सिक्किमराज्यम् भारतदेशस्य ईशान्यदिशि विद्यमानं लघुराज्यम् । अस्य राज्यस्य केन्द्रं गङ्गटोक इत्येतन्नगरम् । एषः पर्वतीयप्रदेशः वर्तते । १९७५ तमे वर्षे जनमतं सङ्गृह्य भारतदेशे समाविष्टः जातः अयं प्रदेशः । अङ्गुष्ठाकारराज्यम् इति प्रसिद्धं राज्यमिदम् । काञ्चनजङ्गा (८५८५ मी.) नामकं जगति तृतीयम् उच्चतरं शिखरम् अस्मिन्नेव राज्ये राराजते । राज्यमिदं भारतदेशे पर्यटनस्य प्रमुखकेन्द्रमपि मन्यते ।

सिक्किमराज्यम्
—  राज्यम्  —

मुद्रिका
भारतस्य मानचित्रे सिक्किमराज्यम्
Coordinates (गङ्गटोक): २७°२०′उत्तरदिक् ८८°३७′पूर्वदिक् / 27.33°उत्तरदिक् 88.62°पूर्वदिक् / २७.३३; ८८.६२निर्देशाङ्कः : २७°२०′उत्तरदिक् ८८°३७′पूर्वदिक् / 27.33°उत्तरदिक् 88.62°पूर्वदिक् / २७.३३; ८८.६२
Country  India
Established १६ मेई १९७५
राजधानी गङ्गटोक
Largest city गङ्गटोक
Districts 4
सर्वकारः
 • राज्यपाल: वाल्मीकिप्रसाद सिंह
 • Chief Minister पवन चामलिङ्ग (Chamling) (Sikkim Democratic Front)
 • Legislature of Sikkim Unicameral (32 seats)
जनसङ्ख्या (२०११)
 • संहतिः ६,१०,५७७
 • रैङ्क् 28th
भारतीयमानसमयः(IST) (UTC+५:३०)
ऐ एस् ओ ३१६६ कोड् IN-SK
मानव-विकास-निर्देशाङ्क: increase ०.६८४ (मध्यम)
मानव-विकास-निर्देशाङ्के स्थानम् ७ (२००५)
साक्षरता ७६.६%
अधिकृताः भाषाः नेपालीभाषा (lingua franca), भूतिया, लेप्चा (since 1977),
जालस्थानम् http://www.sikkim.gov.in/


लेप्चा जनाः
सम्दृप्त्से
सिक्किमराज्ये हिमालयावलिः
सिक्किमराज्ये चारधाम

भौगोलिकम्सम्पाद्यताम्

सिक्किमराज्यस्य विस्तारः ७,०९६ चतुरस्रकिलोमीटर्मितः अस्ति। क्षेत्रफलदृष्ट्या अस्य स्थानं भारतदेशस्य राज्येषु निम्नतमाद् द्वितीयम् अस्ति। अस्य राज्यस्य पश्चिमदिशि नेपालदेशः, उत्तरदिशि चीनदेशः, पूर्वदिशि तिबेट्, आग्नेयदिशि भूतानदेशः दक्षिणदिशि पश्चिमवङ्गराज्यम् च अस्ति। अत्र सिङ्गलिला-चोला पर्वतावली स्तः। तिस्ता, रङ्गीत रङ्गपो च अस्य राज्यस्य प्रमुखनद्यः विद्यन्ते। अत्रस्थं वनस्पति-प्राणिवैविध्यं महत्त्वपूर्णम्।

जनसङ्ख्यासम्पाद्यताम्

अस्य राज्यस्य जनसङ्ख्या न्यूनतमा अस्ति । सिक्किमराज्यस्य जनसङ्ख्या(२०११) ६,१०,५७७ अस्ति । अस्मिन् ३,२३,०७० पुरुषाः, २,८७,५०७ महिलाः च सन्ति । अस्मिन् मण्डले चतुरस्रकिलोमीटर्मिते क्षेत्रे ८६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.८९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८९० अस्ति । अत्र साक्षरता ८१.४२ % अस्ति । मण्डलेऽस्मिन् ७४.८५% जनाः ग्रामेषु निवसन्ति ।

कृषिः उद्यमाश्चसम्पाद्यताम्

कृषिः, उद्यमः, उद्यानपालनं, पर्यटनव्यवसायः इत्येते व्यवसायाः अत्रस्थजनानाम् उपजीविकां कल्पयन्ति । पर्यटनव्यवसायः अस्य राज्य-अर्थव्यवस्थायाः कशेरुका मन्यते । एला(cardamom)उत्पादने मण्डलमिदम् अग्रगण्यम् । तथा चायं, काफीबीजं च प्रमुखसस्योत्पादनानि । अस्मिन्मण्डले खनिजसम्पत्तिः अधिका वर्तते परं सम्पत्तेः शुद्धीकरणोद्यमानां सङ्ख्या तावती नास्ति ।

ऐतिहासिकं किञ्चित्सम्पाद्यताम्

लेप्चा, नाओङ्ग, चङ्ग, मोन इत्यादयः अत्रस्थपुरातन्यः जनजातयः सन्ति। एतेषां जनजातीनाम् सामोपचारेण एकत्र निवासार्थं तुर्-वे-पा-नो अर्थात् पुनू अयं यतितवान्। १७ शतके तिबेटन् स्थलान्तरम् अभवत्। तदा भूतिया इति तत्रस्थाः जनजातिजनाः बहुसङ्ख्यया सिक्किम राज्यं प्रविष्टवन्तः। सिक्किमनिवासिजनाः प्रमुखतया निसर्गपूजकाः आसन्। यदा भूतियाजनानाम् आगमनम् अभवत् तदा तैः मूलसिक्किमजनानां बौद्धमतान्तरणाय यतितम्। दक्षिणसिक्किमप्रदेशे तदा 'सक्य' राज्ञः आधिपत्यमासीत् । अनन्तरं १६४२ तमवर्षतः ३३२ वर्षाणि यावत् नामग्यालवंशस्य प्रशासकानाम् आधिपत्यमासीत्। १८ शतके नेपालीजनानां विस्तारवादीभूमिका वर्धमाना आसीत्। नेपालजनाः चीनदेशस्योपरि आक्रमणं कर्तुं यतितवन्तः। परं चीनजनैः नेपालजनानां पराजयः कृतः। नेपालजनाः सिक्किम-राज्य-आक्रमणाय अपि यतितवन्तः। परं तदा भारतदेशे आङ्ग्लानाम् आधिपत्यम् आसीत्। आङ्ग्लप्रशासकैः स्वार्थरक्षणाय सिक्किम जनेभ्यः साहाय्यं दत्तम्। १८१४ तमे वर्षे आङ्ग्ल-नेपालयुद्धम् अभवत्। नेपालदेशः पराजितः। १८१७ तमे वर्षे आङ्ग्लैः सिक्किम प्रशासकैः सह 'Treaty Of Titalia'-सन्धिः कृता। आङ्ग्लानां डार्जीलिङ्ग स्थलविषये रुचिः आसीत्, कारणं दार्जिलिङ्ग स्थलतः तिबेट, नेपाल, सिक्किम इत्येतेषु प्रदेशेषु व्यापारः, प्रशासनं च समीचिनं भवेत्। अतः आङ्ग्लानां तथैव व्यवहारः आसीत्। अन्ततः १८३५ तमे वर्षे नामग्यालप्रशासकेन दार्जिलिङ्ग स्थलम् आङ्ग्लप्रशासकेभ्यः निश्चितं धनं स्वीकृत्य दत्तम्। एषः व्यवहारः चोग्याल-नामग्याल इत्यनेन प्रशासकेन कृतः। १९४७ तमवर्षपर्यन्तम् अयमेव क्रमः आसीत्। १९४७ तमे वर्षे भारत-संयुक्त-राष्ट्रनिर्माणसमये सिक्किमराज्यस्य स्वतन्त्रम् अस्तित्वं संस्थाप्य भारतदेशः रक्षणकर्ता (Protectorate) भविष्यति एवं योजनां कृत्वा स्वस्थानं संरक्ष्य अयं प्रदेशः भारतदेशे समाविष्टः जातः। तदा ताशी-नामग्याल इति शासकस्य आधिपत्यमासीत्। अनन्तरं प्रशासकयोः मध्ये सङ्घर्षः जातः। १९७० तमे वर्षे एषः सङ्घर्षः उच्चतमः आसीत् अन्ते १९७३ तमे वर्षे नामग्यालशासकानां प्रशासनं समाप्तिं गतम्। १६ मे १९७५ दिनाङ्के सिक्किम भारत देशस्य २२ तमराज्यत्वेन समाविष्टं जातम्।

मण्डलानिसम्पाद्यताम्

लोकजीवनम्सम्पाद्यताम्

अत्र बहूनां जनजातीनां वैविध्यपूर्णम् एकत्र वास्तव्यं भवति । लेप्चा, भूतिया, नेपाली जनजातयः तेषु प्रमुखाः । अत्रस्थजनाः उत्सवप्रियाः सन्ति । उत्सवदिनेषु सिक्किमराज्यस्य छद्ममुखधारकाणां नृत्यप्रकारः प्रसिद्धः । उत्सवदिनेषु बाजरी इत्यस्य 'चङ्ग' इति विशिष्टसंस्कृतपदार्थः जनैः वेणुस्थाल्यां भुज्यते । 'फाङ्ग ल्हाब्सोल' इति विशिष्टोत्सवः । एतम् उत्सवं काञ्चनजङ्गा इति अत्रस्थदेवतायै धन्यवादवितरणार्थं जनाः विशिष्टतया आचरन्ति । सिक्किमनूतनवर्षस्य २८,२९ तमे च दिने 'कग्यत' इति नृत्यं विशिष्टत्वेन नृत्यन्ति । 'दसेन'(दसरा) इति बृहत्तमः उत्सवः अत्रस्थाः नेपाळी, हिन्दुजनाः च ओक्टोबर् मासे आचरन्ति । अत्रस्थानि वेणुकाष्ठैः तक्षितानि वस्तूनि, पटाः, चित्राणि च विशिष्टाः सन्ति ।

वीक्षणीयस्थलानिसम्पाद्यताम्

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • White Hall
  • दो-द्रुल स्तूपः
  • सोलोफोक चारधाम
  • युमथाङग व्हेली-कन्दरं
  • पेलिङ्ग
  • उष्णजलकुण्डानि
  • गुरोः पद्मसम्भवस्य बौद्धविहारः
  • रूमटेक मठः
  • ताशी लिङ्ग
  • ऑर्किड् अभयारण्यम्
  • सोमगो निर्झरः
  • दो द्रूल चोर्टेन
  • इञ्चे मठः
  • ताशीदिङ्ग मठः
  • सङ्गा-चोलिङ्ग मठः
  • पेमायङ्गत्से मठः
  • पेमायनस्ती मठः
  • बाबा हरभजन सिंह 'मेमोरियल'


बाह्यानुबन्धाःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=सिक्किमराज्यम्&oldid=457010" इत्यस्माद् प्रतिप्राप्तम्