कपिष्ठलकठसंहितायाः नाम कस्यचित् ऋषेः नाम्ना अस्ति। एतस्याः संहितायाः पूर्णः ग्रन्थः अनुलब्धः। एतस्मिन् ग्रन्थे ऋग्वेदस्य प्रभावः दरीदृश्यते। चरणव्यूहस्य मतानुसारेण चरकशाखान्तर्गते कष्ठानां, प्राच्यकठानां कपिष्ठलकठानाञ्च उल्लेखो लभते, येनोल्लेखेन अस्य शाखा-सम्बन्धस्य पूर्णपरिचयो भवति ।

इतिहासः सम्पादयतु

कपिष्ठलः कस्यचित् ऋषिविशेषस्य नाम अासीत् । अस्योल्लेखः महावैयाकरणपाणिनिमहोदयः ‘कपिष्ठलो गोत्रे' (८।।३।९१ ) इत्येतस्मिन् सूत्रे कृतवान् । भाष्यकारेण दुर्गाचार्येणाऽपि स्वात्मानं 'कपिष्ठलो वाशिष्ठः' इति कथितम्।[१] सम्भवतः कस्यापि स्थानविशेषस्येदमभिधानमासीत् । अस्याः संहितायाः सम्पादकेनानुमीयते यत्कपिष्ठलग्रामस्य प्रतिनिधिः ‘कैथले'त्याख्यो ग्राम एवासीत् । ग्रामोऽयं कुरुक्षेत्रे सरस्वतीनद्याः पूर्वीयक्षेत्रेऽवस्थित आसीत् । अस्य ग्रामस्योल्लेखः काशिकायां तथा वराहमिहिरेबृहत्संहितायां[२] कृतः ।

अस्याः शाखायाः एकैव प्रतिः, साऽप्यपूर्णा एवोपलब्धा भवति । काठकसंहितातः अनेकविधं वैभिन्यं पार्थक्यञ्च अस्यां संहितायां परिलक्ष्यते । काठकसंहिता एव मूलग्रन्थस्य समानत्वेऽपि अस्य स्वराङ्कनपद्धतिः ऋग्वेदेन सह सम्बद्धा अस्ति। ऋग्वेद इव ग्रन्थोऽयम् अष्टकेष्वध्यायेषु च विभक्तोऽस्ति । इत्थंरूपेण कापिष्ठलसंहितायामुपरि ऋग्वेदस्यैव सातिशयः प्रभावः परिलक्ष्यते । ग्रन्थोऽयमपूर्ण एवाऽस्ति ।

विषयवस्तु सम्पादयतु

ग्रन्थेऽस्मिन् निम्नलिखितान्यष्टकानि तथा तदन्तर्गता अध्यायाश्च सन्ति –

  • प्रथममष्टकम् - सम्पूर्णम्, अष्टाध्याययुक्तोऽप्यस्ति ।
  • द्वितीयमष्टकम् - नवमाध्यायादारभ्य चतुविंशतिः अध्यायपर्यन्तम् ।
  • तृतीयमष्टकम् - ( त्रुटितमेव )
  • चतुर्थमष्टकम् - द्वात्रिशदध्यायं विहाय पञ्चविंशतिः अध्यायादारभ्य एकत्रिंशदध्यायपर्यन्तं सर्वेऽप्यध्यायाः समुपलब्धाः सन्ति ।
  • पञ्चममष्टकम् - अादिमोऽध्यायः (त्रयस्त्रिंशदध्यायं विनाऽन्यसप्ताध्यायाः समुपलब्धाः भवन्ति )।
  • षष्ठमष्टकम् - त्रयश्चत्वारिंशदध्यायं विना सर्वेऽप्यध्यायाः समुपलब्धाः भवन्ति ।

अष्टचत्वारिंशदध्याये ग्रन्थोऽयं सम्पूर्णो भवति । तुलनादृष्ट्या सत्यप्यपूर्णो ग्रन्थोऽयमतीव महत्त्वपूर्णोऽस्ति ।[३] [४]

सम्बद्धाः लेखाः सम्पादयतु

सन्दर्भः सम्पादयतु

  1. अहञ्च कापिष्ठलो वाशिष्ठः, निरुक्तटीकायां ४॥४
  2. ( १४॥४ )
  3. Shakhas of the White Yajurveda Puranam II, I, p. p. 6-17
  4. Shakhas of the Krishna Yajurveda Puranam. VII, I, p. p. 235 & 253. by Dr. Gangasagar Rai.
"https://sa.wikipedia.org/w/index.php?title=कपिष्ठलकठसंहिता&oldid=423444" इत्यस्माद् प्रतिप्राप्तम्