बीदरमण्डलम् (Bidar district) कर्णाटकराज्यस्य मण्डलेषु अन्यतमम् । अस्य मण्डलस्य केन्द्रम् अस्ति बीदर

बीदरमण्डलम्

ಬೀದರ್
मण्डलम्
बीदरदुर्गस्य प्रवेशद्वारम्
बीदरदुर्गस्य प्रवेशद्वारम्
देशः  भारतम्
राज्यम् कर्णाटकराज्यम्
Headquarters बीदरनगरम्
उपमण्डलानि बीदर-उपमण्डलम्, भाल्कि-उपमण्डलम्, औराद-उपमण्डलम्, बसवकल्याण-उपमण्डलम्, हुम्नाबाद-उपमण्डलम्
Sex ratio 1.05 पु/स्त्री
हैदराबादनगरात् दूरम् 120 किलोमीटर (75 मील)
बेङ्गळूरुतः दूरम् 700 किलोमीटर (430 मील)
Precipitation 847 मिलीमीटर (33.3 इंच)
Website anshul.bidar
कर्णाटके बीदरमण्डलम्
बीदरमण्डलम्

उपमण्डलानि -५संपादित करें

बीदरनगरम्, भाल्की, औराद, हुम्नाबाद् बसवकल्याणम्

लोकसभाक्षेत्राणिसंपादित करें

बीदरलोकसभाक्षेत्रम्

विधानसभाक्षेत्राणिसंपादित करें

नद्यःसंपादित करें

माञ्जरा मण्डलस्य एका प्रमुखा नदी अस्ति । गोदावर्याः उपनदी एषा ९७ कि.मी. दीर्घा, पूर्वाभिमुखं प्रवहति । कारञ्जा इति अन्येका नदी अत्र प्रवहति । भाल्कीप्रदेशे एषा माञ्जरानद्या सम्मिलति । बसवकल्याणे उद्भूता मुल्लारी नदी गुल्बर्गागमण्डलं प्रविशति । चुलकि गण्डोरि, नगरवाला, हुडगि हल्लिखेड इत्याद्याः लघुनद्यः सन्ति ।

प्राकृतिकविशेषाःसंपादित करें

भाषाःसंपादित करें

कन्नड, हिन्दी, मराठी, तेलुगु, पञ्जाबी

आहारपद्धतिःसंपादित करें

अत्रत्यः प्रमुखः आहारः जूर्णस्य रोटिकाः, तण्डुलः, गोधूमः च ।

वेशभूषणानिसंपादित करें

कृषिसंपादित करें

ग्रामीणभागे जनानां प्रमुखः उद्योगः नाम कृषिः एव । जूर्णम् अत्रत्यं प्रधानं कृष्युत्पन्नम् अस्ति । अस्मिन् मण्डले मुद्गः, चणकः, माषः, व्रीहि:,कलायः, गोधूमः, तुवरी, इक्षुदण्डः, मरीचिका इत्यादीनां वर्धनम् अपि भवति । किन्तु एषु दिनेषु कृषकाणाम् मानसिकता सूर्यकान्तेः वर्धने दृश्यते । अतः इदानीं सूर्यकान्तेः वर्धनम् एव अधिकतया दृश्यते ।

उद्यमाःसंपादित करें

वंशदारुभिः निर्मिताः सूक्ष्माः शिल्पकलाः अत्र प्रसिद्धाः सन्ति । अत्र ताम्रपुष्पाञ्जनयोः लोहयोः मिश्रणेन अलङ्कारिकपात्राणि निर्मीयन्ते ।

शैक्षणिकसंस्थाःसंपादित करें

प्रसिद्धाः व्यक्तयःसंपादित करें

डा.चेन्नबसवपट्टदेवरु, रामचन्द्र वीरप्पा, प्रो.वीरेन्द्र सिम्पि । एम्.जि.गङ्गन् पल्लि, ईश्वर खण्ड्रे, इत्यादयः प्रसिद्धाः ।

संस्कृतिःसंपादित करें

अस्मिन् मण्डले हैन्दवः, क्रैस्ताः, महम्मदीया, सिख्खाः च वसन्ति । मण्डलस्य पूर्वदिशि दुल्हन् दर्वाजदुर्गम् अस्ति । अधो भागे अग्रहारः इति ग्रामः अस्ति । मण्डलस्य उत्तरभागे मङ्गलपेटेप्रदेशः क्रैस्तानां क्षेत्रम् अस्ति । प्रतिवर्षम् अत्र तेषां महायात्रा प्रचलति । मण्डलस्य औराद, सन्तपुर, हलबर्गा, जलसङ्ग्वि, तालमलगि, हुलसूर, कवडियाल, हुमनाबादप्रदेशेषु बहूनि चर्चभवनानि सन्ति । नरसिंहझरणीक्षेत्रे जले नरसिंहस्वामिमन्दिरम् अस्ति । बीदरमण्डलस्य लघुकन्दरे नानकझरा इति तीर्थं प्रवहति । एतत् सिक्खानाम् अतिपवित्रं स्थलम् अस्ति ।


इतिहासःसंपादित करें

बीदरमण्डलं कर्णाटकस्य उत्तरसीमान्ते स्थितं मण्डलम् अस्ति । मण्डलकेन्द्रस्यापि नाम बीदर इत्येव अस्ति । पूर्वम् एतत् बिजापुरस्य बहमनि- सुल्तानानां प्रशासने आसीत् । बीदरमण्डलस्य बसवकल्याणतः आरब्धा शरणसंस्कारक्रान्तिः कालान्तरे विश्वाद्यन्तं प्रासरत् । अत्रत्यं वायुसेनायाः प्रशिक्षणकेन्द्रं कर्णाटकस्य अभिमानस्य विषयः एव । अस्य मण्डलस्य चारित्रिकं महत्त्वम् अस्ति । अत्रैव बसवण्णमहोदयस्य बहमनिसुल्तानानां च काले नवशिलायुगस्य अवशेषाः लब्धाः । राष्ट्रकूटवंशजाः, देवगिरियादवाः, काकतीयाः च एतस्य मण्डलस्य शासनं कृतवन्तः । अस्य मण्डलस्य बसवकल्याणं चालुक्यानां राजधानी आसीत् । क्रि.श. १४२४ तमे वर्षे बीदरनगरं बिजापुरस्य बहमनिसुल्तानानां राजधानी अपि आसीत् । क्रि.श. १६५९ वर्षे एतत् स्थानं मोघलसाम्राज्‍यम्|मोघलनृपस्य औरङ्गजेबस्य हस्तगतम् आसीत् । स्वातन्त्र्योत्तरं क्रि.श. १९५६ तमे वर्षे कर्णाटकस्य पुनर्विभागसमये बीदरमण्डलं निरूपितम् । कर्णाटकस्य उत्तरे भागे प्रसिद्धं मण्डलम् अस्ति । पूर्वं हैदराबादसंस्थानस्य अधीने आसीत् ।

विस्तीर्णतासंपादित करें

५४४८ च.कि.मी. मिता ।


भैगोलिकतासंपादित करें

भौगोलिकतया बीदरमण्डलं हैदराबादकर्णाटकभागे विराजते । एतत् भारतदेशस्य दखन्प्रस्थभूमेः भागः अस्ति । गिरिकन्दररहिता विशाला प्रस्थरभूमिः अस्य मण्डलस्य विशेषता । समुद्रतटात् ६१४मी. औन्नत्ये प्रतिष्ठितम् एतत् मण्डलम् । वार्षिकः वृष्टिप्रमाणः ९०७.५ से.मी. अस्ति । औराद्-भाल्किप्रदेशे भूमिः कृष्णमृत्तिकायुता अस्ति । अस्मिन् मण्डले कुत्रापि खनिजनिक्षेपः नास्ति ।



दर्शानीयानि स्थानानिसंपादित करें

 
महमद्गवान् मदरसा

मैलारमल्लणगुडि, नरसिंहझरणी, नानकझरा, बीदरदुर्गं, रङ्गीनमहल्, गगनमहल्, एकस्तम्भमसीदि, बृहत्फिरङ्गि, वस्तुसङ्ग्रहालयः, महमद्गवान् ग्रन्थालयः, चौबारा, हब्सीकोटदारा, कारञ्जाजलबन्धः, जलसङ्गीदेवालयः, औषधीयवनं, वीरभद्रदेवालयः, अनुभवमण्टपम्, अक्कनागम्मनगवि, त्रिपुरान्तकसरः, बसवकल्याणदुर्गं, भाल्किहिरेमठसंस्थानम् बीदर, पापनाशिनी शुक्लतीर्थं, माणिकनगरं, भाल्की, खानापुरं जलसङ्ग्वि हुमनाबाद बसवकल्याणम् इत्यादिनि दर्शनीयानि स्थानानि सन्ति ।

बीदरनगरम् (०८४८२)संपादित करें

पूर्वकाले विदुरनगरम् इति ख्यातम् आसीत् । महाभारतात्पूर्वं नळदमयन्त्योः विहारस्थलमासीत् इति पूराणैः विदितं भवति। जरासन्धस्य वधः अत्र अभवत् इति स्थलपुराणेऽस्ति । ‘नरसिंहझरा’ पवित्रः गुहादेवालयः । अस्य झरणी नरसिंहः इत्यपि कथयन्ति । सोमवासरे शनिवासरे च पूजा भवति । अत्र निर्झरिण्या जलं सदा प्रवहति । कर्णाटकराज्ये स्थितेषु विशिष्टक्षेत्रेषु बीदरनगरम् अपि अन्यतमम् अस्ति । बिदरीवर्णचित्रकलातः नगरस्य बीदर इति नाम आगतमस्ति । सर्वधर्मियानाम् एतत् प्रमुखं क्षेत्रम् अस्ति । अत्र दर्शनीयानि स्थानानि नरसिंहगुहा, नानकझरा, रङ्गीनमहल्, बीदरदुर्गं, महम्मदगवान् मदरसा इत्यादिकम् । नरसिंहगुहान्तरदेवालयतः नरसिंहनिर्झरतः सततं जलं प्रवहति । बीदरतः २ कि.मी. दूरे अनन्तशयनमन्दिरम् अतीवसुन्दरम् अस्ति । पापनाशिनीक्षेत्रे स्वयम्भूः शिवलिङ्गः अस्ति । बीदरतः ६४ कि.मी दूरे बसवकल्याणनगरम् अस्ति । पूर्वम् एतत् राज्ञः बिज्जलस्य राजधानी आसीत् । श्री बसवेश्वरस्य कार्यक्षेत्रं च आसीत् । ‘अनुभवमण्डपम्’ इति धार्मिककेन्द्रम् अत्र आसीत् । बीदरनगरे पूर्वं बहमनीसुल्तानानां प्रशासनम् आसीत् । बीदरदुर्गम् अधुनापि सुभद्रम् अस्ति । अस्य समीपे ऐतिहासिकं प्रसिद्धं महम्मदगवान् मदरसा पर्षियन् शिल्पशैल्या निर्मितम् अस्ति । क्रिस्ताब्दे १४७२ तमे वर्षे निर्मितमेतत् । इदानीं भग्नम् । अवशेषाः सन्ति । पूर्वम् अत्र उपन्यासमन्दिरम् उपाध्यायानां छात्राणां च वसतिगृहाणि ग्रन्थालयाः च आसन् । ‘मीनार’नामकानि उन्नतानि दर्शनस्थानानि च अत्रासन् । अत्रैव सोलाकम्बमसीदि(षोडशस्तम्भात्मिकमस्जिद्), एकमिनारमस्जिद् च दर्शनीयानि शिल्पानि । वसत्यर्थम् अनेकानि उपाहारवसतिगृहाणि सन्ति । बीदरजिल्लाकेन्द्रम् अस्ति ।

बेङ्गळूरुतः ६७० कि.मी

पापनाशिनीसंपादित करें

बीदरतः ३ कि.मीटरदूरे पापनाशिनी क्षेत्रम् अस्ति । अत्र दाशरथिरामेण स्थापितं बृहत् शिवलिङ्गम् अस्ति । शुक्राचार्यः अत्र शिवं पूजितवान् । अत्र पापपरिहारकारकं सरः अस्ति ।

मार्गःसंपादित करें

बीदरतः यादगिरीमार्गे ३ कि.मी ।

शुक्लतीर्थम्संपादित करें

पूर्वं शुक्राचार्यः अत्र तपः आचरितवान् । अतः तस्य स्थलस्य शुक्लतीर्थमिति नाम अस्ति । बीदरदुर्गसमीपे शुक्लतीर्थमिति पवित्रं तीर्थस्थानम् अस्ति । शुक्लाचार्यः।शुक्लाचार्यस्य तपसः प्रभावेण निर्मितमेतत् । दशमुखरावणः अपि शुक्लमुनेः दर्शनार्थम् अत्र आगतवान् ।

नानकझरासंपादित करें

सिखधर्मस्थापकः श्रीगुरुनानकः दक्षिणभारतप्रवासार्थं बीदरनगरम् आगतवान् आसीत् । अत्र जलाभावं वीक्ष्य पादरक्षान्तेन पर्वतम् अपसार्य निर्झरं निर्मितवान् । अत्र जले रोगनिवारकशक्तिः अस्ति । क्षेत्रं बहु विस्तृते उद्याने अस्ति । पञ्चशतकेभ्यः एतत् क्षेत्रं बहुप्रसिद्धम् अस्ति ।

जलसङ्ग्वीसंपादित करें

जलसङ्ग्विप्रदेशे कल्याणचालुक्यविक्रमादिन्येन निर्मितम् ईश्वरमन्दिरं शिल्पकलावैभवपूर्णम् अस्ति । विविधभङ्ग्यां शिलाबालिकाः तिष्ठन्त्यः बेलूरुशिलाबालिकानां स्मरणं कुर्वन्ति ।

मार्गःसंपादित करें

धूमशकटनिस्थानमस्ति । बेङ्गळूरु-परभणीमार्गः

वाहनमार्गःसंपादित करें

रायचूरुतः ३५८ कि.मी. । बेङ्गळूरुतः ७३२ कि.मी । गुल्बर्गातः १०४ कि.मी.। हैदराबादतः अपि निकटे एव वर्तते ।


बाह्यानुबन्धःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=बीदरमण्डलम्&oldid=463929" इत्यस्माद् प्रतिप्राप्तम्