कानजीः स्वामी

जैनविद्वान्, दार्शनिकः, आध्यात्मिकगुरुः

'

कानजीस्वामी
जन्म २१, अप्रेलमासः, १८९०
उमराला, भावनगरं, ब्रिटीशभारतम्
मृत्युः २८ नवम्बरमासः, १९८०
मुम्बई, महाराष्ट्रराज्यम्
देशीयता भारतीयः
अन्यानि नामानि काठियावाडप्रदेशस्य कोह्-इ-नूर् हीरकम्, पूज्यगुरुदेवश्री, स्वामीजी
वृत्तिः जैनविद्वान्, दार्शनिकः, आध्यात्मिकगुरुः
धर्मः जैनधर्मः
पितरौ उजम्बाबाई (माता)
मोतीचन्दभाई (पिता)
गम्भीरचिन्तनमुद्रायां कानजीस्वामिचित्रम्

कानजीस्वामी' (१८९०-१९८०) जैनधर्मस्य प्रसिद्धशिक्षकः आसीत्। १९३२ तमे वर्षे कुन्दकुन्दस्य समयसारेण अतीवप्रभावितः अभवत्। कुन्दकुन्दादिभिः वर्णितस्य जैनदर्शनस्य व्यापकविस्तारार्थं सः ४५ वर्षाणि यावत् एतासां शिक्षानां विषये व्याख्यानं दत्तवान्। तस्य धार्मिकशिक्षायाः दर्शनेन च प्रभाविताः जनाः तं "काठियावाडप्रदेशस्य कोह्-इ-नूर् हीरकम्" इत्यस्य उपाधिं दत्तवन्तः।

जीवनवृत्तान्तः सम्पादयतु

प्रारम्भिकजीवनम् सम्पादयतु

कानजीस्वामी गुजरातराज्यस्य काठियावाड़प्रदेशस्य लघुग्रामे उमरालायां १८९ ० तमे वर्षे स्थानकवासीपरिवारे जन्म प्राप्नोत्। यद्यपि सः विद्यालये समर्थः छात्रः तथापि नितराम् आत्मज्ञानं प्रति तस्य प्रवृत्तिः। त्रयोदशवर्षे तस्य माता मृता अपि च सप्तदशवर्षीयः पितरमपि त्यक्तवान्। तदनन्तरं सः पितुः आपणं पालयितुम् आरब्धवान्। सः धर्म-आध्यात्मिक-विषये विविधानि पुस्तकानि पठन् आपणे नित्यं निश्चलकालस्य उपयोगम् अकरोत्। विवाहप्रस्तावान् विहाय सः भ्रातुः ब्रह्मचारिणः आज्ञां प्राप्तवान्, संन्यासी जीवनमिति अवदत्।

स्थानकवासीत्वेन जीवनम् सम्पादयतु

हिरचन्दस्य गुरुवरस्य अधीनं १९१३ तमे वर्षे कानजीस्वामी स्थानकवासी मठवासी अभवत्। सः सत्वरमेव विद्वद्त्वेन प्रसिद्धः, सः "कठियावाडप्रदेशस्य कोही-नूर-हिरकम्"(कठियावाडप्रदेशस्य रत्नम्) इति नाम्ना प्रसिद्धः आसीत्। तथापि तत्र सः स्वं सन्तुष्टं नेति प्राप्तवान्।

१९२१ तमे वर्षे तेन आचार्यकुन्दकुन्दस्य समयसारं पठितं, यत् तस्योपरि बहुप्रभावं कृतवान्। पण्डितटोडरमलस्य श्रीमद्राजचन्द्रस्य च ग्रन्थानाम् अध्ययनम् अपि अकरोत्। आचार्यामृतचन्द्रस्य बनारसीदासस्य च प्रभावः आसीत्। प्रवचनेषु सः एतेभ्यः अध्ययनेभ्यः उद्धृतान् विचारान् प्रकटितवान्, नाममात्रेण स्थानवासी मठवासी किन्तु दिगम्बरग्रन्थानां उल्लेखं कृत्वा एकप्रकारस्य नवीनजीवनं प्रारब्धवान्।

दिगम्बरविद्वज्जीवनम् सम्पादयतु

अन्तिमे सः स्थानकवासीमठजीवनं त्यक्त्वा १९३४ तमे वर्षे गुजरातस्य सोनगढ़प्रदेशे ब्रह्मचारी दिगम्बरश्रावकोऽहम् इति घोषितवान्। सः पञ्चचत्वारिंशत्वर्षेषु दिगम्बरसंप्रदायस्य मूलग्रन्थान् पठित्वा तस्य च प्रचारमपि अकरोत्। स्वप्रवचनेषु विशुद्धतत्त्वज्ञानस्य आत्मज्ञानस्य च प्रचाराय स्वजीवनं दत्तवान्। देशविदेशतः अनेका जीवाः तस्मात् प्रभाविताः। तत्प्रभावत् विविधाः जीवाः स्वजीवनं कल्याणकारीमार्गे दत्तवन्तः। तत्प्रभावत् जैनग्रन्थानां लोकख्यातिः अभूत्। अन्ततः कानजीस्वामी १९८० तमे वर्षे नवम्बरमासस्य २८ दिनाङ्के मुम्बईनगरे मृतः।

परम्परा सम्पादयतु

भारतवर्षे तस्य प्रभावात् विविधनगरेषु जैनमन्दिराणि निर्मितानि, तथा च जैनमहाविद्यालयाः विद्यालयाः विविधशिक्षणसंस्थानान चापि निर्मितानि। तत्पूर्वे जैनदर्शने मूलतत्त्वज्ञानं विलुप्तं प्रायः परन्तु पुनः जैनविद्वद्भिः मूलतत्त्वज्ञानस्य परम्परा प्रचलिता। सः नियमितरूपेण विविधग्रन्थोपरि प्रवचनं कृतवान्, तस्य प्रवचनानि अधुनापि श्रव्ययन्त्रमाध्यमेन उपलब्धानि, अपि च तेषां प्रवचनसङ्ग्रहः पुस्तकाकारेषु भवति। तस्य त्रीणि प्रसिद्धदार्शनिकवाक्यानि - "अहं परमात्मा अस्मि इत्थं निश्चितं कुरु। अहं परमात्मा अस्मि इत्थं निर्णयं कुरु। अहं परमात्मा अस्मि इत्थम् अनुभव।"

"https://sa.wikipedia.org/w/index.php?title=कानजीः_स्वामी&oldid=483849" इत्यस्माद् प्रतिप्राप्तम्