कर्णाटकराज्योत्सवः
नवम्बरमासस्य प्रथमे दिने कर्नाटकराज्ये महानुत्सवः प्रचलति । स एव राज्योत्सवः । १९५६ तमे वर्षे नवम्बरमासस्य प्रथमे दिने नवीनमैसूरुराज्यस्य अस्तित्वं प्राप्तम् । तत्पूर्वं कन्नडजनानां प्रदेशाः पञ्चधा विभक्ता आसन् । नवम्बरमासस्य प्रथमे दिने कर्नाटकस्य एकीकरणं अभवत् इति कारणादॆव राज्योत्सवः प्रतिवर्षं वैभवेन आचर्यते । प्राचीनकाले बेळगाव् -बिजापुर-धारवाड-केनराप्रदेशाः मुम्बै राज्ये विलीनाः जाताः आसन् । गुलबर्गा-बीदर-रायचूरु प्रदेशाः हैदराबाद् संस्थानान्तर्गताः आसन् मण्ड्य-मैसूरु-बेङ्गलूरु-प्रदेशाः मैसूरुसंस्थानान्तर्गताः आसन् दक्षिणकन्नड-कोडगुप्रान्ताः मद्रासराज्ये मिलिताः आसन् । इदानीं कर्नाटकराज्ये १७५ ताल्लूकु (मण्डलानि) सन्ति । ३१ जिल्लाकेन्द्राणि सन्ति । ४ विभागाः कृता सन्ति प्राशासनिक अनुकूलता कारणात् । बेळगांवविभागः, गुलबर्गविभागः, बेङ्गलूरिविभागः, मैसूरुविभागः च इति । १९५६ तमे वर्षे भारतदेशे भाषानुसारं राज्यानां विभागीकरणं सम्पन्नमभवत् । कन्नडभाषिकजनाः यत्र वसन्ति ते प्रदेशाः मैसूरुराज्ये प्रविष्टाः अभवन् । अनन्तरं १९७३ तमे वर्षे मैसूरुराज्यस्य कर्नाटकराज्यं इति पुनर्नामकरणं अभवत् । राज्यरचना पूर्वकाले सर्वत्र कन्नडभाषिकानां सर्वत्र अनादरः आसीत् बेळ्गाव्-विभागे मराठी भाषा अनिवार्या आसीत्, हैदराबाद् कर्नाटक प्रदेशे तेलगुभाषा, तथा कोडगु-मङ्गलूरु इत्यत्र कोडव, तुळु , मलयालं भाषाः व्यवहारे आसन् । क्वचित् तमीळुभाषाऽपि उपयोगे आसीत् । कन्नडभाषिकानां प्रदेशेषु कुत्रापि अभिवृद्धिकार्याणि न कृतानि आसन् । एवं प्रशासने कुत्रापि प्रातिनिधित्वं अलभमानाः जनाः विचलिताः आसन् ।
कर्णाटकराज्योत्सवः | |
---|---|
महिलाडोळ्ळुकुणित (विशिष्टं जानपदीयं वादननृत्यम्) | |
इतर नामानि | करुनाडु |
वर्गः | राज्यम् |
महत्त्वम् | Unification of कन्नडम्-speaking regions of South India as the state of Karnataka |
दिनाङ्कः | नवेम्बरप्रथमदिनम् |
आन्दोलनम्
सम्पादयतुकन्नडभाषिकानं राज्म् कर्तुम् आन्दोलनं १८५६ तमे वर्षे आरब्धम् । धारवाडनगरे १८९० तमे वर्षे कर्नाटकविद्यावर्धकसङ्घः प्रतिष्ठापितः अभवत् । बेङ्गलूरुनगरे १९१६ तमे वर्षे कर्नाटकसभा, १९१५ तमे वर्षे कन्नडसाहित्यपरिषत् च प्रतिष्ठापिता । प्रतिवर्षं साहित्यसम्मेलनेषु निर्णयाः स्वीकृताः अभवन् । आन्दोलनस्य च समर्थनं प्राप्तम् । कर्नाटकराज्यनिर्माणकार्ये अनेके ज्येष्ठाः, पत्रिकाः,संघसंस्थाः, राजकीयजनाः कार्यं कृतवन्तः । १९२४ तमे वर्षे महात्मगान्धिनः अध्यक्षतायां काङ्ग्रेस अधिवेशने एकं कर्नाटकैकीकरणसम्मेलनम् अपि व्यवस्थापितम् अभवत् । १९५५ तमे वर्षे श्री फजल अलि राज्यरचनाविषये स्वसमितेः अभिप्रायान् सर्वकाराय दत्तवान् । तदा श्री केङ्गल् हनुमन्तरायः मैसूरुराज्यस्य मुख्यमन्त्री आसीत् एवम् १९५६ तमे वर्षे मैसूरुराज्यस्य उदयः अभवत् । श्रीमान् आलूरुवेङ्कटरायमहोदयः उत्तमतया सर्वैः साकं एकीकरणकार्ये बहुप्रयत्नं कृतवान् । अतः तस्यै ‘कर्नाटक कुलपूरोहितः’ इति नाम आगतं । मैसूरु राज्यस्य विस्तीर्णं २,१२,७३३ चतुरस्त्रकिलोमीटर् परिमितम् अस्ति विशेषतः समुद्रतीरप्रदेशः, धट्टप्रदेशः, समतलप्रदेशः इति च भूप्रदेशाः सन्ति । मैसूरुराज्यस्य श्री जयचामराजेन्द्र-ओडेयर् प्रथमः राज्यपालः आसीत् । मैसूरुराज्यस्य अन्यानि नामानि सिरिगन्नडनाडु, कर्नाटकम्, गन्धदबीडु, चिन्नदनाडु इति च कथयन्ति । यतः श्रीगन्धवृक्षणाम् समृद्धिः अस्ति । कोलारप्रदेशे सुवर्णनिक्षेपाः सन्ति । बल्लारिप्रदेशे अयसः निक्षेपाः सन्ति । धट्टप्रदेशे काननं समृद्धं अस्ति । कर्नाटकप्रान्ते पूर्वं गङ्गाः, कदम्बाः, चालुक्याः होयसलाः, राष्ट्रकूटाः यादवाः, चोलाः बल्लाळविजयनगरराजानः, आदिलआशाहीवंशीयाः, बहमनि वंशीयाः च प्रशासनं कृतवन्तः । कदम्बानां बनवासी राजधानी आसीत् । गङ्गानां तलकाडु, राष्ट्रकूटानां द्वारसमुद्रः, यादवानां मैसुरुः, बल्लाळानां समुद्रतीरप्रदेशे, विजयनगरराज्ञां हम्पीप्रदेशे, आदिलषहीराज्ञां बिजापूरे, बहमनी राज्ञां गुलबर्गा प्रदेशे प्रशासनं आसीत् । विजयनगर महाराजः श्रीकृष्णदेवरायः सुप्रसिद्धः कलापोषकः स्वतः कविः, दक्षप्रशासकः च आसीत् । विजयनगरसाम्राज्यं स्वर्णसाम्राज्यमिति च प्रसिद्धमासीत् ।
भाषाधरितैकीकरणम्
सम्पादयतुकर्नाटकस्य इतिहासे राजाविष्णुवर्धनः, वीरपुलिकेशी, राजा बिज्जलः हैदर् अलिः, टिप्पु सुल्तानः, बेङ्गलूरुनगर निर्माता केम्पेगोडः, कित्तूरुचेन्नम्मा, मैसूरु ओडेयरमहोदयाः अत्युत्तमतया प्रशासनं कृतवन्तः । कर्नाटकराज्यं सर्वरीत्या समृद्धं कृतवन्तः । कर्नाटके मुख्यतः कन्नडभाषायाः उपयोगः अस्ति । प्राचीनकालतः कन्नडभाषायं साहित्यं निर्मितम् अस्ति । हळेगन्नडकाव्यं, होसगन्नडकाव्यं जानपदं, दाससाहित्यं वचनसादित्यं इत्यादि विशेषकाव्यानां दर्शन्सम् अत्र साध्यं अस्ति । प्रायशः द्विसहस्रवर्षतः कन्नडभाषायाः उपयोगस्य आधारः प्राप्तः अस्ति । कविराजः नृपतुङ्गः स्वी कविराजमार्गकाव्ये कन्नडभूमेः विवरणं “कावेरियिन्दमागोदावरिवरेमिदेनाडदा कन्नडदोळ् भावसिद जनपदं” इति उक्तवान् । पम्प, रन्न, जन्न, पोन्न, मुद्धणः, राघवाङ्कः, हरिहरः, लक्ष्मीशः, इत्यादि महाकवयः सुन्दरकाव्यानि रचितवन्तः अत्तिमळाराज्ञी इदं प्रथमतया पुस्तकस्य प्रकाशनं कारितवती । द्वादशशतके महान् वचनयुगः प्रकाशमानः आसीत् । बसवेश्वरः, अल्लमप्रभुः, अक्कमहादेवी इत्यादिभिः वचनसाहित्यं सम्पूरितं अमृत धारन्निः इति प्रसिद्धं । कुमारव्यास, चामरस प्र्भृतिभिः पुनः महा काव्यानि रचितानि । दाससाहित्यं कन्नडभाभायां अतीव, पसिद्धं अस्ति श्रीपाददास पुरन्दरदास कनकदास महीपतिदास जगन्नाथदासादिः अत्यन्तसुन्दराणि काव्यानि रचितानि सन्ति तैः सङ्गीतकाराणां मनः आकृष्टं अस्ति । जनपदसाहित्यं अतीवसरलं सुन्दरं कन्नडभाषायां अस्ति । नृपतुङ्गवचनं ‘कुटितोददेयुं काव्यप्रयोगपरिणत मतिगळ’ जनपद कर्तृजां वैभवं प्रतिभां प्रकाशयते पुरन्दरदासादयः कर्नाटकसङ्गीत शैल्यां निपुणः अनेकगतानि रचयित्वा स्वरान्वितानि कृतवन्तः । दक्षिणभारते एतानि गीतानि अतीवसुप्रसिद्धानि सन्ति । कन्नडसाहित्ये अष्टादशतकानन्तरं नवयुगम् इति कथयन्ति । तदा अनेके लेखकाः कवयः कादम्बरिकाराः प्रख्याताः अभवन् । राष्ट्रकवि कुवेम्पु, द रा बेन्द्रे, डाक्टर् शिवरामकारन्तः, मास्ति वेङ्कटेश अय्यङ्गरः गोरूरु गमस्वा मि अय्यङ्गरः वि.कृ गोकाकः, राजरत्नं, गोपालकृष्ण अडिग, शिवरुद्रप्पा, हुथिलगोळनारायणराव इत्यादयः अनेकविध कृतिभिः कन्नड साहित्य भाण्डारं पूरितवन्तः । भारतीयभाषासु अष्टज्ञानपीठपुरस्कारप्राप्तभाषा कन्नडभाषा इति अभिमानविषयः । डा कुवेम्पु बेन्द्रे शिवरामकारन्त, मास्ति वेङ्कटेश अय्यङ्गार, गोकाक, यू आर् अनन्तमूर्ति । गिरीश कार्नाड् डा चन्द्रशेखरकम्बार ज्ञानपीठप्रशस्ति पुरस्कृताः सन्ति । कर्नाटके महिलाः अपि साहित्य निर्माणे सिद्धहस्तः सन्ति । गङ्गाम्बिका, त्रिवेणी, वाणी, कमला दम्पना, सञ्चिहोन्नम्मा हेळवनकट्टे गिरियम्मा इत्यादयः स्वीयकाव्यैः जनप्रियाः सन्ति । कर्नाटके प्रकृतिदर्शनं अतीव आकर्षकं अस्ति । नद्यः पर्वतप्रदेशाः जलपातानि, सशेवराः, सागरतीराः अरण्यानि,मृगधामानि अतीव सुन्दराणि सन्ति । बेलूरु शिल्पकला विश्वेप्रसिद्धास्ति । मैसॄरु श्रष्णवेळगोळ उडुपि धर्मस्थल गोकर्ण इत्यादि पुण्यक्षेत्राणि अतीव प्रसिद्धानि सन्ति । ऎहोळे बिजापुर पट्टदकल्लु हळेबीडु इत्यादि प्रदेशेषु शिल्पकलावैभवं द्र्ष्टुं शक्यमस्ति । श्री एं विश्वेश्वरय्या महोदयः कृष्णराजसागरजलाशय निर्माणं कन्नम्बादि जलबन्धं निर्मितवान् । तेन कृषिः उद्यमः पेयजल्यमचबहुलाभः अभवत् । शिवनसमुद्रस्थले विधुदपि उत्पादिता । कर्नाटक राज्यं भारतमातुः श्रेष्ठापुत्री इति कवि कुवेम्पु गीतवान् ‘जय भारत जननिय तनुजाते, जय हे कर्नाटक माते” । आधुनिककालेऽपि तानिकक्षेत्रे गणकयन्त्र क्षेत्रे च बहुप्रसिद्धिः आगतास्ति ।
कर्नाटकराज्यस्य समृद्धये अनेके कार्यं कृतवन्तः । तेषां स्मरणं राज्योत्सवदिने जनाः प्रीत्या गौरवेण कुर्वन्ति । सर्वत्र नगरेषु बेङ्गलूरुनगरे च मातुः भुवनेश्वर्याः भावचित्रस्य यात्रामहोत्सवः प्रचलति । तत्र स्तब्धचित्रां प्रदर्शनं जानपदन्दस कार्यक्रमाः वाद्याघोषः विविधवेष प्रदर्शनं इत्यादि भवन्ति । सर्वत्र राज्ये राज्ये सांस्कृतिक कार्यक्रमाः प्रचलन्ति । राज्ये मुख्यकार्यक्रमः बेङ्गलूरु नगरे प्रचलति । विविधक्षेत्रेषु प्रसिद्धानां पुट्टकार प्रदानेन सत्कार कार्यक्रमः भवति । राज्यस्य मुख्यमन्त्री पुरस्कारान् समर्पयति । साहित्य सङ्गीत वैद्यकीय सामाजिक कलान्हत्ययक्षगाननाटकादि क्षेत्रेषु प्रसिद्धान् “ राज्योत्सप्रशस्तिं ” दत्त्वा सम्मानयन्ति । सर्वत्र विद्यालयेषु कन्नड राज्योत्सवः सम्भ्रमेण आचरितः भवति । कन्नडगीतानि उदपादस्तपर्यन्तं जनाः गायन्ति । सर्वत्र ‘कन्नडजलओन्दे’ ‘कन्नडजेलओन्दे’, ‘कन्नडवे सत्य्’ ‘कन्नडवे नित्य’ बारिसु कन्नड डिण्डिमव्’ ‘जयकर्नाटकमाते’ ‘कन्नडाम्बेगे जयवागलि इत्यादि घोषणावाक्यानि प्रतिध्वनन्ति । एवं राज्योत्सवः कन्नडजनानां अतीव महत्वपूर्णः उत्सवः । उत्तमकार्यकरणे सङ्कल्पकरणाय योग्यः दिनविशेषः । स्वराज्येवैभवस्मरणाय अत्युत्तमः उत्सवविशेषः अस्ति ।