कस्तूरिमृगः हरिणवर्गीयः प्राणिविशेषः भवति। जीवशास्त्रानुसारं कस्तूरिमृगः "मोषिडे" वर्गीयः इति। प्रायशः हरिणानाम् अपेक्षया प्राचीनाः भवन्ति। अस्य शृङ्गौ न भवतः। कस्तूरिमृगः “कस्तूरि” सुगन्धद्रव्ययुक्तः भवति। सुगन्धद्रव्यनिर्माणे अस्य कस्तूरिद्रव्यस्य महद्योगदानम् अस्ति प्रपञ्चे। “सुगन्धराणी” इत्येव प्रसिद्धिः कस्तूरिमृगस्य। कस्तूरिसुगन्धद्रव्यम् औषधत्वेनापि उपयोगं कुर्वन्ति। अस्य कस्तूरिमृगस्य वैज्ञानिकं नाम “मास्कस् मास्किफरस्” भवति। चीना, कोरिया, नेपाळ देशेषु तथा काश्मीर, सिक्किम्, टिबेट्, अस्सां, सैबीरियाप्रदेशेषुच कस्तूरिमृगाः दृश्यन्ते।

कस्तूरी मृग
कस्तूरी मृग (मॉस्कस मॉस्किफ़रस)
कस्तूरी मृग (मॉस्कस मॉस्किफ़रस)
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) जन्तु
सङ्घः रज्जुकी
वर्गः स्तनपायी
गणः द्विखुरीयगण
कुलम् Moschidae
(ग्रे, १८२१)
वंशः Moschus
(Linnaeus, १७५८)

शारीरकगुणाःसंपादित करें

कस्तूरिमृगः लघुहरिणः इव गात्रे दृश्यते। किन्तु हरिणापेक्षया स्थूलः भवति। कस्तूरिमृगः ८० तः १०० से.मी दीर्घभवति। ५० तः ७० से.मी. उन्नतः भवति। शरीरस्य भारः ७ तः १७ कि.ग्रां भवति। पृष्टे विद्यमानौ पादौ पुरतः विद्यमानयोः पदयोः अपेक्षया दीर्घौ भवतः। कठिणभूमौ अपि अनायासेन गमनानुकूलपादयोः रचना युक्तः कस्तूरिमृगः भवति। पुरुषकस्तूरिमृगः दीर्घस्मश्रूधारी भवति। गर्भधारणानन्तरं १५० तः १८० दिवसेषु सन्तानोत्पत्तिः भवति। एकस्य शिशोः जन्म भवति एकस्मिन् समये। प्रायः शिशुः एकमासं यावत् निश्चलस्थितौ एव भवति।

वासः आहारश्चसंपादित करें

कस्तूरिमृगाः पर्वतप्रदेशेषु वासं कुर्वन्ति। सामान्यतः मानववासप्रदेशात् बहुदूरे वसन्ति। एते सङ्कोचस्वभावयुक्ताः भवन्ति। एते निशाचराश्च भवन्ति। एकान्ते वासं कर्तुम् इच्छन्ति सर्वदा। हिमालयप्रदेशे अधिकतया दृश्यन्ते। सर्वेऽपि कस्तूरिमृगाः स्ववासस्थानं स्पष्टतया यथा ज्ञायेत् तथा चिह्नं कुर्वन्ति। सस्यहारि जन्तुः भवति। तृणम्, पत्रम्, पुष्पाणिच अस्य कस्तूरिमृगस्य आहाराः भवन्ति।

कस्तूरिसंपादित करें

“कस्तूरि” सुगन्धद्रव्यं भवति। कस्तूरिग्रन्थिः केवलं प्रौढपुरुषकस्तूरिमृगेषु भवति। नाभिजननाङ्गयोः मध्ये स्यूतवत् भवति। तस्मिन् ग्रन्थिः भवति। सुगन्धद्रव्यम् अमूल्यं भवति। कस्तूरिद्रव्यम् औषधत्वेन अस्य द्रव्यस्य उपयोगः भवति। उत्तेजकः, कामोद्दीपकः, स्वेदकारि, कफहारकश्च भवति। अस्मिन् मस्कोन्, कोलेस्टिरोल्, अलबावीन् इत्यादि अंशाः भवन्ति। मस्कोन् अंशस्य आधिक्यं भवति चेत् हृदये रक्तस्रावः भवति। अतः प्रमाणादिकं ज्ञात्वा स्वीकर्तव्यम्। सुगन्धद्रव्यनिर्माणे अस्य उपयोगः भवति। आङ्ग्ले “मस्क”(musk) इति व्यवहारः। मृगया निमित्तं यदा गच्छन्ति तदा मुखम्, नासिकाञ्च वस्त्रेण बध्वैव गच्छन्ति। अन्यथा अधिकसमयं गन्धस्य आघ्राणेन मुखे, तथा नासिकायाञ्च रक्तस्रावः भवति इति। उत शिरोवेदानायाति इति। कस्तूरिद्रव्यं नूतनतया यदा भवति तदा मृदु भवति। नीलवर्णविशिष्टं भवति। कषायरुचियुक्तं भवति।

प्रकाराःसंपादित करें

कस्तूरिद्रव्याणि षड् प्रकारकाणि विद्यन्ते। नानकिन् चीनदेशे लभ्यते। उत्कृष्टं द्रव्यं भवति। अस्य उपलब्धिः दुष्करम्।

  • नानकिन्
  • टोन्किन्
  • कस्तूरि
  • एन्नाम
  • क्याबरडीन्
  • अस्साम्

बाह्यसम्पर्कतन्तुःसंपादित करें

"https://sa.wikipedia.org/w/index.php?title=कस्तूरिमृगः&oldid=254948" इत्यस्माद् प्रतिप्राप्तम्