प्रमुखा विकल्पसूचिः उद्घाट्यताम्

कारगिलविजयदिवसः ( /ˈkɑːrəɡɪləvɪəjədɪvəsəh/) (आङ्ग्ल: Kargil Vijay Divas, हिन्दी: करगिल विजय दिवस) प्रतिवर्षं 'जुलाई'-मासस्य षड्विंशतितमे (२६/७) दिनाङ्के आभारतम् आचर्यते । भारतीयसैन्यस्य पाकिस्थानसैन्यस्य उपरि विजयस्य एषः दिवसः [२] । १९९९ तमे वर्षे भारतस्य पाकिस्थानदेशेन सह सप्तसप्ततिदिनानि (७७) यावत् युद्धम् अभवत् । भारतीयसैन्यस्य अनेकाः वीरयोद्धारः मातृभूमेः रक्षायै स्वप्राणाहुतिम् अयच्छन् । १९९९ तमस्य वर्षस्य 'जुलाई'-मासस्य षड्विंशतितमे (२६/७/१९९९) दिनाङ्के भारत-पाक-युद्धे भारतस्य ऐतिहासिकः विजयः अभवत् । कारगिल-युद्धे हुतात्मभ्यः सैनिकेभ्यः श्रद्धाञ्जलिम् अर्पयितुं, भारतीयसैन्यस्य अदम्यसाहसस्य स्मरणार्थं च प्रतिवर्षं सर्वेभारतीयाः विजयदिवसस्य महोत्सवत्वम् आचरन्ति । भारतदेशेन पाकिस्थानस्य विरुद्धं या सैन्ययोजना रचिता आसीत्, तस्याः नाम ‘ऑपरेशन् विजय’ आसीत् । तस्मिन् युद्धे भारतस्य ५२७ योद्धारः हुतात्मनः अभवन् । कारगिलयुद्धस्य समाप्तौ भारतगणराज्यस्य तत्कालीनेन प्रधानमन्त्रिणा कारगिलविजयदिवसस्य राष्ट्रियपर्वत्वेन घोषणा कृता आसीत् ।

कारगिलविजयदिवसः
Kargil Vijay Divas
व्यावहारिकनाम कारगिलविजयदिवसः
इतर नामानि विजयदिवसः
के आचरन्ति आभारतम्
वर्गः भारतगणराज्यम्
दिनाङ्कः 'जुलाई'-मासस्य षड्विंशतितमे (२६/७) दिनाङ्के
आचरणानि भारतगणराज्यस्य राष्ट्रपतिः, प्रधानमन्त्री, सर्वकारस्य मुख्याधिकारिणः च देहली-महानगरस्थं भारतद्वारं गत्वा कारगिलयुद्धस्य हुतात्मभ्यः नमस्कुर्वन्ति [१]

कारगिलयुद्धस्य विषयेसम्पाद्यताम्

मुख्यलेखः : कारगिलयुद्धम्

१९४७ तमे वर्षे भारतात् पाकिस्थानदेशः यदा भिन्नः अभवत्, तस्मात् कालात् जम्मुकाश्मीरराज्यं प्राप्तुं पाकिस्थानस्य ईप्सा आसीत् । अतः पाकिस्थानदेशः आतङ्कवादस्य माध्यमेन, काश्मीराज्यस्वतन्त्रतायाः समर्थनं कृत्वा, भारतीयसीमातिक्रम्य च जम्मुकाश्मीरराज्यं प्राप्तुं प्रयासं करोति । तस्य परिणामस्वरूपं १९४८, १९६५, १९७१, १९९९ तमेषु वर्षेषु भारत-पाकिस्थानयोः युद्धम् अभवत् । सर्वदा हि भारतस्य ऐतिहासिकविजयः अभवत् । एतेषु युद्धेषु १९९९ तमस्य वर्षस्य युद्धं कारगिलयुद्धत्वेन प्रख्यातम् अस्ति । यतो हि भारतपाकिस्थानदेशयोः मध्ये या वास्तविकनियन्त्रणरेखा (Line of Actual Control) विद्यते, तस्याः समीपे कारगिल-नामकम् एकं मण्डलम् अस्ति, तस्य मण्डलस्य केन्द्रमस्ति कारगिल-नगरम्कारगिल-नगरं सिन्धुनद्याः सुरु-नामिकायाः सहनद्याः तटे विकसितम् अस्ति । शीतकाले तस्मिन् नगरे ऋणं ४८ अंशं तापमानं भवति । लद्दाख-प्रदेशस्य समीपवर्तिषु बृहन्नगरेषु कारगिल-नगरं द्वितीयम् अस्ति । एतस्य नगरस्य जनसङ्ख्या अधिका नास्ति । परन्तु युद्धक्षेत्रत्वात् एतस्य नाम आविश्वं प्रख्यातम् अभवत् ।

१९९९ तमस्य वर्षस्य ‘मई’-मासस्य तृतीये दिनाङ्के काश्मीरराज्यस्य बटालिक-विस्तारस्य निवासी ताशी-नामकः एकः पशुपः (herdsman) पशुं चारयितुं गृहात् निर्गतः । मार्गे ताशी अन्वभवत् यत्, “पशुवृन्दे एकः ‘याक्’-पशुः न्यूनः अस्ति” इति । अतः सः 'बञ्जु हिल्स्'-नामिकायाः गिरिकायाः (hill) शीर्षम् आरोहत् (चढ़ा) । गिरिकायाः उपरि स्थित्वा यदा ताशी स्वपशुम् अन्विष्यति स्म, तदा वायव्यदिशि अन्यगिरिकायां तेन जनाः दृष्टाः । पाकिस्थानदेशेन भारतीयसीमायाः अतिक्रमणं कृतमस्ति इति दृष्ट्वा सः आश्चर्यचकितः अभवत् । यतो हि भारतीयसैन्यं शीतकाले तस्मिन् क्षेत्रे न भवति । सीमाप्रदेशनिवासी सः स्थित्याः गभीरताम् अजानत् । अतः सः झटिति समीपस्थं भारतीयसेनाकार्यालयम् अगच्छत् । तत्र गत्वा सः पाकिस्थानसैनिकानां सीमातिक्रमणस्य विषये सूचनाम् अयच्छत् । ततः दिनत्रयानन्तरं षड्दिनाङ्के स्थितेः पुष्टिं कर्तुं भारतीयसैन्यस्य एकं दलं 'बञ्जु हिल्स्' अगच्छत् । सूचनायाः सत्यतां ज्ञात्वा सैनिकाः स्वोच्चाधिकारिणे सीमातिक्रमणस्य सूचनाम् अयच्छन् । ततः सैन्याधिकारी देहली-महानगरस्थाय प्रधामन्त्रिकार्यालयाय पाकिस्थानस्य सीमातिक्रमणस्य समाचारं प्रैषयत् । ततः भारतीयाः अजानन् यत्, “शीतकाले यत् सैन्यवासं रिक्तम् आसीत्, तस्मिन् अधुना पाकिस्थानदेशस्य सैनिकानाम् आधिपत्यम् अस्ति” इति । पाकिस्थानस्य सैनिकान् भारतीयसीमातः प्रति प्रेषितुं यत् युद्धम् अभवत्, तदेव कारगिलयुद्धम्

कारगिलविजयदिवस्य आयोजनम्सम्पाद्यताम्

भारतीयसैनिकानाम् अभूत्पूर्वविजयस्य स्मारकत्वेन आभारतं कारगिलविजयस्य आचरणं करोति । तेन सह कारगिलयुद्धे ये भारतीयसैनिकाः स्वप्राणाहुतिं दत्त्वा देशसीमायाः रक्षणम् अकुर्वन्, तान् प्रति आभारतं स्वकृतज्ञतां प्रदर्शयति । भारतगणराज्यस्य राष्ट्रपतिः, प्रधानमन्त्री, सर्वकारस्य मुख्याधिकारिणः च देहली-महानगरस्थं भारतद्वारं गत्वा कारगिलयुद्धस्य हुतात्मभ्यः नमस्कुर्वन्ति [१] । आभारतं कारगिलविजयस्य हर्षोल्लासेन सह स्वागतं कुर्वन्ति । सर्वत्र भारतीयसैनिकानाम् अभूत्पूर्वविजयस्य कथानां श्रवणं, श्रावणं च भवति । समाचारपत्रेषु कारगिलयुद्धस्य कथाः मुद्रिता भवति । दूरदर्शनस्य वाहिनीषु (channel) कारगिलविजयस्य कार्यक्रमाः भवन्ति । दूरदर्शनस्य चलच्चित्रस्य वाहिनीषु (channel) कारगिलसम्बद्धानां चलच्चित्राणां प्रसारणम् अपि भवति । भारतगणराज्यस्य राष्ट्रपतिः, प्रधानमन्त्री, अन्याधिकारिणः च यदा देहली-महानगरस्थं भारतद्वारं गच्छन्ति, तदा सर्वाः वाहिन्यः तेषां साक्षात्प्रसारणं कुर्वन्ति । देशजनाः अपि कारगिलविजयदिवसस्य महत्त्वम् अवगन्तुं शक्नुयुः इति सर्वेषाम् उद्देशः भवति [३][४]

देशस्य विभिन्नेषु स्थानेषु देशभक्त्याः कार्यक्रमाः अपि भवन्ति । तत्र देशभक्त्याः गीतानि, नाटकानि, नृत्यानि च भवन्ति । एतस्मिन् दिने युद्धसम्बद्धस्य नाटकस्य माध्यमेन विद्यार्थिनां मनसि देशभक्त्याः भावोत्पादनस्य कार्यं शिक्षकाः कुर्वन्ति [५]

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कन्तुःसम्पाद्यताम्

उद्धरणम्सम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=कारगिलविजयदिवसः&oldid=436296" इत्यस्माद् पुनः प्राप्तिः