक्तिकोऽस्ति।[१५] कस्मिंश्चिद्विनियोगस्य प्रसङ्गे कल्पनाया एव विशेषरूपेण प्रभावः परिलक्षितो भवति, किञ्च ब्राह्मणस्य व्याख्या रीत्याऽनुगमनेन एवंविधेषु कतिपयस्थलेषु अपि अस्य युक्तिमत्ता प्रतीता भवति ।[१६] 'दविद्युत्या रुचा' इति मन्त्रोऽपि अस्ति।[१७]

हेतुपदेन तत्कारणानां निर्देशो भवति, येन कर्मकाण्डविधिः विशेषरूपेण सम्पन्नो भवति । ब्राह्मणग्रन्थेषु यज्ञीयविधि-विधाननिमित्तकसमुचितकारणस्य अपि निर्देशः सविस्तरेण प्राप्यते। अग्निष्टोमयागे उद्गाता सदसाभिधाने मण्डपे औदुम्बरस्य शाखायाः उच्छ्रयणं करोति। अस्य विधानस्य कारणस्य निर्देशं कुर्वन् ताण्ड्यब्राह्मणस्य[१८] कथनमिदमस्ति यत्, प्रजापतिः देवतायै ऊर्जः (बलस्य) विभाजनं कृतवान्। तेनैव औदुम्बरवृक्षस्य उत्पत्तिरभवत् इति। अनेन प्रकारेण औदुम्बरवृक्षस्य देवता प्रजापतिरभवत् । उद्गातुरपि सम्बन्धः प्रजापतिना सहैवास्ति । अतः उद्गातदुम्बरशाखाया उच्छ्रयणकार्यं स्वप्रथमकर्मणा करोति । एतदतिरिक्तम् अस्यावसरे प्रयुक्तस्य उच्छ्रयणमन्त्रस्याऽपि व्याख्याऽस्ति । अनेन प्रकारेण द्रोणकलशे सोमरसं स्रावयित्वा अग्निष्टोमे स्थापनस्य व्यवस्था वर्त्तते । अस्य द्रोणकलशस्य स्थापनं रथस्य अधोभागे भवति । अस्य विधानकारणस्य पूर्णनिर्देशः ताण्ड्यब्राह्मणे प्राप्यते।[१९]

प्रजापतिना कामना कृता 'प्रजानां सृष्टिरहं करोमि' इति। प्रजापते एवंविधमनसा चिन्तनेनैव तस्य मूर्ध्नः आदित्यस्य सृष्टिरभवत् । तेन प्रजापतेः शिरश्छेदनं कृतम् । तस्मादेव द्रोणकलशस्य सृष्टिरभूत् । तस्मादेव द्रोणकलशात् सोमरसं पीत्वा देवा अमरा बभूवुः । अनेन रूपेण प्रस्तरोपरि द्रोणकलशस्थापनस्य (अध्यूहनस्य) विषयेऽपि विधि-विधानानां कारणस्य निर्देशोऽस्ति।[२०] ‘वहिष्पवमान'-स्तोत्रे पञ्चानाम् ऋत्विजामग्रे गमनकर्त्ता अध्वर्युः स्वहस्ते दर्भस्य मुष्टिं नीत्वा गच्छति। कथम् ? अस्य कारणस्य निर्देशनकाले ताण्ड्यब्राह्मणे[२१] अश्वरूपं धारणं कृत्वा यज्ञात् पलायनस्य दर्भमुष्टिं दृष्ट्वा परावर्तनस्य च आख्यानं हेतुरूपेण उपस्थापितम् । अनेन प्रकारेण हेतुवचनेन पाठकान् अनुष्ठानानां कारणस्य स्वतः परिचयो लभते तथा समधिकायाः श्रद्धायाः उदयोऽपि भवति ।

अर्थवादः

यज्ञे निषिद्धपदार्थानां निन्दा ब्राह्मणग्रन्थेषु अनेकस्थलेषु समुपलब्धा भवन्ति। यज्ञे माषस्य विधानं निषिद्धमस्ति । अतोऽस्य निन्दाऽस्मिन् वाक्येऽस्ति — ‘अमेध्या वै माषाः' इति।[२२] अनुष्ठानस्य हवनीयद्रव्यस्य च देवतानां भूयसी प्रशंसातः ब्राह्मणानां कलेवरं वृद्धीङ्गतम्। अग्निष्टोमयागस्य विशिष्टप्रशंसा ताण्ड्ये उपलभ्यते।[२३] सर्वेभ्यः कामेभ्यः उपादेयत्वेन अयमेव यथार्थयज्ञः कल्पितः । यागानां समधिकमहत्त्वशालित्वेन अयमेव ज्येष्ठयज्ञाभिधानेन मण्डितोऽस्ति।[२४] अनेन प्रकारेण वहिष्पवमान-स्तोत्रस्य स्तुतिरत्रोपलब्धा भवति।[२५] अर्थवादस्य उपयोगविधेः आस्थापूर्वकपुष्ट्यर्थमेव भवति । एतैः अर्थवादैः प्रशंसावचनैश्च आद्यन्तब्राह्मणग्रन्थाः सम्पूरिताः सन्ति ।

निरुक्तिः

सम्पादयतु

ब्राह्मणग्रन्थेषु शब्दानां निर्वचनस्य अपि स्थाने स्थाने निर्देशः प्राप्यते। निर्देशोऽयम् एतावन्मार्मिको, वैज्ञानिकश्च अस्ति यद्, भाषाशास्त्रदृष्ट्या अपि अतीव महत्त्वपूर्णः प्रतीतो भवति । निरुक्ते येषां शब्दानां व्युत्पत्तयः प्राप्यन्ते, तेषां मूलमेतेषु ब्राह्मणग्रन्थेषु उपलब्धमस्ति । निर्वचनमिदं नास्ति काल्पनिकम्। भाषाविज्ञानदृष्ट्या अस्य वैज्ञानिकता अक्षुण्णैवास्ति । एतादृशी निरुक्तिः स्वयं संहिता भागेऽपि उपलब्धा भवति । यस्याः अाश्रयं गृहीत्वा ब्राह्मणग्रन्थस्य व्युत्पत्तिः निर्मिताऽभवत् । दधि-उदक-शब्दयोः व्याख्या संहिताग्रन्थेषु अनेन प्रकारेणास्ति - ‘तद्दघ्नोदधित्वम्'[२६], ‘उदानिषुर्महीरिति तस्मादुदकमुच्यते'।[२७] शतपथब्राह्मणे ताण्ड्यब्राह्मणे चैव उपादेयानां निरुक्तीनां भाण्डारः अस्ति । नानाविधानां स्तोत्राणां सामाभिधानानाञ्च सुष्ठुनिरुक्तिः ताण्ड्यब्राह्मणे समुपलब्धाऽस्ति । आज्यस्तोत्रस्य व्याख्या 'अजि'- शब्दात् कथयित्वा सुष्टु व्याख्यानस्याप्युपक्रमः प्राप्यते - 'यदाजिमायन् तदाऽऽज्यानाम् अाजत्वम्'।[२८] रथन्तरस्य निरुक्तिः ईदृशी भवति - ‘रथं मर्या क्षेप्लाऽतारीत् इति तद्रथन्तरस्य रथन्तरत्वम्'।[२९] अनेनैव प्रकारेण बृहत्साम्नः निरुक्तिः — 'ततो बृहदनु प्राजायत । बृहन्मर्या इदं स ज्योगन्तरभूदिति तद्बृहतो बृहत्त्वम्'।[३०] अस्य अयमाशयः यत्, रथन्तरसामानन्तरमेव बृहत्सामस्योत्पत्तिरभूत् इति। प्रजापतेः मनसि सामोऽयं बृहत्कालपर्यन्तं निवसितवान् । अतोऽस्य सामस्य विशिष्टनामकरणमस्ति।

आख्यानम्

सम्पादयतु

आख्यानमिदं द्विविधं भवति - स्वल्पकायम् आख्यानं, दीर्घकायमाख्यानञ्चेति । स्वल्पकायिकेष्वाख्यानेषु तासां कथानां गणना भवति, यस्यां कथायां सयुक्तिता प्रदर्शनं समुल्लिखितं भवति । एतानि आख्यानानि किञ्चिदभेदेन सहानेकेषु ब्राह्मणेषु समुपलब्धानि सन्ति । ईदृक्षु लघ्वाख्यानेषु कतिपयमुख्याख्यानानि एतानि सन्ति - 'वाचः देवान् परित्यज्य सलिले तदनु वनस्पतौ च प्रवेशः'[३१] स्वर्भानुरसुरस्य आदित्यस्य च आक्रमणं तथा अत्रिमुनिना तस्य अन्धकारस्य विघटनम्[३२], यज्ञस्य अश्वरूपे देवताभिः अनाक्रमणं तथा दर्भमुष्ट्या तस्य प्रत्यावर्त्तनं[३३], अग्निमन्थनकाले घोटकमग्रे स्थापनम्[३४], देवासुराणां मध्ये बहुविधसङ्ग्रामम्'।[३५]

एतेषु लघ्वाख्यानेषु यदा कदा अतीव गम्भीरतात्त्विकतथ्यानामपि सङ्केतो लभते, यद्ब्राह्मणस्य कर्मकाण्डात्मकवर्णनाद् नितान्तं भिन्नं भवति तथा गूढ-गम्भीरार्थप्रतिपादकमपि भवति। प्रजापतेः प्रार्थनोपांशुरूपेण कर्त्तुं शतपथब्राह्मणे यस्य कथानकस्योपक्रमः प्राप्यते, सः तु नितान्तः रहस्यमयोऽस्ति । श्रेष्ठतां प्राप्तुं वाक्-मनसोः कलहः समुत्पन्नोऽभवत् । मनसः कथनमासीद् यत्, याऽनभिगतवार्ता वाणी न उच्यते । ममानुकरणं कुर्वती मम पश्चाच्चलति (कृतानुकरा अनुगन्त्री ) । वाण्येाः कथनमासीत् —यत्त्वं जानासि तस्य विज्ञापनाऽहमेव करोमि । मनसा ज्ञानं किंवा चिन्तिततथ्यानां प्रकटीकरणं वाण्येव करोति । अतः अहमेव श्रेष्ठाऽस्मि । उभौ प्रजापतिसन्निधौ गतवन्तौ । प्रजापतिना स्वनिर्णयः मनसः पक्षे एव प्रदत्तः । अस्य कथानकस्याभ्यन्तरे मनोवैज्ञानिकतथ्यस्य विशदः सङ्केतो लभते।[३६] वाचा सम्बद्धाः बहुविधाख्याः रुचिराः शिक्षाप्रदाश्च सन्ति । गायत्रीछन्दः सोमं देवताभ्यः नीत्वा गच्छति स्म, मार्गे गन्धर्वाः तम् अपाहरन् । देवता वाचं तस्य पार्श्वे प्रेषयन् वाक् तं नीत्वा परावर्तिता । वाचं स्वपक्षे आानयितुं गन्धर्वाः प्रयत्नशीलाः बभूवुः । ते स्तुतिप्रशंसावचनैः तां सन्तोष्य स्वपक्षे कर्त्तुमैच्छन् । उत देवा अपि गायनैर्वादनैश्च ताम् आवर्जयितुमैच्छन् । वाणी देवातानां कार्यैः प्रसन्ना भूत्वा तेषां पार्श्वे अगच्छत्। अस्याः कथायाः प्रतीयमानोपदेशोपरि ब्राह्मणस्य आग्रहोऽस्ति यद्, अद्यापि स्त्रियः स्तुतेरपेक्षा गायनं प्रति अधिकाकृष्टा भवन्ति । स्त्रियः स्वभाव एवायं भवति इति।[३७]

सृष्टि-विषये अपि अनेकानि आख्यानानि ब्राह्मणग्रन्थे समुपलब्धानि सन्ति। परमपुरुषेण चतुर्णां वर्णानाम् उत्पत्तेः उल्लेखस्तु पुरुषसूक्ते एवोपलब्धो भवति । ब्राह्मणेष्वपि प्रसङ्गस्यास्य सुष्ठु वर्णनं प्राप्यते। ताण्डच्यब्राह्मणे प्रजापतेः अङ्गविशेषेण वर्णानां तथा तत्तद्देवतानाम् उत्पत्तिः वर्णिताऽस्ति।[३८] तस्मिन् वर्णने शूद्रवर्णानां यज्ञाधिकारात् निष्क्रमणस्य अपि सुष्ठु उत्पत्तिः प्रस्तुताऽस्ति । प्रजापतिमुखाद् ब्राह्मस्याग्नेश्च बाहोः क्षत्रियस्येन्द्रस्य च, मध्यदेशात् वैश्यस्य विश्वेदेवायाश्च पादेन केवलं शूद्रस्यैवोत्पत्तिः दर्शयित्वा शूद्रस्य कर्त्तव्यमपि निर्देशितम् -

‘तस्मात् शूद्र उत बहुपशुरयज्ञियो विदेवो हि। नहि तं काचन देवतान्वसृज्यत। तस्मात्पादावनेज्यं नातिवर्धते । पत्तोहि सृष्टः’[३९]

कतिपयेष्वाख्यानेषु साहित्यिकसौन्दर्यस्य तथा रुचिराकल्पनायाश्च सुष्ठु अभिव्यञ्जना प्राप्यते। रजन्याः उदयस्य विषये सुष्ठु आख्यानमेकं मैत्रायणीसंहितायां प्राप्यते।[४०] येन ज्ञातो भवति यत्, याः विषादं विस्मरणाय रात्रेः उत्पत्तिरासीत् । यमस्य परलोके गते सति तस्यैव दुःखेन दुःखिता यमी सर्वदा विषीदन्ती विलपन्तीञ्च समययापनं करोति स्म । इच्छन्नपि सा तं विस्मर्तुं नाशक्नोत् । तस्मिन् काले, दिनस्यैव राज्यमासीत् । दिने तं विस्मत्तुं सा नाशक्नोत् । प्रजापतिना दयावशेन रात्रिः समुत्पादिता । सकलसंसृतिः तमसाच्छन्नाऽभवत् । तदैव यमी यमं विस्मृतवती । पक्षसम्पन्नानां पर्वतानामिन्द्रेण पक्षच्छेदनस्य कथाऽप्यत्रैव उपलब्धाऽस्ति ।[४१]

बृहत्कायाख्यानेषु पुरुरवा-उर्वश्योराख्यानम्[४२], प्राचीनजलौघस्येतिहासः[४३] शुनःशेपस्याख्यानं[४४] च मुख्याख्यानानि सन्ति । एतेषाम् अनेकाख्यानानां बीजं संहितायामेव अन्तरविष्टमस्ति। ब्राह्मणादिपौराणिकग्रन्थेषु तदेवव आख्यानबीजं गृहीत्वा स्वपद्धत्यानुरूपेण तस्य पल्लवनं कृतम् । पुरुरवा-उर्वश्योः वर्णनमृग्वेदस्यैकस्मिन् विख्यातसंवादसूक्ते अस्त्येव।[४५] अस्मिन् सूक्ते उभयोः पारस्परिककथनविषयकाः मन्त्राश्च प्राप्यन्ते। शतपथब्राह्मणे इदमेव आख्यानं विस्तरेण सह वर्णितमस्ति। प्राचीनौघस्य अथवा जलप्लावनस्य कथा भारतेतरसाहित्येऽपि उपलब्धा भवति । विषमजलप्लावनात् कश्चन वर्द्धिष्णुमत्स्यः मनोः त्राणं कृतवान् । प्लावनानन्तरं मनुः मानवीयसृष्ट्या रचनां कृतवान् । कथेयं मत्स्यावतारेण सह सम्बद्धाऽस्ति । पुराणेषु सविस्तरेण वर्णिताऽस्ति।[४६] शुनःशेपकथायाः सङ्केतः ऋग्वेदीयसूक्तेषु उपलब्धो भवति ।[४७] अस्यैव सुष्ठु विन्यासः ऐतरेयब्राह्मणस्य वैशिष्टयमस्ति । अनेन प्रकारेणाख्यानानां विकासे ब्राह्मणग्रन्थस्य अपि विशिष्टैका श्रृङ्खलाऽस्ति ।

 संहिता-ब्राह्मणयोः विषयपार्थक्यम्

सम्पादयतु

संहितायाः, ब्राह्मणस्य च स्वरूपे, विषये च नितान्तं पार्थक्यं परिलक्ष्यते। संहितायाः स्वरूपमुभयोः प्रकारयोरस्ति। बहुसंख्यकाः संहिताः छन्दोबद्धाः सन्ति। तेषां कतिपयांशा एव गद्यात्मकाः सन्ति, किञ्च ब्राह्मणग्रन्थाः सर्वथा गद्यात्मका एव भवन्ति। विवेच्यविषये अप्यन्तरमस्ति। ऋग्मन्त्रेषु देव-स्तुतीनां प्राधान्यमस्ति। अथर्वमन्त्रेषु ऐहिक-पारलौकिक-फलद-विषयाणां विवेचनमस्ति। अस्मिन् सूक्ते रोगनिवारणाय, सुयोग्य-पति-वरणाय, गृहनिर्माणाय, हलकर्षणाय, बीजवपनाय च बहुविधगार्हस्थ्यजीवनोपयोगिनां विषयाणां वर्णनमस्ति। राजकीयविषयेऽपि - शत्रूणां संहाराय, सैन्यसंचालनाय तथा तदुपयोगिनां साधनानां सविस्तरेण विवरणमस्ति। यजुर्वेदसंहितायां दर्शपौर्णमासादियज्ञानां सविस्तृतं विवरणं समुपलब्धं भवति।

ब्राह्मणानां विवेच्यविषयः संहितायां वर्णितेभ्यो विषयेभ्यः नितान्तं भिन्न एवास्ति। ब्राह्मणानां मुख्यविषयोऽस्ति विधिः - विधानं कदा भवितव्यम्? केन प्रकारेण तत्कर्म कर्त्तव्यम् ? तेषु किमाकाराणां साधनानामावश्यकता भवति ? के च तेषां यज्ञानामधिकारिणः भवन्ति ? एवंविधानां याज्ञिकविधीनां प्रतिपादनाय एव ब्राह्मणसाहित्यस्य उद्भवः समुदयः चाभवत्। याज्ञिकविषये कतिचिद्विरोधोऽपि प्रतीतो भवति, तस्य परिहारोऽपि ब्राह्मणस्योद्देश्यमस्ति। शबरस्वामिनो मतानुसारेण ब्राह्मणविधीनां सङ्ख्या दशधा भवति। अस्य कथनस्य तात्पर्यमिदमेवास्ति यत्, संहितायां स्तुतीनां प्राधान्यमस्ति, ब्राह्मणग्रन्थे च तद्विधीनामेव प्राधान्यमस्ति इति।

फलतः विधिः एव ब्राह्मणग्रन्थानां मुख्यविषयोऽस्ति। यत्र यत्र समुपलब्धाः अवान्तरविषयास्तु तस्य विधेः पोषकाः निर्वाहकाश्च भवन्ति। एवंविध-विषयाणां मीमांसकाभिधानम् अथर्ववादे भवति। अर्थवादे निन्दा-स्तुत्योः निवेशनः अस्ति। वादेऽस्मिन् यागनिषिद्धवस्तूनां निन्दा अस्ति तथा यागोपयोगिनां द्रव्याणां प्रशंसा वर्त्तते। विधिविधानश्च सयुक्तिकं भवति। निरुक्तिजन्यार्थेनापि ब्राह्मणवाक्यानां समर्थनं भवति। ब्राह्मणग्रन्थेषु विधिरेव तत्केन्द्रबिन्दुरस्ति, यं परितः निरुक्त-स्तुति-अाख्यान-हेतु-वचनादयः विविधा विषया स्वं स्वम् अावर्त्तनं सम्पूरयन्ति।

जैमिनिमुनिनापि पूर्वपक्षः स्थापितः - ‘वेदे न केवलं विधिवाक्यानाम् अस्तित्वमस्ति, तद्भिन्नविषयाणां प्रतिपादकवाक्यानामपि तत्र सत्ता वर्त्तते। फलतः एतानि वाक्यानि तु अनर्थकानि सन्त्येव, विध्यर्थकत्वाभावे सति नितान्तानि व्यथानि अपि सन्ति' ——

‘आम्नायस्य क्रियार्थत्वात् आनर्थक्यमतदर्थानाम्।'

सिद्धान्तपक्षस्य कथनमस्ति - ‘एतेषां वाक्यानाम् अप्युपादेयता वर्त्तते। एतेषां वाक्यानां यद्यपि स्वतः किमप्युपयोगिता नास्ति, तथापि एतानि विधि-प्रशंसायां प्रयुक्तानि सन्ति। अतः विधिप्रतिपादितार्थस्य एव अवान्तरवाक्यानि एतानि सन्ति। अतः परम्परया एतेषामुपयोगो विधिविधानेऽवश्यमेवास्ति -

‘विधिना तु एकवाक्यात् स्तुत्यर्थेन विधीनां स्युः'॥ इति।[४८] विश्लेषणमिदं ब्राह्मण-विषयान् एव लक्ष्यीकरोति।

ब्राह्मणग्रन्थानां प्रतिपाद्यविषये एतेषां दशवस्तूनां निर्देशः अस्मिन् श्लोके दशनीयः -

'हेतुर्निवचनं निन्दा प्रशंसा संशयो विधिः।

परक्रिया पुराकल्पो व्यवधारणकल्पना।।

उपमानं दशैते तु विधयो ब्राह्मणस्य तु।।'

परक्रिया तथा पुराकल्पशब्दानामर्थे मतैक्यं नास्ति। अनयोरुभयोरर्थः —

‘अन्यस्यान्यस्य चोक्तिर्या बुधैः प्रोक्ता पुरा कृतिः।

यो ह्यत्यन्तपरोक्षार्थः स पुराकल्प उच्यते॥'[४९]

राजशेखरेण इमौ द्वौ इतिहासस्य प्रभेदौ कथितौ। ययोः कथायामेकमेव नायको भवति सा परक्रिया भवति। यथा– रामायणम्। यत्र बहुनायकाः भवन्ति सा कथा पुराकल्प इति कथ्यते। यथा — महाभारतम्। अनयोरुभयोः समावेशो अत्र आख्यानस्य अन्तर्गततया भवति। किञ्च प्रमुखतां तु विधिरेव प्राप्नोति। अन्यविषयस्तु तदङ्गत्वेन तन्निर्वाहकत्वेन च गौणरूपमेवास्ति। ब्राह्मणग्रन्थे विहितयज्ञीयानुष्ठानानाम् ईदृशः विशालः राशिस्तथा बृहन् स्तूपः प्रस्तुतोऽभवत् यत्, तेषां यथार्थरूपेण ज्ञातुं तथा समुचितरीत्याऽनुष्ठानं कर्तुमेकः दुष्करो व्यापारोऽभवत्। फलतः अनुष्ठाने सौकर्याय कालान्तरे श्रौतसूत्राणाम् उत्पत्तिरभूत्।

स्वरूपम्

सम्पादयतु

आख्यानानि उपाख्यानानि च विवरणं विशदं सरसं च कुर्वन्ति। ब्राह्मणानि छन्दोबद्धानि न भवन्ति। एतानि गद्यमयानि। अन्तरान्तरा छन्दोबद्धानि वाक्यानि च सन्ति।

ब्राह्मणानां देशकालः

सम्पादयतु

ब्राह्मणग्रन्थेषु उपवलब्धभौगोलिकविवरणेन स्पष्टं भवति यत्, तेषां ब्राह्मणग्रन्थानाम् उदयस्य स्थानं कुरु-पाञ्चालप्रदेशस्तथा सरस्वतीनद्याः प्रदेशोऽस्ति । ताण्ड्यब्राह्मणस्य सारस्वतप्रदेशेन सह घनिष्ठतमसम्बन्धः अस्ति। ब्राह्मणग्रन्थानां सङ्कलनकालस्य अनुमानः ज्योतिःशास्त्रेण भवति । ब्राह्मणसाहित्येन ज्ञातो भवति यद्, उपनिषदाद् उदयस्य कालः प्रायः सहस्राधिकवर्षपश्चाद्वर्त्ती मन्तव्यः । शतपथब्राह्मणम् अतिप्राचीनं मन्यते । ग्रन्थेऽस्मिन् स्वराणां प्रयोगो विधिवदुपलब्धो भवति । अस्य सर्वमान्ये प्राचीनतमद्वितीये काण्डे एकातीवमहत्त्वशालिन्याः घटनायाः ज्योतिःशास्त्रे उल्लेखो लभते। अस्याशयोऽस्ति — ‘कृत्तिका' पूर्वस्यां दिशि उदितो भवति तथा तत्रतः प्रच्युतो न भवति । अस्याः घटनायाः स्थितिः प्रसिद्धज्योतिषाचार्यस्य बालकृष्णदीक्षितस्य गणनानुसारेण विक्रमात् सहस्रत्रयवर्षं पूर्वमेव भवितव्यम् । दीक्षितस्यास्यां गणनायामुपरि न कस्याऽपि अांग्लविदुषः ध्यानाकृष्टोऽभवत्, किञ्च विण्टरनित्स-महोदयेन जर्मनज्योतिषिणः प्रो० ए० प्रे० महोदयस्य गणनानुसारेण ग्रहस्थितिरियं ख्रीष्टात् ११०० ई० पूर्वं निश्चिता । अस्य ज्योतिर्विदः व्याख्यास्ति 'कृत्तिका' स्वोदयकालाद् दीर्घकालपर्यन्तं पूर्वस्यां दिशि दृग्गोचरी भवति । तेन ग्रहस्थितिरियं ख्रीष्टात् ११०० पूर्वमासीत् । किञ्च - ‘इताः ( कृत्तिकाः ) ह वै प्राच्यै दिशो न च्यवन्ते' इत्यस्य शब्दस्य अभिनवव्याख्यायाः स्वीकरणस्य न कापि आवश्यकताऽस्ति । द्वितीया विप्रतिपत्तिरियमस्ति यद्, ‘वेदाङ्गज्योतिष'-ग्रन्थः सर्वसम्मत्या शतपथब्राह्मणाद् अर्वाचीनरचनाऽस्ति । अस्य कालः ख्रीष्टात् चतुर्दशशतवर्षपूर्वं मान्योऽस्ति । डॉ० मैक्समूलरोऽपि अस्याः रचनायाः समयं ख्रीष्टात् ११८१ ई० पूर्वात् पश्चाद्वर्ती स्वीकर्तुं कथमपि सन्नद्धो नास्ति । यदि शतपथस्य अभिनवकालोऽयं मान्यो भवति, तर्हि वेदाङ्गज्योतिषः समयात्तस्य पूर्ववर्त्तिता भङ्गा भविष्यति, तथा चेयं मान्यता कथमपि समादरणीया न भवति । मैत्री-उपनिषदि निर्दिष्टा ज्योतिःशास्त्रस्य घटनायाः अाधारोपरि अस्य समयः ख्रीष्टात् १९०० ई० पूर्वमेव मान्योऽस्ति । घटनेयं स्वमनसि निधाय दीक्षितस्य मतानुसारेण अस्य कालः ख्रीष्टात् सहस्रत्रयवर्षं पूर्वमेव स्वीकर्तुं शक्नुमः । ब्राह्मणयुगोऽयं ख्रीष्टात् सहस्रत्रयवर्षपूर्वादारभ्य ख्रीष्टात् सहस्रद्वयवर्षपूर्वपर्यन्तमासीत् । प्राचीनतमत्वेन शतपथब्राह्मणस्य कालस्यादौ तथाऽर्वाचीनत्वेन गोपथब्राह्मणमस्य कालस्यान्तिमे भागे समायाति।[५०]

भाषा, शैली च (शिल्पविधानम्)

सम्पादयतु

समस्ताः ब्राह्मणग्रन्थाः गद्य एव निबद्धाः सन्ति। ब्राह्मणग्रन्थानां गद्यम् अतीव परिमार्जितं, प्रसन्नचित्तम्, उदात्तञ्चास्ति । दीर्घसमस्तपदानां न तु कुत्राऽपि दर्शनम्भवति न चापि अर्थज्ञाने काऽपि दुरूहता भवति । भगवत्याः भागीरथ्याः भव्यप्रवाह इव गद्यमिदं स्वप्रवाहेण सह प्रवहति । भाषा, मन्त्राणां भाषा इवैवास्ति तथापि प्राचीनशब्देभ्यः पराङ्मुखो भूत्वा अभिनवशब्दग्रहणे न काऽपि विप्रतिपतिरस्ति। संहिताभाषाणां पाणिनिना नियर्मितया भाषया सह संयोजिका मध्यवर्त्तिनी श्रृङ्खला इव ब्राह्मणानां भाषा कार्यं करोति । वाक्यानां विन्यासः सरलः सरसश्चासीत् । यज्ञीयविधानवर्णने नीरसता-समागमनस्य सम्भावना भवति तथापि गद्यमिदं लघुवाक्येषु विन्यस्तम् अस्ति । तेन हि वाक्येऽस्मिन् पर्याप्तरूपेण रोचकता, आकर्षकता हृदयावर्जकता च प्राप्यन्ते। आख्यायिकायाः अंशस्तु विशेषरूपेण हृदयङ्गमो भवति । यथा-

“सत्यं वै चक्षुः सत्यं हि वै चक्षुस्तस्मात् यदिदानीं दौ विवदमानावेयातम् - 'अहमदर्शम् 'अहमश्रौषम् इति । य एवं ब्रूयात् अहमदर्शमिति तस्मा एव श्रद्दध्याम्। तत् सत्येनैवैतत् समर्थयति।[५१]

ब्राह्मणकालिको धर्मः समाजश्च

सम्पादयतु

ब्राह्मणयुगे यज्ञसम्पादनमेव धर्मस्य मुख्यम् उद्देश्यमस्ति । यज्ञस्य सूक्ष्मातिसूक्ष्मतरानुष्ठानेभ्यः ब्राह्मणग्रन्थेषु सविस्तरं वर्णनं प्राप्यते। एतेषां विधीनां पूर्णनिर्वाहाय विशेषाग्रहः परिदृश्यते। अग्नेः स्थापना कदा करणीया ? केन विधिना कर्त्तव्या ? अाज्यस्थाहुतिः वेद्यां कुत्र स्थातव्या? वेद्यामुपरि आस्तरणाय कुशाग्रभागं पूर्वाभिमुखम् उत उत्तराभिमुखं भवितव्यम् ? इत्यादीनां प्रश्नानां विवेचनम् अतिसूक्ष्मः, विस्तृतश्चास्ति । समस्तेषु कर्मसु यज्ञ एव श्रेष्ठतमः । प्रजापतिः परमपूज्यः ब्राह्मणेषु उक्तः। विष्णोः परमपदत्वम् अपि अत्र उल्लिखितम्। 'अग्निर्वे देवानामवमो विष्णुः परमः'[५२] शिवस्य महादेव इति नाम ब्राह्मणग्रन्थेषु प्राथ्यमेन उद्बोधितम्। वैदिककाले एव चातुर्वण्यस्य व्यवस्था जाता आसात्। तत्कालीने समाजे सत्यस्य, दानस्य च अपि महान् महिमा आसीत्। तस्मिन् समाजे नार्याः महत्त्वम् अपि प्रत्यक्षं भवति। यज्ञं कर्तुं दानं कर्तुं पुण्यकर्म कर्तुं च पत्न्याः आवश्यकता भवति। ‘अयज्ञो वा एषो योऽपत्नीक’[५३] इति। पत्नीं विना मनुष्यः धर्मकार्यं कर्तुं अधिकारं न प्राप्नोति स्म। ‘अथा अर्धो वा एष अात्मनो यत् पत्नी'[५४]

ब्राह्मणसाहित्यम्

सम्पादयतु

ब्राह्मणसाहित्यं नितरामेव विशालं व्यापकञ्च वर्तते, किञ्च अद्य अनेकब्राह्मणग्रन्थाः कालकवलिताः बभूवुः । तेषां नामनिर्देशस्तथा तदुद्धरणानि च कतिपयेषु श्रौतग्रन्थेषूपलब्धानि भवन्ति । साहित्ये समुद्धृताः किञ्चानुपलब्धाः ब्राह्मणग्रन्थेषु कतिपयानां महत्त्वशालिग्रन्थानां नामोल्लेखमेवात्र प्राप्यते। डॉ० बटकृष्णमहोदयेन एवंविधानाम् उनुपलब्धब्राह्मणग्रन्थानाम् उपलभ्यमानोद्धरणानाञ्च एकत्र प्रकाशनस्य श्लाघनीयः प्रयत्नो विहितः ।[५५] एवंविधेषु ब्राह्मणेषु-

(१) शाकटायब्राह्मणग्रन्थस्य सप्ततिः उद्धरणानि अद्यापि उपलब्धानि भवन्ति । एतान्युद्धरणानि च विशेषरूपेण ऋग्वेदस्य सायणभाष्ये - १॥१०५॥१०; ७॥३३॥७; ८।। ९१॥१; ८॥९१॥५ इत्यादयस्तथा ताण्ड्यब्राह्मणस्य सायणभाष्ये - ४॥२॥१०; ४॥३॥२; ४॥५॥१०; ४॥६॥२३ प्राप्यन्ते। एतान्युद्धरणान्येव ग्रन्थस्य महत्तायाः पर्याप्तसूचकानि भवन्ति । अस्य कतिपयानि उद्धरणानि च जैमिनीयब्राह्मणग्रन्थे अक्षरशः उपलब्धानि भवन्ति ।

(२) भाल्लविब्राह्मणं सामवेदस्य एव एकाशाखायाः ब्राह्मणमासीत् । अस्य निर्देशः श्रौतग्रन्थातिरिक्तेः पतञ्जलेः महाभाष्ये[५६] तथा काशिकायां[५७] सूत्रोपरि लभते।

( ३) जैमिनीयम् अथवा तवलकारब्राह्मणम् - सामवेदस्य जैमिनिशाखया सह सम्बद्धं ब्राह्मणमिदमस्ति । यद्यपि ग्रन्थोऽयं बृहदाकारवान् महत्त्वपूर्णश्चास्ति तथापि पूर्वोक्तग्रन्थे नोद्धृतोऽस्ति । शाट्यायनेन सह ईदृशी समानता वर्तते, येन अस्योद्धरणस्य आवश्यकतैव प्रतीता नाभवत् । एतदतिरिक्ता महत्त्वपूर्णाः कतिपया ग्रन्थाः एवंविधाः सन्ति।

(४) आहूरकब्राह्मणम् (चरणव्यूहे निर्द्दिष्टः चरकशाखया सम्बद्धम्)

(५) कंकतिब्राह्मणम्,

(६) कालावधिब्राह्मणम् (पुष्पसूत्रे शाट्यायनब्राह्मणेन सह सम्बद्धम्),

(७) चरकब्राह्मणम्, (कृष्णयजुर्वेदस्य प्रधानशाखया चरकेण सह सम्बद्धम्),

(८) जाबालिब्राह्मणम्,

( ९ ) पैङ्गायनि-ब्राह्मणम्,

( १० ) माषशराविब्राह्मणम्,

( ११ ) मैत्रायणिब्राह्मणम्, ( कृष्णयजुर्वेदीय-मैत्रायणीयशाखया सह सम्बद्धम्),

( १२ ) रौरुकिब्राह्मणम्,

( १३ ) शैलालिब्राह्मणम् ( महाभाष्ये[५८] तथा काशिकायां निर्दिष्टम्),

( १४ ) श्वेताश्वतरब्राह्मणम्,

( १५) हारिद्रविकब्राह्मणम् (चरणव्यूहे निर्दिष्टस्तथा चरकशाखया सह सम्बद्धम्)

एतदतिरिक्तोऽपि निम्नलिखितानाम् अष्टब्राह्मणग्रन्थानां नामानि प्राप्यन्ते -

काठकब्राह्मणम्, खाण्डिकेयब्राह्मणम्, औखेयब्राह्मणम्, गालवब्राह्मणम्, तुम्बुरुब्राह्मणम्, आरुणेयब्राह्मणम्, सौलभब्राह्मणम्, पराशरब्राह्मणम्।[५९]

ऋग्वेदस्य ऐतरेयब्राह्मण-शांखायनब्राह्मणञ्चेति ब्राह्मणद्वयम् अनयोः ऐतरेयब्राह्मणमतिप्रथितम् । अत्राष्टौ पञ्चिकाः, प्रतिपञ्चिकं पञ्चाध्याया इति आहत्य ४० अध्यायाः सन्ति ।

शुक्लयजुर्वेदस्य शतपथब्राह्मणं नितान्तप्रसिद्धम्, अत्र शतमध्यायाः विद्यन्ते । कृष्णयजुर्वेदस्य तैत्तिरीयब्राह्मणनां ब्राह्मणभागो विद्यते ।

सामवेदस्य बहवो ब्राह्मणभागाः सन्ति । तद्यथा -

(१) ताण्ड्यब्राह्मणम् - अतिप्रसिद्धतरमिदं ब्राह्मणम् । अयं ग्रन्थः पञ्चविंशत्यध्यायशाली, अत एव पञ्चविंशब्राह्मणसंज्ञयापि प्रसिद्धयति । (२) षड्विंशब्राह्मणम्, ( ३) सामविधानब्राह्मणम्, (४) आर्षेयबाह्मणम्, (५) दैवतब्राह्मणम्, ( ६ ) उपनिषद्ब्राह्मणम्, (७) संहितोपनिषदब्राह्मणम् (८) वंशब्राह्मणम् (९) जैमिनीयब्राह्मणम्।

अथर्ववेदस्य - गोपथब्राह्मणम् । अत्र खण्डद्वयमेवास्ति । प्रथमखण्डे पञ्चाध्यायाः सन्ति, द्वितीयखण्डे च षडाध्यायाः सन्ति । ब्राह्मणग्रन्थेषु सर्वतो नवोऽयं ग्रन्थः कथ्यते ।  

 ब्राह्मणग्रन्थानां महत्त्वम्

सम्पादयतु

ब्राह्मणग्रन्थेषु वर्णितानां यागानुष्ठानानां विशालं किञ्च सूक्ष्मस्वरूपं परिस्थित्याः परिवर्त्तनेन अवश्यमेवमिदं धूमिलमभवत्, किञ्च धार्मिकदृष्ट्या इदमुपादेयं सङ्ग्रहणीयं मननीयञ्च अस्ति । भारतीयधर्मस्य इतिहासे श्रौत्रविधानस्य कश्चन विचित्र-युग एवासीत् । तं युगं निजसौष्ठवेन पूर्णसौन्दयेण सहोपस्थापनस्य श्रेय एतेषा ब्राह्मणग्रन्थानामेवास्ति । भक्तेः आन्दोलनस्य व्यापकत्वेन वैदिककर्मकाण्डस्य सर्वत्र ह्रासोऽभवत् । श्रौतयज्ञविधानम् अद्य अतीतस्यैकं स्मृतिमात्रमेवास्ति । वैदिकधर्मस्य कर्मकाण्डात् जनानाम् आस्था समाप्तप्राया अभवत् । फलतः न तु कुत्रापि श्रौतयागो भवति, न च अप्यनुष्ठानस्य साक्षात्कर्तुमवसरः प्राप्तो भवति । इदमेव कारणमस्ति यद्, ब्राह्मणानां क्रियाकलापस्य यथार्थज्ञानमेका विषमा समस्या एवास्ति ।

ब्राह्मणग्रन्थानाम् अनुशीलनेन ज्ञातो भवति यत्, तस्मिन् काले यज्ञयागाद्यनुष्ठानविषये विद्वत्सु शास्त्रार्थाः अभवन् । तेन एव मीमांसावच्छास्त्रस्य उत्पत्तिरभूत् । अस्यैव मीमांसाशास्त्रस्य तर्कपद्धत्यनुसारेण यज्ञीयविषयाणां विमर्शो भवितुं शक्यते । मीमांसा-पद-हेतवे न्यायशब्दस्य प्रयोगः अस्मादेव कारणात् समुपयुक्तः प्रतीतो भवति। ब्राह्मणग्रन्थेषु यज्ञीयविषयकमीमांसकाः विदुषः ब्रह्मवादिनः कथ्यन्ते । ताण्ड्यमहाब्राह्मणे— ‘एवं ब्रह्मवादिनो वदन्ति'[६०] एवमुक्त्वा कतिपयानां यज्ञीयसमस्यानां समाधानमपि प्राप्यते। शतपथब्राह्मणे एवंविधानों ब्रह्मवादिनां मतस्य समीक्षा तथा तेषां नाम्नाम् अप्युल्लेखो लभते। उदाहरणार्थम् – दीक्षाग्रहणात् पूर्वदिने भोक्तव्यं, न वेति प्रश्नमादाय सावयस-आषाढ-नामकस्य आचार्यस्य याज्ञवल्क्येन सह गम्भीरमीमांसा समुपलब्धा भवति।[६१] आषाढाचार्यस्य मते अनशनमेव व्रतमासीत्, किञ्च याज्ञवल्क्यमते भोजनं करणीयम् आसीत्। 'मीमांसान्ते' अस्य क्रियापदस्य तथा 'मीमांसा' इव संज्ञापदस्य प्रयोगः ब्राह्मणग्रन्थे बहुलतया प्राप्यते- ‘उत्सृज्यां नोत्सृज्यामिति मीमांसान्ते ब्रह्मवादिन इत्याहुः उत्सृज्यामेवेति’[६२], 'ब्राह्मणं पात्रे न मीमांसेत'[६३], ‘उदिते होतव्यमनुदिते होतव्यमिति मीमांसान्ते’[६४] अनेन प्रकारेण ब्राह्मणग्रन्थानामनुशीलनं बहुविधसिद्धान्तं प्रति अस्माकं ध्यानाकृष्टं करोति। तद्यथा

(क) बहुविधानुष्ठानानां याज्ञिकस्वरूपाणाञ्च इतिहासस्य पूर्णपरिचयं ददाति । ब्राह्मणेषु यज्ञः वैज्ञानिकसंस्था इवास्माकं सम्मुखे आयाति ।

(ख) जनाः तैः निर्वचनैः परिचिताः भवन्ति, ये निरुक्तस्य निरुक्तीनाम् आधार इव सन्ति।

(ग) तेषां सुष्ठु आख्यानानां मूलरूपेणापि जनाः परिचिताः भवन्ति, येषां विकासः अवान्तरकालिकेषु पौराणिकग्रन्थेषु विशिष्टरूपेण अभवत् ।

(घ) कर्ममीमांसायाः उत्थानस्य, आरम्भस्य च रूपं विज्ञातुं ब्राह्मणग्रन्थाः पूर्वपीठिकायाः कार्यं कुर्वन्ति । ब्राह्मणाध्ययनेन बहुविध-शास्त्राणाम् उदयस्य कथां ज्ञातुं शक्नोति । यज्ञीयावश्यकता-सम्पूर्त्यर्थं शास्त्रमिदम आविर्भूय स्वविकासस्य कथां सार्वभौमक्षेत्रेऽपि कथं केन प्रकारेण वा सृजति ? स्वयमेव ब्राह्मणग्रन्थमाध्यमेन कथयति।

वेदानाम् अविभाज्याङ्गत्वेन

सम्पादयतु

ब्राह्मणान्तर्गते त्रिप्रकारकाणां ग्रन्थानां समावेशोऽस्ति ।

(१) ब्राह्मणम्,

(२) आरण्यकम्,

(३) उपनिषदश्चेति

‘मन्त्रब्राह्मणयोर्वेदनामधेयम्॥' अनेन आपस्तम्बस्य सूत्रेण मन्त्र इव ब्राह्मणोऽपि वेदनामधेयम् । निघण्टु-निरुक्तकारौ वेद इव ब्राह्मणं मन्येते । दार्शनिकसूत्राणां भाष्याणाश्च रचयिता पाणिनि-कात्यायन-पतञ्जलयः अपि तथैव ब्राह्मणं वेदस्य अविभाज्यमङ्ग मन्यन्ते। मनुनाऽपि मन्त्रेण सह ब्राह्मणमपि वेद एव कथ्यते ।

निघण्टुग्रन्थे वेदादिव ब्राह्मणादपि शब्दाः सङ्गृहीताः सन्ति । यास्कोऽपि स्वनिरुक्ते संहिताग्रन्थादिवत् ब्राह्मणग्रन्थादप्युद्धरणानि समाविशष्टानि । पाणिनिस्तथा कात्यायनोऽपि स्वरवैदिकीप्रक्रियायां स्वकीयसूत्रेषु ‘वेदे' ‘छन्दसि' इत्यादिपदानां प्रयोगं कृत्वा ब्राह्मणमसन्दिग्धरूपेण श्रुतिः कथनं प्रति स्पष्टरूपेण सङ्केतं करोति । महर्षिपाणिनिरपि ‘छन्दसि' इत्यत्र मन्त्रब्राह्मणयोः समावेशमकरोत् । ‘चतुर्थ्यर्थे बहुलं छन्दसि' ( पाणिनि सू० २॥३॥६२ ) इत्यनेन सूत्रेण मन्त्रब्राह्मणात्मकवेदेऽपि षष्ठीविधानमकरोत् । मन्त्रादेव ‘पुरुषमृगश्चन्द्रमसः' तथा 'पुरुषमृगश्चन्द्रमसे' इत्यादीनामुदाहरणानां सङ्कलनं कृत्वा षष्ठीविधानमकरोत् । बहुलग्रहणात् ‘चन्द्रमसेरुदमीरात्र्यै' इत्यादौ षष्ठ्याभावोऽपि दृश्यते । ‘या खर्वेण पिबति तस्यै खर्वः' इत्यत्र ‘षष्ठ्यर्थे चतुर्थीति वाच्यम्' इत्यनेन 'तस्याः' इति षष्ठीस्थाने 'तस्यै' इति चतुर्थी समुपलब्धा भवति ।

'यां मलवद् वाससं सम्भवन्ति, यस्ततो जायते सोऽभिशस्तो, यामरण्ये तस्यैतेनो, या स्नाति तस्या अप्सु मारको, याऽभ्यङ्क्त तस्यै दुश्चर्या’

एवंविधानि अनेकब्राह्मणवचनानि महाभाष्ये प्राप्यन्ते। कथनस्य तात्पर्यमिदमस्ति यद्, ‘छन्दसि' इति कथनेन मन्त्रब्राह्मणयोरुभयोर्ग्रहणमत्र पाणिनेः अभीष्टमस्ति । तेन हि सः ब्राह्मणानि वेदानाम् अविभाज्याङ्गानि मन्यते ।

कतिपयेषु सूत्रेषु पाणिनिः भाषाविषयकाणां नियमानां निर्देशं कृतवान् । भाषातः भिन्नो भवति वेदः । फलतः एवंविधानां सूत्राणां प्रत्युदाहरणे सः मन्त्रब्राह्मणात्मकाभ्यां ग्रन्थाभ्यां समानरूपेण उद्धरणानि दत्तवान्। 'प्रथमायाश्च द्विवचने भाषायाम्'[६५] एवंविधमेव सूत्रमस्ति। युष्मद्शब्दस्य प्रथमाद्विवचने भाषायां युवाम् इति रूपो भवति, किञ्च भाषाभिन्ने तस्य रूपं ‘युवम्' भवति । अन्यदप्युदाहरणानि यथा - ‘युवं सुतरामविश्वना[६६], युवं वै ब्रह्मणौ भिषजौ[६७], युवमिदं निस्कुरुतम्'[६८]। एवं पाणिनेः सम्मतौ मन्त्रब्राह्मणयोर्मध्ये न केनापि प्रकारकेण भेदः अस्ति । उभावपि वेदस्यैवाभिन्नम् अङ्गे स्तः ।

महर्षिपाणिनिः स्वयमेव वेदभाण्डागारस्य अनुशीलनं कृत्वा स्वरवैदिकीप्रक्रियायाः स्वकीयसूत्राणां प्रणयनं कृतवान् । स्वरवैदिकीप्रक्रिया एव तस्य वेदविषयकस्य विस्तृताध्ययनस्य तथा स्वरविश्लेषकगम्भीरज्ञानस्य प्रत्यक्षसूचिकाऽस्ति । पाणिनिः एकस्मिन् सूत्रे निपातनात् सिद्धशब्दानां सूची अददत्।[६९] अत्र निष्टर्क्य-देवहूय-प्रणीय-उन्नीयादिशब्दान् छन्दसि सिद्धान् एव मन्यन्ते । परिगणितेषु शब्देषु कतिचिच्छब्दास्तु संहितायामेवोपलब्धाः भवन्ति । कतिचित्तु ब्राह्मणग्रन्थेषु प्राप्यन्ते, एतेषु षट्शब्दास्तु ऋग्वेद-यजुर्वेदयोर्मध्ये नियमतः लभन्ते एव । यथा - ‘देवहूयः’[७०], खन्यः[७१], ब्रह्मवाद्यः[७२], उच्छिष्यः[७३], प्रणीयः[७४] तथा उपचाय्यपृडम्[७५]। अस्मिन्नेव सूत्रे निर्दिष्टशब्देषु 'स्तर्याध्वर्यः' अप्यस्ति । महाभाष्ये प्रदत्तायाः व्याख्यायाः अनुसारेण काशिकाकारस्तथा भट्टोजिदीक्षितः पदच्छेदं स्तर्या+अध्वर्यः इति करोति तथा स्त्रीलिङ्गस्तर्याशब्दमस्मिन् निपाते परिगणति पुल्लिङ्ग-स्तर्यस्तु नैव । किञ्च स्त्रीलिङ्ग-‘स्तर्या' शब्दः कस्मिन्नपि वैदिकग्रन्थे समुपलब्धो नास्ति । शतपथब्राह्मणमेवैवंविधः वैदिकग्रन्थोऽस्ति यत्र पुल्लिङ्ग-‘स्तर्यः'-शब्दस्य प्रयोगो लभते। तथा सहैव तत्र नञ्समासप्रयुक्तः ‘अस्तिर्यः'-शब्दस्यापि प्रयोगोऽस्ति। उभावपि पुल्लिङ्गे एव प्रयुक्तौ स्तः । अत्रापि स्त्रीलिङ्गे अप्रयुक्तमेवास्ति । शतपथब्राह्मणे अनेन रूपेणोद्धरणमस्ति -

‘हन्तेदम् अमृतम् अन्तरात्मन्नादधामहै, त इदमनृतम् अन्तरात्मन्नाधाय अमृता भूत्वा स्तर्यान् सपत्नान् मत्र्यानभिमविष्याम इति ।'[७६]

सायणोऽपि स्वभाष्येऽस्मिन्नेवार्थं प्रति सङ्केतयति—

‘अमृतरूपाग्निधारणेन यस्मादाहिताग्निः अहस्यः, तस्मात् विवदमानोऽसौ अनाहिताग्निम् अभिभवितुं शक्नोति इत्यर्थः ॥

सायणस्तु स्तर्यस्यार्थं अहिंस्यः मनुते । पूर्वोक्तस्य पाणिनिसूत्रानुशीलनस्य फलमिदमस्ति—

( क ) स्तयध्वर्यस्य पदच्छेदः स्तर्य +अध्वर्यः कर्त्तव्यः न तु स्तर्या + अध्वयः ।

(ख) पाणिनिः शतपथब्राह्मणेन पूर्णपरिचितोऽस्ति । फलतः संहिताब्राह्मणयोरुभयोः ग्रन्थयोः सङ्केतः, असौ ‘छन्दस्'-शब्देन स्पष्टतः करोति । सङ्केतः अस्ति यत् —शतपथब्राह्मणं वेदस्याविभाज्यमङ्गमस्ति । पतञ्जलिना महाभाष्ये निम्नलिखितनिर्देशः कृत इति -

( 1 ) स्थानिवदादेशोऽनल्विधौ[७७] - अस्य व्याख्यायाम् ‘वेदेऽपि सोमस्य स्थाने पूतिकातृणान्यभिषुणुयादित्युच्यते ॥' अत्र ब्राह्मणवचनं वेद इति कथ्यते ।

( २ )‘एकः पूर्वापरयोः'[७८] - अस्य सूत्रस्योपरि भाष्यमस्तिवेदे खल्वपि वसन्ते ब्राह्मणोऽग्निहोत्रादिभिः क्रतुभिर्यजते ॥’ अत्र ब्राह्मणवाक्यं वेदशब्देनाभिहितमस्ति ।

( ३ ) ‘एकः शब्दः सम्यग् ज्ञातः शास्त्रान्वितः सुप्रयुक्तः स्वर्गे लोके च कामधुग् भवति ॥' वाक्यमिदं श्रुतिमन्त्रभागेऽनुपलब्धमेवाऽस्ति । स्पष्टतो वाक्यमिदं ब्राह्मणवाक्यमस्ति ।

( ४ ) ‘तेऽसुरा हेलयो हेलय इति कुर्वन्तः पराबभूवुः, तस्माद् ब्राह्मणेन न म्लेच्छितवै, नापभाषितवै । म्लेच्छो हवा एष यदपशब्द:।' महाभाष्यकारेण श्रुत्युपस्थापितवाक्यमिदमस्ति, किञ्च संहितायां कुत्रापि उपलब्धं नास्ति ।

(५) पस्पशाह्निके पतञ्जलिना ब्राह्मणस्य चत्वारि वाक्यानि वेदशब्देनोद्धृतानि, यथा-‘योग्निष्टोमेन यजते य उ एनं वेद' इत्यादिवाक्यानि तैत्तिरीयब्राह्मणस्यैव सन्ति।[७९]

एवं अनुमीयते यत्, भाष्यकारः वेदशब्देन ब्राह्मणानामपि ग्रहणं करोति ।

महर्षिकणादः अपि ब्राह्मण परमेश्वरकर्तृकमेव मन्यते । 'बुद्धिपूर्वानामकृतिर्वेदे’।[८०] अस्य तात्पर्यमस्ति ‘स्वर्गकामो यजेत्' इत्यादिवाक्यानां रचना सर्वथा निदर्शेषः स्वतन्त्रः सर्वज्ञपुरुषेणाऽभवत् । अपरस्मिन् सूत्रे- ‘ब्राह्मणे संज्ञाकर्मसिद्धिलिङ्गम्'।[८१] अस्य सूत्रस्य तात्पर्यमस्ति, यथा- लोके पिता स्वपुत्रस्य नाम विष्णुमित्रादि करोति तथैव ब्राह्मणभागे 'उद्भिदा यजेत्, अभिजिता यजेत्' इत्यादि वाक्येषूद्भिदादिनामकरणं सर्वज्ञपरमेश्वरेणैव भवति । फलतः ब्राह्मणभागोऽपि ‘परमेश्वरकर्तृक एवास्ति' इति कणादमुनेर्मान्यताऽस्ति ।

न्यायसूत्रकारः गौतमस्तथा भाष्यकारः वात्स्यायनश्च वेदेष्वनेकान् दोषान् दर्शयित्वा तेषां विधिवत् प्रामाणिकरूपेण सामाधानं कृतवन्तौ । इमे द्वे कर्मणीदोषारोपणं समाधानञ्चेति ब्राह्मणवाक्योपरि एवेति । गौतमस्तु वेदस्य अप्रामाण्यार्थं दोषत्रयाणामुद्भावनं कृतवान् । ‘तदप्रामाण्यमनृत-व्याघात-पुनरुक्तदोषेभ्यः’।[८२] तद्यथा -

(क) ‘अनृतदोषः' 'पुत्रकामनया पुत्रेष्टियज्ञं कर्त्तव्यम्' यज्ञे कृते सत्यपि पुत्रप्राप्तिर्न भवति, इति तु अनृतदोषोऽस्ति ।

(ख) व्याघातदोषस्यापि सत्ता वेदेऽस्ति। उदिते सूर्ये होतव्यम्, सूर्योदयात्पूर्वमेव होतव्यम् । व्यतीतेऽपि सूर्यस्य वेलायां होतव्यम् - एवमत्र अादेशोऽस्ति, किञ्चास्या देशस्य तत्रैव निन्दाऽपि कृताऽस्ति ।

(ग) पुनरुक्तिदोषः - प्रथमम् ऋचं वारत्रयम्, अन्तिममृचश्चाऽपि वारत्रयमुच्चरितव्यम् -नियमोऽयं पुनरुक्तिदोषस्योदाहरणमस्ति ।

अस्य दोषारोपणस्य समाधानमपि तत्रैव प्रदत्तमस्ति । यथा—

(क) ‘कर्मकर्त्तृसाधनवैगुण्यात्'[८३] अस्योपरि भाष्यम् । पुत्रेष्टियागानां यथाविधिना अनुष्ठानेन पुत्रादेर्फलस्य प्राप्तिर्भवत्येव । कर्मकर्तुः साधनानां वैगुण्येन फलाभावो भवति । तेन वेदस्याप्रामाण्यं नैव सिद्धयति ।

(ख) ‘अभ्युपेत्यकाले दोषवचनात्'[८४] अत्र भाष्यं दर्शनीयम् । उदिते, अनुदिते एवं समयाध्युषिते-हवनाय पक्षत्रयं निर्दिष्टमस्ति । अत्र सङ्कल्पितपक्षे दृढनिष्ठाप्रकटनाय पक्षान्तरे दोषदर्शनमस्ति। अतोऽत्र व्याघातदोषाभाव इति ।

(ग) सामधेनीऋचः एकादश सन्ति । तां पञ्चदशसंख्याकं कर्तुमेव अन्तिमा ऋक् वारत्रयेणादृति भजते । 'अनुवादोपपत्तेश्व'[८५] सूत्रेऽस्मिन् स्पष्टरूपेण कथितमस्ति यत्, कस्यापि प्रयोजनसिद्धये कृताऽवृत्तिः अनर्थका न भवति । यथा- ‘तथा च मन्त्राभिवादः- ‘इदमहं भ्रातृव्यं पञ्चदशावरेण वाग्वज्रेणापबाधे योऽस्मान् द्वेष्टि यं च वयं द्विष्मः ॥' अतोऽत्रापि पुनरुक्तदोषाभाव इति ।

'उपनिषदां मीमांसा ब्रह्मसूत्रे उपन्यस्ताऽस्ति । ब्रह्मसूत्रञ्चेदमनेकत्रोपनिषदमिमां श्रुतिनाम्नैवाभिहितः । यथा -

(क) परात्तु तच्छ्रुते[८६] सूत्रेऽस्मिन् अविद्यावस्थायामेव जीवस्य कर्त्तृत्वं विचारितम् ।

( ख ) ‘सूचकश्च हि श्रुतेराचक्षते हि तद्विदः'।[८७] सूत्रस्य आशयोऽस्ति- भविष्ये यद्भविष्यति तेषां साधु-असाधुकर्मणां सूचकः नियमेन भवति । अस्य तथ्यस्य सूचकः श्रुतिवाक्यमस्ति । अस्य तथ्यस्य सूचकः श्रुतिवाक्यमस्ति । वाक्येऽस्मिन् छान्दोग्योपनिषदः[८८] निर्देशः शङ्कराचार्येण कृतः । यथा -

'यदा कर्मसु काम्येषु स्त्रियं स्वप्नेषु पश्यति ।

समृद्धिं तत्र जानीयात् तस्मिन् स्वप्ननिदर्शने ॥'[८९]

(ग) ‘तदभावो नाडीषु तच्छ्रुतेरात्मनि च’[९०]। सूत्रेऽस्मिन् बादरायणेन सुषुप्तिविषयकश्रुतीनामुल्लेखः कृतः । शाङ्करभाष्ये छान्दोग्य° ८॥३॥३; बृहदा० २॥१॥१९; कौषी० ४॥१९; बृहदा० २॥१॥१७ इत्यादिविभिन्नवाक्यानामुद्धरणं दत्त्वाऽस्य विषयस्य पूर्णमीमांसा कृताऽस्ति । ऋषयः ब्राह्मणग्रन्थान् वेदस्याविभाज्याङ्गम् अमन्यन्त ।

महर्षिजैमिनेः ग्रन्थनिर्माणस्योद्देश्य एव धर्ममीमांसा वर्त्तते । तेनास्यादिमः सूत्रमस्ति - ‘अथातो धर्मजिज्ञासा’ तथाऽस्य धर्मस्य स्वरूपं ब्राह्मणेष्वेव प्रतिपादितमस्ति । ‘शेषे ब्राह्मणशब्दः'।[९१] अत्र भाष्यकारशवरस्वामि स्पष्टं कथयति यत् -

मन्त्राश्च ब्राह्मणञ्च वेदः। तत्र मन्त्रलक्षण उक्ते परिशेषसिद्धत्वात् ब्राह्मलक्षणमवचनीयम्॥'

जैमिनिना धर्मस्य लक्षणमुक्तम्- ‘चोदनालक्षणोऽर्थो धर्मः'।[९२] विधिवाक्यमिदमस्ति तथा विधिवाक्यं तु ब्राह्मणे एवोपलब्धं भवति । फलतो विभिन्नानां भारतीयदार्शनिकानां दृष्टौ ब्राह्मणग्रन्थः वेदानामविभाज्याङ्गमस्ति । मनुस्मृत्या अनुशीलनेन ज्ञातो भवति यद्, ब्राह्मणग्रन्थः श्रुतिरेवास्ति । यथा -

(1) ‘धर्मं जिज्ञास्यमानानां प्रमाणं परमं श्रुतिः'।[९३] अत्र शतपथब्राह्मणस्य अपि इयमुक्तिः दर्शनीया - 'अग्निहोत्रं जुहुयात्'।[९४]

(२) ‘श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः।[९५] अत्र श्रुतिवेदयोः अभेदत्वं प्रतिपादितमस्ति। 'विविधाश्चोपनिषधीरात्मसंसिद्धये श्रुतिः'।[९६] अत्र मनुना उपनिषद् श्रुतित्वे प्रोक्ता। उपनिषद् तु ब्राह्मणस्य एव अङ्गमस्ति ।

(३) 'उदितेऽनुदिते चैव समयाध्युषते तथा।

सर्वथा वर्त्तते यज्ञ इतीयं वैदिकी श्रुतिः।।'[९७]

मनुरत्र- ‘उदिते जुहोति, अनुदिते जुहोति' ब्राह्मणवाक्यमिदं श्रुतिपदेनाभिधीयते ।

(४) मनुस्मृतौ ब्राह्मणेषु प्रयुतानां विशिष्टशब्दानां स्थाननिर्देशपूर्वकः प्रयोगो लभते। युद्धविजयिने सैन्याय मनुरादिशति- 'उद्धार' 'स्वराज्ञे देहि । उद्धारशब्दस्यार्थो भवति- ‘उत्तमं द्रव्यमुद्धृत्य दद्युरि’त्यर्थः (मेधातिथिः), ‘उदि्ध्रयते इति उद्धारो जितधनादुत्कृष्टधनं सुवर्णरजतकुप्यादिकं राज्ञे समर्पणीयम्' ( कुल्लूकभट्टः ) ।।

(५) ‘राज्ञश्च दद्युरुद्धारमित्येषा वैदिकीश्रुतिः'[९८]। अत्र वैदिकीश्रुतिशब्दात् तात्पर्यम् ऐतरेयब्राह्मणस्यानेन वाक्येनास्ति—

'इन्द्रो वै वृत्र हत्वा....... समहान् भूत्वा देवता अब्रवीद् उद्धारं म उद्गरत'।[९९]

ब्राह्मणग्रन्थस्तु वेदस्य व्याख्यानं कथ्यते । ब्राह्मणग्रन्थेष्वपि मन्त्राणामिवापौरुषेयता विद्यमानाऽस्ति । अत उभावपि श्रुतिरेवास्तः । ब्राह्मणसाहित्यमिदं नितरां विशाल़ व्यापकञ्च वर्तते। यागानुष्ठानानां प्रतिपादनं सर्वोत्तमरीत्या अत्रैव कृतं दृश्यते । प्रस्तौति तद् यज्ञयागविषयकं विवरणं साङ्गोपाङ्गम् । अतः ब्राह्मणानि एतानि वेदानाम् विभाज्याङ्गानि मन्यन्ते।

ब्राह्मणस्य विषयवस्तुनि

सम्पादयतु

ब्राह्मणस्य प्रतिपाद्याः विषयाः शावरभाष्ये लिखिताः यथा –

हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः।
परक्रिया पुराकल्पो व्यवघारणकल्पना ॥
उपमानं दशैते तु विधयो ब्राह्मणस्य तु ॥

परन्त्वेतेषु विधि- विनियोग- हेतु – अर्थवाद- निरुक्ति – आख्यानादीनामेव प्रधानता विद्यते। विधि च सर्वप्रमुखोऽस्ति।

प्रमुखब्राह्मणग्रन्थाः

सम्पादयतु

ऋग्वेदस्य ब्राह्मणेषु ऐतरेयब्राह्मणं, शाङ्खायनब्राह्मणञ्च प्रसिद्धे। यजुर्वेदस्य ब्राह्मणेषु शतपथब्राह्मणं सुप्रसिद्धम्। सामवेदीयब्राह्मणेषु ताण्ड्यब्राह्मणं, षड्विशब्राह्मणं, सामविधानब्राह्मणं, आर्षेयब्राह्मणं, देवताध्यायब्राह्मणं , छान्दोग्यब्राह्मणं, संहितोपनिषद् ब्राह्मणं, वंशब्राह्मणं, जैमिनीयतवल्कारब्राह्मणं च सुप्रसिद्धानि भवन्ति। अथर्ववेदीयमेकएव गोपथब्राह्मणं समुपलभ्यते।

भाष्याणि

सम्पादयतु

शतपथब्राह्मणस्य उभयोः शाखयोः भाष्यानि उपलब्धानि सन्ति -

(१) काण्वशतपथब्राह्मणस्य भाष्यं महाभारतस्य टीकाकर्त्रा नीलकण्ठेन कृतम्। भाष्यं त्वनुपलब्धमेवाऽस्ति, किञ्च तस्य निर्देशः महाभारत-वनपर्वस्य द्वाषष्ट्यधिकशतमध्यायस्य एकादशश्लोकस्य टीकायां तेनैव स्वयं कृतः।

(२) माध्यन्दिनशतपथस्य टीका उव्वटेन लिखिता इति श्रूयते। ऐतरेयब्राह्मणस्य भाष्याण्युपलब्धानि सन्ति। 

ऐतरेयब्राह्मणस्य भाष्याणि

सम्पादयतु

गोविन्दस्वामी ऐतरेयब्राह्मणस्य भाष्यम् अरचयत्। षड्गुरुशिष्यः ऐतरेयब्राह्मणस्य भाष्यम् अरचयत्।

तैत्तिरीयब्राह्मणभाष्यम्

सम्पादयतु

भवस्वामी भट्टभास्करस्य कथनानुसारेणास्य भाष्यं वाक्यार्थपरकम् आसीत्। केशवस्वामी बौधायनप्रयोगसारनामकग्रन्थे भवस्वामिनं स्मरति। एकादशशतके निर्मिते त्रिकाण्डमण्डने केशवस्वामिनः उल्लेखो वर्त्तते। अतोऽस्य समयः दशमशतकस्य पूर्वार्द्धे वक्तुं शक्यते। तैत्तिरीयसंहितायाः, तैत्तिरीयब्राह्मणस्य च भाष्यं केवलं निर्दिष्टमेव अस्ति न तूपलब्धम् अस्ति। भट्टमास्करः तैतिरीयसंहितायाः भाष्यं लिखित्वा तैतिरीयभाष्यमपि लिखितवान्। अाचार्यसायणः अाचार्यसायणोऽपि तैत्तिरीयब्राह्मणस्य भाष्यं प्रणीतवान्।

सामवेदीयब्राह्मणभाष्यम्

सम्पादयतु

सामवेदस्य ब्राह्मणेषु सायणात् पूर्ववर्तिनः कतिपया आचार्याः टीकां कृतवन्तः। हरिस्वामिनः पुत्रेण जयस्वामिना ताण्ड्यब्राह्मस्योपरि, गुणविष्णुना मन्त्रब्राह्मणोपरि, भास्करमिश्रेण आर्षयब्राह्मणोपरि तथा भरतस्वामिना सामविधानब्राह्मणोपरि भाष्यं रचितम्। आचार्यसायणस्तु निजपद्धत्यानुसारेण समग्रसामवेदीयब्राह्मणेषुपरि भाष्याणि प्रणीतवान्। गोपथब्राह्मणस्य न काऽपि व्याख्या समुपलब्धाऽस्ति। 

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भः

सम्पादयतु
  1. 'ब्राह्मण ब्रह्मसङ्गाते वेदभागे नपुंसकम्।'
  2. ( सू० ३॥४।३६ )
  3. ( ४२७ )
  4. ( शतप० ४I६॥ ९॥२०)
  5. ( ६॥२५॥८॥|२ )
  6. 'एतद् ब्राह्मणान्येव पञ्च हवींषि' (तै० सं० ३॥७॥१॥१ )
  7. (‘ब्रह्म वै मन्त्रः' शत'० ब्रा० ७॥१॥१॥५ )
  8. ( भट्टभास्करः-वै० सं० १॥५॥१ भाष्यम् )
  9. ( वाचस्पतिमिश्रः )
  10. ( निरु० टी० ३।११, २॥१७ )
  11. ( पा० सू० ४॥२॥६२ )
  12. ( शत० ब्रा० १।१।१।१ )
  13. ( ऋ० ९॥११।३)
  14. (६॥९॥६-९)
  15. (ता० ब्रा० ६-१०, ४-५ )
  16. (ता० ब्रा० ६॥९॥२४-२५)
  17. ( ऋ० ९॥६४॥२८ )
  18. ( ६॥४।१ )
  19. ( ६॥५॥१ )
  20. ( ताण्ड्य० ६॥६॥१-३ )
  21. ( ६॥७॥१६॥२० )
  22. (तै० सं० ५।१।८।१ )
  23. ( ६।३)
  24. ( ता० ब्रा० ६।३८-९ )
  25. ( ता० ६।८।५ )
  26. ( तै० सं० २॥५॥३॥३ )
  27. (अर्थ० ३॥१३।१ )
  28. ( ता० ७॥२॥१ )
  29. ( ता० ७॥६॥४ )
  30. ( ताण्डच्य ० ७॥६॥५)
  31. ( ताण्ड्य० ६॥५॥१०-१२ )
  32. ( ताण्डच्घ० ६६८ )
  33. ( ता० ६॥ ७I१८ )
  34. ( शत० १॥६॥४॥१५)
  35. ( शत० २॥१॥६॥८-१८; ऐत० १४२३, ६२१ )
  36. ( शत० १॥४॥५॥८-२ )
  37. ( शत० ३।२।४।२।६ )
  38. ( ६।१ )
  39. ( ताण्डच्य० ६॥१।११ )
  40. ( १।५।१२ )
  41. ( १॥१०॥१३ )
  42. ( शत० ११॥५॥१ )
  43. (शत० १।८।१ )
  44. (ऐत० ७॥२ )
  45. ( १०॥९५ )
  46. भा० पु० स्क० ८२४
  47. ( सू० १।२४, सू० ३० )
  48. ( जैमि० सू० १॥२॥२७ )
  49. (ब्रह्मा० पु० २, ३४॥६३-६४ द्वि० भा० )
  50. Chintamani Vaidya, History of Vedic Literature. page 18-24
  51. ( शत० १।३।२ द्र० )
  52. (ऐत० १।१, ता० ब्रा० ६।।९।। ७९ )
  53. तैत्ति० ब्रा० २॥२॥२॥६
  54. तै० ब्रा० ३।३।। ३॥५
  55. Collection of Fragments of Lost Brahman, Calcutta 1953
  56. ( ४॥२॥१०४ )
  57. ( ४॥२॥६६; ४॥३॥१०५ )
  58. ६॥४॥१४४
  59. भगवदत्तः, वैदिकवाङ्मय का इतिहास, भा० द्वि० पृष्० २६-३४
  60. ( ६॥४॥१५ )
  61. ( श० ब्रा० १।१।१७-१० )
  62. (तै० सं० ७॥५॥७॥१ )
  63. ( ता० ६॥५॥९ )
  64. ( कौषी० ब्रा० २॥९ )
  65. पा० सू० ७२२८
  66. वाज० सं० २०॥७६
  67. शत० ब्रा० ८।।३।२।१
  68. ऐत० ब्रा० २॥२८
  69. ३॥१॥१२३
  70. ऋ० ७l८५॥|२
  71. तै० सं० ७॥ ४।१३।१
  72. तै० सं० २। ५, ८, ३
  73. मै० सं० ३॥ ९, २
  74. मै० स० ३, ९, १
  75. काठ० ११, १
  76. २, २, २, १०
  77. १॥१॥५६
  78. १॥३॥८४
  79. ३॥११॥७॥|२
  80. वैशेषिकसूत्रम् ६॥१॥१
  81. वै० सू० ६॥१॥२
  82. न्या० सू० २॥१॥५
  83. न्या० सू० २॥१॥५८
  84. २॥१॥५९
  85. न्या० सू० २।१।।६०
  86. ब्र० सू० २॥३॥४९
  87. ब्र० सू० ३॥2॥४
  88. ५॥२॥९
  89. छान्दोग्योप० ५॥२॥९
  90. ब्र० सू० ३॥२॥७
  91. मीमांसा सू० २।१॥ ६०
  92. जै० सू० १॥ १||२
  93. मनु० १॥१३
  94. श० ब्रा० २॥७
  95. म०स्मृ० २॥१०
  96. म० स्मृ० ६॥२९
  97. मनु २/१५
  98. ७॥७९
  99. ऐ० ब्रा. ३/२१
"https://sa.wikipedia.org/w/index.php?title=ब्राह्मणम्&oldid=427248" इत्यस्माद् प्रतिप्राप्तम्