कारणम् (न्यायशास्त्रम्)

अनन्यथासिद्धित्वे सति कार्यनियतपूर्ववृत्ति कारणम्। तत् त्रिविधम्।

समवायिकारणम् सम्पादयतु

यत्समवेतं सत् कार्यमुत्पद्यते तत्समवायिकारणम् । यस्मिन्समवायसम्बन्धेन वर्तमानं कार्यमुत्पद्यते तत् समवायिकारणम् इत्यर्थः।

उदाहरणम् सम्पादयतु

तन्तवः पटस्य समवायि कारणम्। येषु तन्तुषु समवायेन सम्बद्धं सत् पटात्मकं कार्यमुत्पद्यते तद् तन्तवः समवायिकारणम्। यतस्तन्तुष्वेव पटः समवेतो जायते न तुर्यादिषु । द्रव्ये तु द्रव्यावयवाः समवायिकारणम्।

असमवायिकारणम् सम्पादयतु

कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणसमवायिकारणम्।

निमित्तकारणम् सम्पादयतु

समवाय्यसमवायिभिन्नं कारणं निमित्तकारणम्।

सम्बद्धाः लेखाः सम्पादयतु