कल्पः वेदानां द्वितीयमङ्गमस्ति । ब्राह्मणकाले यागस्य तावान् प्रचारः जातः यत्, तेषां यथावज्ज्ञानाय पूर्णपरिचयप्रदायकग्रन्थानाम् आवश्यकता अनुभूयते स्म, तामेव आवश्यकतां स्वल्पैः शब्दैः पूरयितुं कल्पसूत्राणि विरचितानि । वेदविहितानां कर्मणां व्यवस्थापनं क्रमपूर्वकं कल्पशास्त्रे कल्पितम्। उत्तञ्च - 'कल्पो वेदविहितानां कर्मणामानुपूष्येण कल्पनाशास्त्रम्।'

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

वेदानुसारं कल्पसूत्राणि संपादित करें

  • ऋग्वेदस्य कल्पसूत्रम् - आश्वलायनं, शाङ्ख्यायनञ्चेति। अनयोरुभयोरपि कल्पसूत्रयोः श्रौतसूत्रं गृह्यसूत्रञ्च सम्मिलितञ्च विद्यते ।
  • शुक्लयजुर्वेदस्य कल्पसूत्रम् - कात्यायनश्रौतसूत्रम्, पारस्करगुह्यसूत्रम्, कात्यायनशुल्वसूत्रञ्चेति।
  • कृष्णयजुर्वेदस्य कल्पसूत्रम् — बौधायनसूत्रम्, आपस्तम्बसूत्रञ्चेति । अनयोः कल्पसूत्रयोः श्रौतगृह्यधर्मशुल्वसूत्राणि सर्वाण्यपि सन्तीति ग्रन्थाविमौ पूर्णरूपौ ।
  • सामवेदस्य कल्पसूत्रम् — लाट्यायनश्रौतसूत्रं, द्राह्यायणञ्चेति । जैमिनीयशाखायाः श्रौतसूत्रं जैमिनिगृह्यसूत्रं, गोभिलगृह्यसूत्रं, खादिरगृह्यसूत्रञ्चेति । सामवेदे एव आर्षेयकल्पस्यापि गणना भवति । अयमेव कल्पो मशककल्पसूत्रनाम्नापि प्रथते। सूत्रमिदं लाट्यायनश्रौतसूत्रात् प्राचीनं मन्यते ।
  • अथर्ववेदस्य कल्पसूत्रम् — वैतानश्रौतसूत्रम्, कौशिकसूत्रञ्चेति । वैतानसूत्रं नातिप्राचीनं, कौशिकसूत्रञ्च अभिचारक्रियावर्णनपरम् ।

कल्पसूत्राणां प्रकाराः संपादित करें

कल्पसूत्राणि द्विविधानि — श्रौतसूत्राणि, स्मार्त्तसूत्राणि च । श्रुत्युक्तयागविधिप्रकाशकानि श्रौतसूत्राणि । स्मार्त्तसूत्राण्यपि द्विधा — गृह्यसूत्राणि धर्मसूत्राणि चेति । श्रौतसूत्रेषु अग्नित्रयाधानम्, अग्निहोत्रं, दर्शपूर्णमासौ, पशुयागः, नानाविधा सोमयागाश्चेति विषयाः समुपपादिताः । मुख्यतः कल्पसूत्राणि सन्ति चतुविधानि —

१. श्रौतसूत्रम् - श्रौतसूत्रे ब्राह्मणग्रन्थवर्णितानां श्रौत्राग्नियज्ञानां क्रमबद्धं वर्णनं वर्तते ।

२. गृह्यसूत्रम् - गृह्यसूत्रेषु तेषाम् अनुष्ठानाचारयागानां वर्णनं विद्यते, येषां सम्पादनं त्रैवणिर्करवश्यं कर्त्तव्यमिति । षोडशसंस्काराणां विशिष्टं वर्णनमपि गृह्यसूत्रेषु कृतम् । मुख्यतः गृह्यसूत्रे गृह्याग्निसम्बद्धयागानाम् उपनयनविवाहश्राद्धादिसंस्काराणां विस्तृतं विवरणं विद्यते ।

३. धर्मसूत्रम् - धर्मसूत्रेषु धार्मिकनियमाः, प्रजानां राज्ञाश्च कर्त्तव्यचर्याः, चत्वारो वर्णाः, चत्वारः आश्रमाः, तेषां धर्माः पूर्णतया निरूपिताः । एतानि धर्मसूत्राण्येव स्मृतीनां जन्मनेऽकल्पन्त । धर्मसूत्रे चतुण्णां वर्णानाम् आश्रमाणाञ्च किञ्च राज्ञामपि कर्त्तव्यानि निर्दिष्टानि सन्ति । इमान्येव त्रीणि वस्तुतः प्रधानानि कल्पसूत्राणि मतानि ।

४. शुल्वसूत्रम् - शुल्वसूत्रं तु वेदिनिर्माणप्रकारं विशेषतः प्रतिपादयति । सूत्रस्यास्य वैज्ञानिकं महत्त्वमस्ति । मुख्यतः शुल्वसूत्रमपि कल्पसूत्रमेव, तत् श्रौतसूत्रान्तर्गतम् । शुल्वं मापक्रिया । इदं सूत्रमेव भारतीयज्यामितिशास्त्रस्य प्रवर्त्तकम् ।

श्रौतसूत्रम् संपादित करें

मुख्यलेखः : श्रौतसूत्रम्

श्रौतसूत्रोपपादितो विषयो वस्तुतो दुरूहोऽस्ति । न तत्र जनसामान्यकृते आकर्षणम् । धार्मिकदृष्ट्या श्रौतसूत्रस्य विषयो महत्त्वशाली । आधुनिके युगे श्रौतयागानां विधानं विरलतामुपेतम् । प्राचीनस्य युगस्य धार्मिकेषु विधानेषु याज्ञिकेषु कर्मसु च येषां रुचिरानुरागश्च तैः अवश्यमेव श्रौतसूत्राणि अनुशीलनीयानि ।

गृह्यसूत्रम् संपादित करें

मुख्यलेखः : गृह्यसूत्रम्

गृह्यसूत्रं कल्पस्य द्वितीयम् अङ्गम् अस्ति। अनेके ग्रन्थकर्त्तारः आश्वलायनगृह्मसूत्रं कारिकाबद्धं कृतवन्तः। तेषु लेखकेषु रघुनाथदीक्षितगोपालकुमारिलप्रभृतीनां विदुषां नाम विशेषरूपेण उल्लेखनीयमस्ति। अन्तिमलेखकेन आश्वलायनगृह्यसूत्रस्य नारायणवृत्तेस्तथाऽनन्तस्वामिनो निर्देशं कृतवान् स्वकीये ग्रन्थे। गृह्मसूत्रे च तदीये आश्वलायन शाङ्गायनं च स्तः। शुक्लयजुवेदस्य श्रौतसूत्रमेकमेव कात्यायनश्रौतसूत्रमस्ति ।

धर्मसूत्रम् संपादित करें

मुख्यलेखः : धर्मसूत्रम्

धर्मसूत्राणि कल्पस्य गौरवम् अयान्यङ्गानि सन्ति, परं न साम्प्रतं प्रत्येकं शाखायाः धर्मसूत्राणि लभ्यन्ते । यन्मानवधर्मसूत्रमाधृत्य मनुस्मृतेः निर्माणं सञ्जातं, तदपि नाद्यपर्यन्तमुपलब्धं भवति । सुतरां बौधायनापस्तम्ब-हिरण्यकेशिकल्पसूत्राणामुपलब्धिः पूर्णतया भवति । अत एव तदीयानि धर्मसूत्राण्यपि प्राप्यन्ते । धर्मसूत्रेषु चतुर्वर्णकर्त्तव्यानि कर्माणि, व्यवहाराः, राजधर्मः, अाश्रमधर्मः, विवाहः, दायभागः, प्रायश्चित्तम्, नित्यनैमित्तिकं कर्म इत्येते अन्ये चानेके विषयाः सन्ति वर्णिताः । धर्मसूत्रेषु प्राचीनतमं गौतमधर्मसूत्रं विद्यते ।

शुल्वसूत्रम् संपादित करें

मुख्यलेखः : शुल्वसूत्रम्

शुल्वसूत्रं वेदाङ्गान्तर्गतकल्पसूत्रस्यान्यतम् अङ्गमस्ति। शुल्वसूत्र भारतवर्षे रेखागणितस्य पुरातनेतिहासस्य ज्ञानाय नितान्तमावश्यकमस्ति। वैदिककर्मकाण्डमेव शुल्वसूत्रस्य मुख्यविषयोऽस्ति। शुल्वशब्दस्यार्थों भवति ‘रज्जुः' । अतः ‘रज्वा मापितवेद्या रचना' शुल्वसूत्रस्य प्रतिपाद्यविषयोऽस्ति ।

सामवेदीय-कल्पसूत्राणि संपादित करें

आर्षेयकल्पसूत्रम् संपादित करें

आर्षेयकल्पसूत्रस्य नाम सामवेदीयकल्पसूत्रेषु मुख्यं मन्यते । मशकाख्यः ऋषिरस्य कर्ता अासीत् । विशालोऽयं ग्रन्थोऽस्ति । ग्रन्थेऽस्मिन्नेकादशाध्यायाः सन्ति । कस्मिन् यागे कस्य विशिष्टसाम्नो गायनं सम्पन्नं कर्त्तव्यमिति प्रदर्शनमेवास्य ग्रन्थस्य मुख्योद्देश्यमस्ति ।

क्षुद्रकल्पसूत्रम् संपादित करें

सत्स्वपि बहुषु कल्पसूत्रेषु गृहीतसूत्रशैल्यामस्य गणना नास्ति । अस्य लेखनशैली ब्राह्मणशैली इवास्ति । ग्रन्थोऽयमार्षेयकल्पस्य पूरको मन्यते; यतस्तस्मिन्नवर्णितयागानामिदं वर्णनं कृत्वा विषयस्य पूर्त्तिं करोति । अत एव अपरटीकाकारः श्रीनिवासः इदमुत्तरकल्पसूत्रं स्वीकरोति ।

अस्य टीकाकारो दक्षिणभारतवासी वैष्णवब्राह्मणः श्रीनिवासोऽस्ति । अयं स्वजन्मना वैदिककुलमेकं सभाजितवान् । अस्य ग्रन्थस्य टीकायाः पुष्पिकायामस्य पितुः नाम 'श्रीरामानुजसिद्धान्तस्थापनाचार्य-शतक्रतु-ताताचार्य' इति निर्दिष्टमस्ति ।

'शतक्रतुं तातगुरुं वेदवेदाङ्गपारगम् ।

वेदान्तानां गुरुं वन्दे वेदान्ताचार्यलक्षणम् ॥ ६ ॥

श्रीश्रीनिवासगुरुणा शतक्रतुतनूभवा।

चतुराम्नाय-षट्सूत्री-पारगेन हरेर्मुदे'॥ ७ ॥

अथर्ववेदीय-कल्पसूत्रम् संपादित करें

अथर्ववेदस्य एकमेव कल्पसूत्रमस्ति । वैतानश्रौतसूत्रमिदं गोपथब्राह्मणोपरि अाधारितमस्ति । कात्यायनश्रौतसूत्रेणापि सूत्रमिदं घनिष्ठतया सम्बद्धमस्ति । ग्रन्थेऽस्मिन् अष्टौ अध्यायाः सन्ति । अध्यायाश्च कण्डिकायां विभक्ताः सन्ति । श्रौतसूत्राणामितिहासे इदं सर्वाधिकावान्तरकालिको ग्रन्थोऽस्ति। परिमाणे स्वल्पमिदमस्ति । ब्रह्मानामकः ऋत्विज् तस्य सहायको भवति । यजमानस्य कर्तव्यमुपदिशति। अनुष्ठानानां विवरणमपि ददाति। गोपथब्राह्मणस्य अनुसरणम् अन्कांशेषु करोतीदम्। कात्यायनश्रौतसूत्रस्य अपि विशिष्टप्रभावः परिलक्ष्यते।

कौशिकगृह्यसूत्रम् अपि अथर्ववेदस्य एकमात्रं गृह्यसूत्रम् अस्ति। चतुर्दशाध्यायेषु इदं सूत्रं विभक्तमस्ति। अत्र हारिलस्य केशवस्य सङ्क्षिप्तव्याख्या अपि समुपलब्धा अस्ति। ग्रन्थोऽयं भारतीययातुविद्यायाः परिचयार्थम् अनुपमसामग्रीं प्रस्तौति। अस्य ग्रन्थस्य साहाय्येनाथर्ववेदस्य नानाऽनुष्ठानानां विधिविधानं पूर्णरूपेण ज्ञातुं शक्यते । वैद्यकशास्त्रस्य औषधिभ्यो ग्रन्थोऽयम् अक्षयनिधिरस्ति । अतोऽस्य अनूशीलनस्य अभावे अथर्वस्य रहस्योन्मीलनं कत्तुं न शक्यते, इयमेवास्योपादेयताऽस्ति ।

सम्बद्धाः लेखाः संपादित करें

बाह्यसम्पर्कतन्तु संपादित करें

उद्धरणम् संपादित करें

"https://sa.wikipedia.org/w/index.php?title=कल्पः&oldid=436288" इत्यस्माद् प्रतिप्राप्तम्