कात्यायनश्रौतसूत्रम्
कात्यायनश्रौतसूत्रविषयकं ज्ञानं श्रौतसूत्रस्य स्वरूपावबोधनाय नितान्तमावश्यकमस्ति । अस्य साहित्यस्यायं प्रतिनिधिग्रन्थ इति मन्यते। अनेन सह अन्यश्रौतसूत्राणां तारतम्यं परीक्षितुं तुलनात्मकाध्ययनाय ग्रन्थोऽयम् अतिमहत्त्वपूर्णोऽस्ति । सूत्रमिदं पद्धतौ निबद्धषड्विंशतिषु अध्यायेषु विभक्तः नितान्तप्रौढस्तथा समस्तानां यज्ञयागानां प्रतिपादको ग्रन्थोऽस्ति ।
विषयवस्तु
सम्पादयतुदशकण्डिकायां विभक्तः प्रथमाध्यायो यज्ञसम्बन्धिनः अनेकानाम् आवश्यकविषयाणां लक्षणं प्रस्तौति । द्वितीयतृतीयाध्यायौ मिलित्वा समग्रस्य दर्श-पूर्णमासयागस्य वर्णनं कुरुतः । प्रथमाऽध्याये प्रारम्भिकानुष्ठानानां तथाऽन्तिमाध्याये मुख्ययागस्य विवरणमस्ति । चतुर्थोऽध्यायः पिण्डपितृयज्ञ-दाक्षायण-अाग्रयण-अग्न्याधान-पुनराधान-अग्न्युपस्थान-अग्निहोत्रादीनाञ्च क्रमशः वर्णनं करोति । पञ्चमाध्याये चातुर्मास्ययज्ञस्य तथा मित्रविन्देष्टेश्च विधिवत् सुव्यवस्थितं वर्णनं करोति । षष्ठाध्यायो निरूढपशुबन्धस्य सविस्तरं विवरणं ददाति । अासप्तमाध्यायाद् दशमाध्यायपर्यन्तम् अग्निष्टोमयागस्य साङ्गोपाड्गं विवरणं लभते। एकादशाऽध्यायस्य महत्त्वपूर्णभागेषु ब्रह्मानामकस्य ऋत्विजः कार्यस्य उपयोगस्य च वर्णनमस्ति । द्वादशाऽध्याये द्वादशाहयज्ञस्य, त्रयोदशाध्याये गवामयनस्य, चतुर्दशाध्याये वाजपेयस्य, पञ्चदशाध्याये राजसूयस्य, आषोडशादष्टादशाध्यायपर्यन्तम् अग्निचयनस्य, ऊनविंशतितमाध्याये सौत्रामणीयागस्य, विंशतितमाध्याये अश्वमेधस्य, एकविंशतितमाध्याये पुरुषमेध-सर्वमेधपितृमेधादीनां विधिवत् सुव्यवस्थितेन रूपेण वर्णनमुपलब्धं भवति ।
प्रथमोऽध्यायस्तु कात्यायनस्य मौलिकविचाराणां प्रतिपादकोऽस्ति । किञ्च आद्वितीयाध्यायाद् एकविंशतिः अध्यायपर्यन्तस्य विषयास्तु शतपथब्राह्मणम् उधृत्य निर्मिताः सन्ति । उभयोः ग्रन्थयोः मध्ये नितान्तं साम्यं वर्त्तते ।
अाद्वाविंशतितमाध्यायात् चतुर्विंशतितमाध्यायपर्यन्तस्य वर्ण्यविषयाः क्रमशः एकाह-अहीन-सत्रैः सह सम्बद्धाः सन्ति । अस्य खण्डस्य मूलाधारः ताण्ड्यब्राह्मणमस्ति । पञ्चविंशतितमाध्याये प्रायश्चित्तस्य वर्णनमस्ति । प्रायश्चित्तम् इदमुत्पातानां शमनाय तथा यज्ञे विहितदोषाणां मार्जनाय कृतमस्ति । अन्तिमः षड्विंशतितमाध्यायः प्रवर्ग्यस्य विवरणं ददाति । अत्रैव कात्यायनश्रौतसूत्रस्य समाप्तिर्भवति ।