काम्यानां कर्मणां न्यासं...


श्लोकः सम्पादयतु

 
गीतोपदेशः

श्रीभगवानुवाच -

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः ।
सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ॥ २ ॥

अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः सम्पादयतु

काम्यानां कर्मणां न्यासं सन्न्यासं कवयो विदुः सर्वकर्मफलत्यागं प्राहुः त्यागं विचक्षणाः ॥ २ ॥

अन्वयः सम्पादयतु

काम्यानां कर्मणां न्यासं सन्न्यासं कवयः विदुः । सर्वकर्मफलत्यागं विचक्षणाः त्यागं प्राहुः ।

शब्दार्थः सम्पादयतु

काम्यानाम् = फलमुद्दिश्य क्रियमाणानाम्
कर्मणाम् = क्रियाणाम्
न्यासम् = परित्यागम्
कवयः = पण्डिताः
विदुः = आचक्षते
विचक्षणाः = विवेकिनः
सर्वकर्मफलत्यागम् = सकलकर्मप्रयोजनपरित्यागम्
प्राहुः = कथयन्ति ।

अर्थः सम्पादयतु

फलमुद्दिश्य क्रियमाणानां कर्मणां परित्यागं सन्न्यासः इति पण्डिताः आचक्षते । सर्वकर्म - प्रयोजनपरित्यागं विवेकिनः त्यागः इति कथयन्ति ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु