न्यायदर्शनं (Nyaya) भारतीयदर्शनेषु अन्यतमम् । वैदिकदर्शनेषु न्यायशास्त्रस्यापि गणना विधीयते । प्राचीनैरप्युक्तं यत् आन्वीक्षिकी सर्वासां विद्यानां मूलमस्ति । काव्यमीमांसायाः लेखकः राजशेखरोऽपि कौटिल्यसम्मतान् विद्याभेदान् आन्वीक्षिकी-त्रयीवार्त्ता-दण्डनीतिसंज्ञाभिरभिहितवान् । स्वयं कौटिल्यः आन्वीक्षिकीं सर्वासां विद्यानां प्रदीपभूतां सर्वेषां कार्याणाम् उपायरूपां, सर्वेषां धर्माणां आश्रयरूपां च प्रतिपादितवान् । फलतः विद्यायाः आन्वीक्षिकीत्याख्यं रूपं स्वरूपं न्यायशास्त्रस्य प्रतिपादनाय परमोपयोगि अस्ति ।
प्रमाणैः पदार्थानां परीक्षणं न्याय उच्यते । एवञ्चेत् न्यायविद्यायाः प्रतिपादनमेव न्यायदर्शनस्य प्रयोजनमस्ति । केषाञ्चन विदुषां मतानुसारेण न्यायशास्त्रे अनुमानस्य प्राधान्यमस्ति अत एव पञ्चावयववाक्यं न्यायः इत्यपि उक्तिर्व्यवहृता दृश्यते । तेन सिद्ध्यति यत् न्यायशास्त्रे अनुमानस्य विश्लेषणं सर्वाधिकमहत्वपूर्णमस्ति । आन्वीक्षिकी न्यायेन कथं साम्यम् आदत्ते इत्यस्मिन् सन्दर्भे इदं वक्तुं शक्यते यत् प्रत्यक्षदृष्टानां शास्त्रश्रुतानां च विषयाणां तात्त्विकस्वरूपस्य ज्ञापयित्री विद्या आन्वीक्षिकी भवति इति। व्युत्पत्त्यनुसारं तु प्रत्यक्षागमाभ्याम् ईक्षितस्य अन्वीक्षणं यस्यां सा आन्वीक्षिकी इति स्वीक्रियते । न्यायस्य प्रतिपाद्यमपि एवंविधमेवास्ति, अतः उभयोः साम्यमस्ति ।
न्यायविद्यायाः मूलस्रोतसः कालनिर्णयस्य दृष्ट्या इदं तु सम्भवं नास्ति यत् अमुककालेऽस्य शास्त्रस्योत्पत्तिः संजाता, किन्तु उपनिषत्सु विशेषतो बृहदारण्यके स्मृतिज्ञानचर्चायां तर्कस्योपस्थापना दृश्यते । तेन अनुमीयते यत् उपनिषत्कालात्पूर्वमेव न्यायस्य प्रारम्भिकं स्वरूपं तर्करूपेण वादविद्यारूपेण वा समुद्भूतम् । आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इति वचनद्वारा श्रवणेन सह मननस्यापि उपदेशो विहितः । मननं पुनः तर्कानुकूलं उपयोगि भवितुं शक्नोति । एवमेव मीमांसादर्शने मूलतः श्रौतकर्मणः प्रसङ्गे विरोधपरिहारस्य कृते तर्कपद्धतेराश्रयो गृहीतः । पदार्थानां परिकल्पनायाः आश्रयभूताः उपनिषदः एव इत्यपि तत्र सूचितम् । तेन स्पष्टीभवति यद् वैदिकसाहित्यमेव न्यायदर्शनस्य मूलस्रोतो विद्यते । तदेव च तदुत्पत्तेः तत्परिकल्पनाया वा आधारोऽस्ति । अर्थात् न्यायशास्त्रम् अर्वाचीनं नास्ति प्रत्युत वैदिकसाहित्ये तदीयप्रतिपाद्यस्य मूलरूपेण विद्यमानतया यथा वेदानां प्राचीनता मन्यते तथैव न्यायशास्त्रस्य प्राचीनताऽसन्दिग्धाऽस्ति ।

हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अन्तर्विषयाः

इतिहासःसम्पाद्यताम्

प्रारम्भे न्यायदर्शनं मीमांसादर्शनस्य अत्यधिकं सन्निकटम् अवर्तत, किन्तु कालान्तरे वैशेषिकसिद्धान्तेः सह घनिष्ठतावशात् न्यायवैशेषिकौ समानरूपेण लक्ष्यानुयायिनौ अभवताम् । ऐतिहासिकदृष्ट्या इस्वीपूर्वपञ्चमशताब्दीतः वर्तमानं यावत् अस्य दर्शनस्य अस्तित्वं स्पष्टरूपेण दृश्यते । तथापि सहस्रद्वयवर्षेभ्यः अस्य शास्त्रस्य इतिहासः अविच्छिन्नोऽस्ति । अस्यां दीर्घकालावधौ न्यायस्य विकासोः द्विधा दृश्यते-प्रमेयमीमांसारूपेण, प्रमाणमीमांसारूपेण च ।
प्रमेयमीमांसा न्यायशास्त्रस्य प्रारम्भिकचरणे पदार्थतत्त्वालोचनदृष्ट्या समुदिता आसीत् अतः यस्मिन् न्यायशास्त्रे प्रमेयमीमांसायाः प्रतिपादनं प्रमुखरूपॆण वर्तते सः प्राचीनो न्यायः कथ्यते । प्रमाणमीमांसा कालान्तरे न्यायस्य प्रतिपाद्ये समाविष्टा, अतः यत्र प्रमेयमीमांसापेक्षया प्रमाणमीमांसायाः प्रामुख्यं वर्तते सः नव्यन्याय इत्युच्यते । प्राचीनन्यायतः नव्यन्यायपर्यन्तं न्यायस्य विकासकालो वर्तते । नव्यन्यायस्य पश्चात् न्यायस्य क्षेत्रे क्रमशः पतनस्यैव कालः समागतः । अस्मिन् विकासकाले न्यायविद्यायाः प्रतिष्ठापका ये आचार्या अभूवन् तेषां योगदानं वस्तुतोऽविस्मरणीयमस्ति ।

पदार्थ-प्रमाणानिसम्पाद्यताम्

न्यायशास्त्रं पदार्थज्ञानस्य उपस्थापकमस्ति । पदार्थज्ञानात्पूर्वं ज्ञानस्य प्रक्रिया बोद्धव्या भवतीति विचार्य न्यायशास्त्रे प्रथमं ज्ञानस्य स्वरूपं प्रतिपादितम् । प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानात् मोक्षः [१] भवति इति न्यायसूत्रकारस्य महर्षिगौतमस्य प्रतिपादनमस्ति ।

न्यायमतेन ज्ञानं प्रत्येकं वस्तुनः प्रकाशकमस्ति । तेनैव पदार्थस्य यथार्थज्ञानं भवति । ज्ञानं च द्विविधं भवति‌- स्मृतिरूपम् अनुभवरूपं च । ज्ञातविषयकं ज्ञानं स्मृतिर्भवति किन्तु अनुभवस्तु पदार्थसाक्षात्कारेण संभवति । अनुभवोऽपि द्विधा वर्तते-अयथार्थानुभवः यथार्थानुभवश्च । अयथार्थानुभवस्तु तर्क-संशय-विपर्ययरूपो भवति । यथार्थानुभवश्च यथार्थं ज्ञानमेव प्रामाणिकं मन्यते ।

भारतीयदर्शनेषु ज्ञानस्य प्रामाण्यविषये मतभेदो वर्तते । केचन दार्शनिकाः ज्ञानस्य स्वतः प्रामाण्यं स्वीकुर्वन्ति किन्तु कतिपयाः अपरे परतः प्रामाण्यं प्रतिपादयन्ति । न्यायदर्शने ज्ञानस्य परतः प्रामाण्यं स्वीकृतमस्ति । कस्यापि पदार्थस्य ज्ञानाय इच्छा यत्नश्च आवश्यकौ स्तः । प्रवृत्तेः साफल्ये एव ज्ञानस्य प्रामाण्यं निर्धार्यते । इदमेव न्यायशास्त्रस्य समर्थप्रवृत्तिजनकत्वं कथितम् । न्यायशास्त्रिणां मतमस्ति यत् ज्ञानस्य स्वतः प्रामाण्यं स्वीकर्त्तुं नैव शक्यते, यतः तस्यां दशायां ज्ञानस्य प्रामाण्ये सन्देह एव नोत्पद्यते इति।

प्रमाभेदात् प्रमाणभेदो न्यायमते स्वीक्रियते । प्रत्यक्षप्रमा, अनुमितिप्रमा, उपमितिप्रमा, शाब्दप्रमा चेति प्रमायाः चत्वारो भेदा भवन्ति । प्रत्यक्षप्रमाद्वारा प्रत्यक्षज्ञानं भवति अतः तस्यां क्रियायां प्रत्यक्षप्रमा स्वीक्रियते । अनुमितिजन्यं ज्ञानम् अनुमानं भवति । उपमितिजन्यं ज्ञानम् उपमानं भवति । शाब्दप्रमाजन्यं ज्ञानं शब्दप्रमाणेन गृह्यते । एवं प्रमाणचतुष्टयम् उपपद्यते ।

प्रमाणमसम्पाद्यताम्

यथार्थज्ञानस्य कारणीभूतं प्रमाणम् । प्रमीयते अनेनेति करणार्थाभिधानो हि प्रमाणशब्दः । चत्वारि प्रमाणानि प्रसिद्धानि । प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि[२] इति सूत्रम् । प्रत्यक्षम्, अनुमानम्, उपमानम्, शब्दम्, इति ।

प्रत्यक्षम्सम्पाद्यताम्

प्रमाणेषु आदिमं प्रमाणं प्रत्यक्षम् । इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम् [३]इति सूत्रम् । इन्द्रियस्य अर्थेन सन्निकर्षात् यज्ज्ञानम् उत्पद्यते तत्प्रत्यक्षम् । उदाहरणम्- घटप्रत्यक्षे, इन्द्रियस्य चक्षुरिन्द्रियस्य अर्थेन घटेन सह सन्निकर्षात् ’अयं घटः’ इति प्रत्यक्षं ज्ञानम् उत्पद्यते । प्रत्यक्षम् अव्यपदेशम्, अव्यभिचारि, व्यवसायात्मकम् भवेत् ।

अनुमानम्सम्पाद्यताम्

अथ तत्पूर्वकं त्रिविधमनुमानं पूर्ववच्छेषवत्सामान्यतोदृष्टं च[४] इति सूत्रम् । अथ तत्पूर्वकम् इत्यनेन लिङ्गलिङ्गिनोः सम्बन्धदर्शनं लिङ्गदर्शनं च अभिसम्बध्यते । स्मृत्या लिङ्गदर्शनेन च प्रत्यक्षः अनुमीयते ।

  • पूर्ववत् - यत्र कारणेन कार्यम् अनुमीयते तत् पूर्ववदनुमानम् । यथा मेघोन्नत्या भविष्यति वृष्टिरिति ।
  • शेषवत् - यत्र कार्येण कारणमनुमीयते तत् । पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रतरत्वं च दृष्ट्वा स्रोतसः अनुमीयते भूता वृष्टिरिति।
  • सामान्यतोदृष्टम्- व्रज्यापूर्वकम् अन्यत्र दृष्टस्य अन्यत्र दर्शनमिति । रामेश्वरे दृष्टस्य ज्ञानेशस्य तिरुपतौ दर्शनेन , तस्य गमनम् अनुमीयते ।

उपमानम्सम्पाद्यताम्

प्रज्ञातेन सामान्यात् प्रज्ञापनीयस्य प्रज्ञापनम् उपमानम् इति । प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानम् [५] इति सूत्रम् । उपमितिकरणम् उपमानम् इति तर्कसङ्ग्रहे उक्तम् । गोः सादृश्यं गवि पश्यन् कश्चित् वदति, गोसदृशः गवयः इति । एवं चन्द्र एव मुखम् इत्यत्रापि । प्रसिद्धस्य चन्द्रस्य सादृश्यं मुखे पश्यन् वदति ।

शब्दप्रमाणम्सम्पाद्यताम्

आप्तोपदेशः शब्दः[६] इति सूत्रम् । आप्तः नाम यथार्थवक्ता । ईश्वरादयः आप्ताः ।

प्रमेयम्सम्पाद्यताम्

आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गास्तु प्रमेयम् [७] इति सूत्रम्। आत्मा, शरीरम्,इन्द्रियम्, अर्थः, बुद्धिः, मनः, प्रवृत्तिः, दोषः, प्रेत्यभावः, फलम्, दुःखम्,अपवर्गः च प्रमेयाः ।

संशयःसम्पाद्यताम्

समानानेकधर्मोपपत्तेर्विप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः [८] इति सूत्रम् । एकस्मिन् धर्मिणि नानाधर्माभासः । समानधर्मोपपत्तेर्विशेषापेक्षो विमर्शः संशयः । यथा स्थाणुपुरुषयोः समानं धर्ममारोहपरिणाहौ पश्यन् पूर्वदृष्टं च तयोर्विशेषं बुभुत्समानः किंस्विदित्यन्यतरं नावधारयति । संशयबुद्धिः स्थाणुर्वा पुरुषो वा इति भवति ।

प्रयोजनम्सम्पाद्यताम्

यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् [९] इति सूत्रम् । यदुद्दिश्य यस्मिन् कार्ये मनुष्यः प्रवृत्तो भवति तत् प्रयोजनमिति भण्यते । प्रयोजनं द्विधा विभज्यते दृष्टमदृष्टं चेति ।

  • दृष्टफलम् - अवधातात् तुषविमोकः ।
  • अदृष्टफलम् - स्वर्गफलमदृष्टमिति व्यवहारः ।

दृष्टान्तःसम्पाद्यताम्

लौकिकपरोक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः [१०] इति सूत्रम् । व्याप्तिज्ञापनस्थलं दृष्टान्तः इति व्यवहारः । यत्र यत्र धूमः तत्र तत्र वन्हिः इति व्याप्तिः । अस्य उदाहरणत्वेन महानसः व्याप्तिज्ञापनत्वेन स्वीक्रियते । अतः महानसं व्याप्तिज्ञापनस्थलं भवति । स च महानसः दृष्टान्तः भवति । दृष्टान्तः द्विविधः साधर्म्यवैधर्म्यरूपेण ।

  • धूमेनाग्निसाधने यः महानसदृष्टान्तः भवति सः साधर्म्यभूतः, अस्यैवानुमानस्य जलं सरोवरः वैधर्म्यदृष्टान्तः इति ।

सिद्धान्तःसम्पाद्यताम्

तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः[११] इति सूत्रम् । यः अर्थः प्रमाणेन सिद्धः भवति सः सिद्धान्तः । सिद्धान्तः चतुर्विधः सर्वतन्त्रः, प्रतितन्त्रः, अभ्युपगमः, अधिकरणसिद्धान्तश्चेति । उदाहरणम् - पञ्च ज्ञानेन्द्रियाणि सन्ति । इमानि सकलशास्त्रकारैः अभ्युपगतत्वात् नास्त्यत्र विरोधः ।

अवयवःसम्पाद्यताम्

प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः [१२] इति सूत्रम् । परार्थानुमानान्तर्गतावयवानामन्यतमस्य अवयवः इति कथनम् । परार्थानुमाने पञ्चावयवाक्यानि सन्ति । तानि यथा प्रतिज्ञातहेतूदाहरणोपनयनिगमनानि इति ।

तर्कःसम्पाद्यताम्

अविज्ञाततत्त्वेऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः [१३] इति सूत्रम् । व्याप्यारोपेण व्यापकारोपकस्तर्कः इति तर्कस्य लक्षणम् । यथा धूमः अग्निव्याप्यः एवम् अग्निः धूमव्यापकः।

निर्णयःसम्पाद्यताम्

विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः [१४] इति सूत्रम् । तर्कविषये खण्डनमण्डनात्मकद्वारा यस्य समीचीनार्थस्य निश्चयः भवति सः निर्णयः इति अभ्युपगम्यते । अयं चतुर्विधः साक्षात्कृतिः, अनुमितिः, उपमितिः, शब्दः इति ।

वादःसम्पाद्यताम्

प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वादः [१५] इति सूत्रम् । यः तर्केण अथवा प्रमाणद्वारा स्वपक्षसाधनाय एव परपक्षखण्डनं यस्यां शास्त्रचर्चायामुपयुज्यते, किञ्च स्वीकृतः सिद्धान्तः अविरुद्धः एव उपनयादिभिः पञ्चावयवैः वाक्यैः उत्पन्नश्च भविष्यति सः वादः ।

जल्पःसम्पाद्यताम्

यथोक्तोपपन्नश्छलजातिनिग्रहस्थानसाधनोपालम्भो जल्पः [१६] इति सूत्रम् । परपक्षखण्डनेन स्वपक्षसिध्यनन्तरमपि छलजातिनिग्रहस्थानानां प्रयोगः यत्र कृतो भवति सः जल्प इति भण्यते ।

वितण्डासम्पाद्यताम्

स प्रतिपक्षस्थापनाहीनो वितण्डा[१७] इति सूत्रम् । वचनात् पूर्वोक्तः यः जल्पः यदा स्वपक्षस्थापनाहीनो भवति स एव वितण्डावादः इति । स्वपक्षस्थापनं न करोति अपितु केवलं परपक्षखण्डने एवास्य मुख्या प्रवृत्तिः ।

छलम्सम्पाद्यताम्

वचनविघातोऽर्थविकल्पोपपत्त्या छलम् [१८] इति सूत्रम् । छलमेतत् त्रिविधं[१९] वाक्छलम्, सामान्यच्छलम्, उपचारच्छलम् इति ।

जातिःसम्पाद्यताम्

साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः [२०] इति सूत्रम् । साधर्म्यवैधर्म्याभ्यां यस्य साध्यस्य अनुपपत्तिः सा जातिरित्युच्यते । जातिः चतुर्विंशतिप्रकारात्मिका भवति । यथा-साधर्म्यसमः, वैधर्म्यसमः, उत्कर्षसमः, अपकर्षसमः, वर्ण्यसमः, अवर्ण्यसमः, साध्यसमः, विकल्पसमः, प्राप्तिसमः, अप्राप्तिसमः, प्रसङ्गसमः, प्रतिदृष्टान्तसमः, अनुपपत्तिसमः, संशयसमः, प्रकरणसमः, हेतुसमः, अर्थापत्तिसमः, अविशेषसमः, उपपत्तिसमः, उपलब्धिसमः, अनुपलब्धिसमः, नित्यसमः, अनित्यसमः, तथा कार्यसमः इति ।

निग्रहस्थानम्सम्पाद्यताम्

विप्रतिपत्तिरप्रतिपत्तिश्च निग्रहस्थानम् [२१] इति सूत्रम् । निग्रहस्थानं खलु पराजयप्राप्तिः । वादी अथवा प्रतिवादी यस्मिन् स्थाने येन प्रतिपादनेन स्वपक्षपराजितत्वं मन्यते तत्स्थानं निग्रहस्थानं इति कथ्यते । निग्रहस्थानं द्वाविंशतिभेदेन उपन्यस्तं भवति न्यायशास्त्रे । तानि भवन्ति- प्रतिज्ञाहानिः, प्रतिज्ञान्तरम्, प्रतिज्ञाविरोधः, प्रतिज्ञासंन्यासः, हेत्वन्तरम्, अर्थान्तरम्, निरर्थकम्, अविज्ञातार्थम्, अपार्थकम्, अप्राप्तकालम्, न्यूनम्, अधिकम्, पुनरुक्तम्, अननुभाषणम्, अज्ञानम्, अप्रतिभा, विक्षेपः, मतानुज्ञा, पर्यनुयोज्योपेक्षणम्, निरनुयोज्यानुयोगः, अपसिद्धान्तः, हेत्वाभासः इति ।

विषयाःसम्पाद्यताम्

प्रत्यक्षप्रमाणम्सम्पाद्यताम्

इन्द्रियस्य पदार्थेन सह सन्निकर्षात् यत् ज्ञानं भवति तत् प्रत्यक्षज्ञानं भवति अतः तत्र प्रत्यक्षप्रमाणं स्वीक्रियते । इदं पञ्चभिः ज्ञानेन्द्रियैः मनसा च सह सम्बन्धात् षड्विधं भवति । एषु पञ्चज्ञानेन्द्रियाणां स्वस्वविषयैः सह सम्बन्धात् यः प्रत्यक्षो भवति सः सविकल्प उच्यते, मनःसंयोगेन जायमानः प्रत्यक्षस्तु निर्विकल्पो भवति । इमावेव प्रत्यक्षस्य प्राधान्येन द्वौ भेदौ स्तः ।

सविकल्पं प्रत्यक्षम्सम्पाद्यताम्

ज्ञानेन्द्रियाणां विषयाः शब्द-स्पर्श-रूप-रस-गन्ध-गुणाः सन्ति । गुणाः द्रव्येषु समवायसम्बन्धेन तिष्ठन्ति । तत्तद्द्रव्यरूपेण अर्थेन यदा सम्बद्धस्य ज्ञानेन्द्रियस्य संन्निकर्षो भवति तदा तस्मादुत्पन्नं ज्ञानं सविकल्पं भवति । अर्थात् नामजात्यादियुक्तानां पदार्थानां ज्ञानं सविकल्पं कथ्यते ।

निर्विकल्पं प्रत्यक्षम्सम्पाद्यताम्

निर्विकल्पं प्रत्यक्षं मानसप्रत्यक्षमपि कथ्यते । यदा नामजात्यादिरहितस्य पदार्थस्य प्रत्यक्षं भवति तदा तत् निर्विकल्पं भवति । अर्थात् लौकिकज्ञानातिरिक्तम् अलौकिकं ज्ञानं निर्विकल्पम् उच्यते । यति हिंसः मनसा आत्मनः संयोगात् जायमाना अलौकिकी अनुभूतिः ज्ञानेन्द्रियैः व्यक्ता न भवति, किन्तु निर्विकल्पज्ञानात्मिका प्रतीतिः जायते । विशेषेणायं योगिनां प्रत्यक्षस्य विषयोऽस्ति ।

सन्निकर्षःसम्पाद्यताम्

प्रत्यक्षम् अवगन्तुं सन्निकर्षस्य ज्ञानमप्यावश्यकं भवति । ‘सन्निकर्ष’ सम्बन्धविशेषं द्योतयति । इन्द्रियेण अर्थस्य सम्बन्धरूपः सन्निकर्षः षड्विधो भवति । तद्यथा- (१) संयोगः (२) संयुक्त-समवायः (३) संयुक्तसमवेतसमवायः (४) समवायः (५) समवेतसमवायः (६) विशेषणविशेष्य-भावश्चेति । संयोगसंनिकर्षः घटादिपदार्थानां प्रत्यक्षे भवति । संयुक्तसमवायसनिकर्षः घटादिपदार्थेषु विद्यमानस्य रूपादेः प्रत्यक्षे भवति । संयुक्तसमवेतसमवायः सन्निकर्षः रूपत्वादिधर्मस्य प्रत्यक्षे भवति । समवायः सन्निकर्षः शब्दस्य प्रत्यक्षे भवति । समवेतसमवायश्च पुनः शब्दत्वजातेः प्रत्यक्षे भवति । विशेषण-विशेष्यभावश्च घटादिपदार्थानाम् अभावस्य साक्षात्कारे भवति ।

अलौकिकसन्निकर्षःसम्पाद्यताम्

अलौकिकसन्निकर्षस्तु त्रिधा भवति (१) सामान्यलक्षणा प्रत्यासत्तिः (२) ज्ञानलक्षणाप्रत्यासत्तिः (३) योगजप्रत्यासत्तिश्च । एषु सामान्यलक्षणा प्रत्यासत्तिरेव व्याप्तिग्रहणादौ कार्ये व्याभिचारादिदोषान् अपाकरोति । यथा हि ‘यत्र यत्र धूमस्तत्र तत्र वह्निः’ इत्युदाहरणे धूमनिष्ठस्य धूमत्वस्यापि धूमज्ञानकाले एव प्रत्यक्षो भवति अतः धूमत्वज्ञाने सति त्रैकालिकधूमानां ज्ञानं भवेत् किन्तु तन्न भवति अपितु वर्तमानकालिकस्यैव घूमस्य ज्ञानं भवति, यतो हि सामान्यलक्षणप्रत्यासत्त्या सर्वेषां भूतभविष्यद्वर्तमानकालिकानां धूमानां ज्ञानात् वर्तमानकालिक-इतरकालिकधूमज्ञानानां व्यभिचारो न भवति यतो हि चक्षुरिन्द्रियेण धूमस्य प्रत्यक्षो वर्तमानमेव बोधयति ।

ज्ञानलक्षणा प्रत्यासत्तिस्तु चक्षुरिन्द्रियाणां तत्तद्विषयैः सह सम्बन्धाभावेऽपि पूर्वानुभूतस्य संस्कारवशाद् पुनर्ज्ञानं जनयति । यथा सुरभि चन्दनम् इत्यादौ चन्दनस्य प्रत्यक्षश्चक्षुरिन्द्रियेण भवति । सुरभेः ग्रहणं न पुनः चक्षुरिन्द्रियस्य विषयः । तत्तु घ्राणेन्द्रियस्य विषयोऽस्ति । किन्तु दूरस्थेऽपि घ्राणेन्द्रिये केवलं चक्षुषा चन्दनदर्शनमात्रेण तस्य सुरभेः ज्ञानं सहजरूपेण जायते यतोहि ज्ञानलक्षणप्रत्यासत्या चन्दनस्य सुरभेः यः पूर्वानुभवो विहितस्तस्य संस्कारः चक्षुःसन्निकर्षमात्रेऽपि ज्ञातुरन्तःकरणे तिष्ठति । स च अलौकिकत्वात् अयं सन्निकर्षोऽलौकिकसन्निकर्षो वर्तते ।

परोक्षस्याथवा सूक्ष्मस्य पदार्थस्य ज्ञानं इन्द्रियार्थसन्निकर्षेण नैव संभवति । तथापि परमाणुतः महत्पर्यन्तं पदार्थानां प्रत्यक्षं लोकैर्विधीयते । किन्तु इदं प्रत्यक्षं सामान्यजनेभ्यः सम्भवं नास्ति । अयं सन्निकर्षस्तु योगिजनेभ्य एव सुलभो वर्तते । यतो हि योगिनो विना इन्द्रियार्थसन्निकर्षं सूक्ष्मतमान् महत्तमान् च पदार्थान् हस्तामलकं साक्षात् कुर्वन्ति । इदं ज्ञानं योगजसन्निकर्षेणैव सम्भवमस्ति । अत एवायमपि अलौकिकसन्निकर्षः वर्तते । अत्र ध्यानमेवैकमात्रं साधनं भवति न त्विन्द्रियादिकम् अतः इन्द्रियजन्यलौकिकप्रत्यक्षवत् अस्य प्रत्यक्षो न भवति । निर्विकल्पकसमाधावपि ध्यानबलेनैव धारणायाः स्थिरत्वात् परतत्त्वसाक्षात्कारो भवति, अतः सोऽपि अलौकिकं प्रत्यक्षमेव ज्ञातव्यम् ।

अनुमानप्रमाणम्सम्पाद्यताम्

यः पदार्थः परोक्षः अदृष्टः सूक्ष्मो वा भवति, तस्य पदार्थस्य ज्ञानम् अनुमानप्रमाणेन विधीयते । येन हेतुना परोक्षवस्तुनो यथार्थानुभवो जायते स परोक्षप्रतिपादकः हेतुः यत्र वर्तते तत्प्रमाणमनुमानमिति ज्ञातव्यम् । हेतुना हेतुमतः ज्ञानमिदं वर्तते । हेतुर्लिङ्गसंज्ञयाऽपि व्यवह्रियते । लिङ्गेन लिङ्गिनो ज्ञाने या प्रक्रिया भवति सा लिङ्गपरामर्शाख्या कथ्यते, अतः लिङ्गपरामर्शोऽनुमानं भवतीति नैयायिकैः उक्तम् ।
लिङ्गपरामर्शो व्याप्तिबलेन अर्थबोधम् उपपादयति । अतः लिङ्गं व्याप्तिबलेन अर्थगमकं भवति । व्याप्तिस्तु साहचर्यनियमो भवति, यथा यत्र यत्र वह्निस्तत्र तत्र धूमः इति । धूमदर्शनात् व्याप्तिस्मरणपूर्वकं पर्वतादौ वह्नेरनुमानं क्रियते, तेन पर्वतेऽदृष्टस्य वह्निपदार्थस्य सत्ता सिद्ध्यति । इदमेव स्वार्थानुमानम् । इदमेव अनुमानं यदि प्रथमानुमात्रा अन्यस्य कृते पञ्चावयववाक्यैः कार्यते तदा तत्परार्थानुमानं भवति । पदार्थानुमानस्य प्रक्रियायां पञ्च वाक्यानि प्रयुञ्जते, यथा-
(१) प्रतिज्ञावाक्यम् – पर्वतो वह्निमान्
(२) हेतुवाक्यम् – धूमवत्त्वात्
(३) उदाहरणवाक्यम् – यत्र यत्र धूमस्तत्र तत्र वह्निर्यथा महानसे
(४) उपनयवाक्यम् – पर्वतेऽपि धूमसत्त्वाद् वह्निरेव
(५) निगमनवाक्यम् – धूमसत्त्वाद वह्निसत्त्वे पर्वतो वह्निमान् इति सुनिश्चितं भवति ।
अनुमानस्य प्रमुखे द्वे अङ्गे भवतः व्याप्तिः पक्षधर्मता च । व्याप्त्या विशिष्टस्य हेतोः पक्षे सत्तैव पक्षधर्मताऽस्ति अयमेव परामर्शः । अनुमाने हेतुदर्शनं त्रिवारं भवति । प्रथमवारं महानसे धूमदर्शनं भवति, द्वितीयवारं पर्वते धूमदर्शनं भवति, तृतीयवारमपि तत्रैव पर्वते पूर्वगृहीतव्याप्तिस्मरणेन वह्निसंसक्तस्य धूमस्य दर्शनं भवति ।

आचार्यपरम्परासम्पाद्यताम्

आचार्यगौतमःसम्पाद्यताम्

न्यायशास्त्रस्य मूलसूत्राणां प्रणयनं महर्षिणा गौतमेन कृतम् । गौतमस्यैवापरं नाम अक्षपाद इत्यासीत् । अस्य निवासस्थानविषये स्थितिकालविषये च विदुषाम् ऐकमत्यं नास्ति । इतिहासविदां मतानुसारं गौतमस्य जन्मभूमिः मिथिला आसीत् । दार्शनिकविचारधारणां पौर्वापर्यदृष्ट्या आचार्य गौतमस्य स्थितिः बौद्धानां शून्यवादस्य पश्चात् स्वीकरणीया प्रतीयते यतो हि आचार्यगौतमेन न्यायसूत्रे क्वचित् शून्यवादस्य खण्डनं विहितम् । यदि एवं मन्यते तदा गौतमस्य स्थितिकालः ईस्वीपूर्वतृतीयशताब्दी सिद्ध्यति । पाश्चात्यविद्वान् डा. छज्जूरामशास्त्री विद्याभूषणः गौतमस्य कालः षष्ठशताब्द्यामासीदीति स्वीकरोति । गौतमस्य न्यायसूत्रमेव न्यायदर्शनस्य मूलम् आधारग्रन्थोऽस्ति । न्यायसूत्रे पञ्च अध्यायाः सन्ति । प्रत्येकम् अध्यायः आह्निकद्वये विभक्तोस्ति ।न्यायसूत्रस्य प्रतिपाद्ये षोडशपदार्थानाम् उद्देश-लक्षण-परीक्षाश्च प्रस्तु्ताः सन्ति ।

आचार्य वात्स्यायनःसम्पाद्यताम्

न्यायसूत्रमवलम्ब्य वात्स्यायनेन ऋषिणा न्यायभाष्यस्य रचना कृता । वात्स्यायनस्य भाष्येण विज्ञायते यत् अस्मत्पूर्वमपि न्यायसूत्रेषु भाष्यग्रन्था विरचिताः आसन् । वात्स्यायनेन तेभ्यः उद्धरणान्यपि प्रस्तुतानि । अयं वात्स्यायनः कामसूत्रस्य कर्तुर्वात्स्यायनात् भिन्नः आसीत् । अस्य अपरं नाम पक्षिलस्वामिन् इत्यासीत् । वाचस्पतिमिश्रेण न्यायवार्तिकतात्पर्यटीकायाः प्रारम्भे वात्स्यायनस्य कृते पक्षिलस्वामिन् इति नाम्नः प्रयोगो विहितः ।
आचार्य उद्योतकरः- न्यायवार्तिककारो उद्योतकरोऽपि न्यायशास्त्रस्य आचार्येषु लब्धप्रतिष्ठ आसीत् । बौद्धदार्शनिकस्य दिङ्नागस्य प्रबलान् आक्षेपान् अयं खण्डितवान् । अतः कालान्तरे धर्मकीर्तिना दिङ्नागस्य तेषां दोषानां परिहारो विहितः, ये हि उद्योतकरेण उपस्थापिता आसन् । धर्मकीर्तेः स्थितिकालः सप्तमशताब्दी वर्तते, अतः उद्योतकारस्य कालः सप्तशताब्द्याः पूर्वं स्वीक्रियते ।

वाचस्पतिमिश्रःसम्पाद्यताम्

वाचस्पतिमिश्रः मिथिलानिवासी आसीत् । अस्य स्थितिकालविषये विवादो नास्ति यतो हि एतद्विरचिते न्यायसूचीनिबन्धग्रग्रन्थे ग्रन्थस्य रचनाकालः ९८९ विक्रमसंवत्सरः उल्लिखितः । अनेन उल्लेखेन वाचस्पतिमिश्रस्य स्थितिकालः नवमशताब्द्या स्वीकर्तुं शक्यते । वाचस्पतिमिश्रेण उद्योतकरस्य न्यायवार्तिकं विषयीकृत्य तात्पर्यटीकाया रचना कृता । अस्याः टीकायाः महत्त्वं न्यायशास्त्रे पर्याप्तं गण्यते । अस्याम् अनेकत्र बौद्धमतानां सूक्ष्मा गभीरा च समालोचना विहिता । न्यायशास्त्रमतिरिच्य सांख्य-योग-मीमांसा-वेदान्तादिष्वपि वाचस्पतेः रचनाः प्राप्यन्ते । वाचस्पतिमिश्र एव तात्पर्याचार्य नाम्ना प्रसिद्धम् अलभत ।

जयन्तभट्टःसम्पाद्यताम्

कालक्रमेण न्यायदर्शनस्य आचार्येषु जयन्तभट्टस्य स्थितिकालः वाचस्पतिमिश्रस्य अनन्तरं निर्धार्यते । कादम्बरीकथासारग्रन्थे प्राप्तेन उल्लेखेन विज्ञायते यत् जयन्तभट्टस्य प्रपितामहः शक्तिस्वामि काश्मीनरेशस्य ललितादित्य-मुक्तापीडस्य अमात्यः आसीत् । एतदाधारेण प्रायशः जयन्तभट्टस्य स्थितिकालः नवमशताब्द्या उत्तरार्द्धे स्थिरीक्रियते किन्तु जयन्तभट्टः वाचस्पतिमिश्रात् पूर्वमेव बभूव यतो हि न्यायकणिकायां वाचस्पतिमिश्रः जयन्तभट्टस्य उल्लेखं करोति । जयन्तभट्टस्य सुप्रसिद्धा रचना न्यायमञ्जरी वर्तते । प्रमुखेषु सूत्रेषु आलोचनात्मकटीकारूपेण न्यायमञ्जर्याः प्रतिपाद्यं पर्याप्तम् उपयोगि रुचिकरं च प्रतीयते । गङ्गेश उपाध्यायेन जयन्तः “जरन्नैयायिक” इति संज्ञया कथितः ।

भासर्वज्ञःसम्पाद्यताम्

न्यायशास्त्रस्य क्षेत्रे प्रकरणग्रन्थानां रचनाकारेषु अयम् आद्य आचार्योऽस्ति । मूलतः प्रकरणग्रन्थशैल्याः प्रवर्तक एवासौ आसीत् । अस्य स्थितिकालः नवम शताब्द्या स्वीक्रियते । प्रो. धर्मेन्द्रनाथशास्त्रिणा लिखितं यत् यदि न्याय-कलिका जयन्तमभट्टस्यैव कृतिरस्ति तदा तु अष्टमशताब्द्या उत्तरार्द्धे भासर्वज्ञस्य स्थितिः स्वीकर्तुं शक्यते । भासर्वज्ञस्य सुप्र-सिद्धा रचना न्यायसारः इत्यस्ति । अत्र प्रमाणमीमांसायाः प्राधान्यमस्ति । एनमाधारीकृत्यैव कालान्तरे नव्यन्यायस्य प्रणयनं विहितमस्ति गङ्गेश उपाध्यायेनापि भासर्वज्ञस्य शैल्या एवानुकरणं कृतम् ।

उदयनाचार्यःसम्पाद्यताम्

न्यायशास्त्रस्य क्षेत्रे सर्वाधिकग्रन्थानां कर्त्तृरूपेण उदयनाचार्यस्य व्यक्तित्वं स्मरणीयमस्ति । उदयनाचार्यस्य स्थितिकालः दशमशताब्द्यां स्वीक्रियते यतो हि अस्य लक्षणावलीग्रन्थे ग्रन्थरचनाकालस्योल्लेखोऽस्ति, उदयनाचार्यस्य न्यायकुसुमाञ्जलिः, आत्मतत्त्वविवेक-न्यायवार्तिकतात्पर्य-परिशुद्धिश्च प्रसिद्धा न्यायशास्त्रीया रचनाः सन्ति । उदयनाचार्येण वैशेषिकशास्त्रस्यापि ग्रन्था रचिता यतोहि अस्य कालः न्यायवैशेषिकयोः सन्धिकालः आसीत् । अस्य रचनासु न्यायकुसुमाञ्जलिस्तु न्यायदर्शनस्य मुकुटमणिरेव वर्तते यतो हि अस्यां कृतौ ईश्वरबाधकतर्काणां खण्डपूर्वकम् ईश्वरसाधकयुक्तीनाम् अपूर्वं प्रदर्शनमस्ति ।

गङ्गेश उपाध्यायःसम्पाद्यताम्

आचार्यो गङ्गेश उपाध्यायः नव्यन्यायस्य प्रणेता आसीत् अस्य जन्म मिथिलायाम् अभवत् । तत्त्वचिन्तामणि रीत्याख्यो ग्रन्थः गङ्गेश उपाध्यायस्य कालजयी कृतिरस्ति । अस्या माध्यमेन प्राचीनन्यायस्य धारा नव्यन्याये प्रवर्तिता । अस्मादेव कारणात् गङ्गेश उपाध्यायः नव्यन्यायस्य तर्कपूर्णां प्रस्तुतिं कर्त्तुम् अक्षमत । फलतः नव्यन्या-यस्य भाषागतं वैशिष्ट्यमपि पूर्वापेक्षया उल्लेखनीयम् आसीत् । गङ्गेश उपाध्यायस्य स्थितकालः श्रीहर्षपक्षधरमिश्रयोर्मध्ये निर्धार्यते अतः त्रयोदशताब्दी निश्चितो भवति, तथापि प्रो. धर्मेन्द्रनाथ शास्त्रिणो मतेन गङ्गेश उपाध्यायः द्वादशशताब्द्यां बभूव, यतो हि एकादशशताब्द्या उत्तरार्धादेव नव्यन्यायस्य युगः प्रारभ्यते ।

गङ्गेश उपाध्यायस्य अनन्तरं न्यायशास्त्रस्य क्षेत्रे ह्रासस्य युगो जायते । अस्मिन् युगे गङ्गेश उपाध्यायस्य पुत्रेण वर्धमान उपाध्यायेन कुसुमाञ्जलिं चिन्तामणिं न्यायलीलावतीं च विषयीकृत्य आलोकटीका विरचिता । पक्षधरमिश्रेण आलोकटीकाया विस्तारो विहितः । पक्षपरस्य शिष्येण रुद्रदत्तमिश्रेण कुसुमाञ्जलिप्रकाशं तत्त्वचिन्तामणिं चाधिकृत्य प्रकाशटीका विरचिता ।

पञ्चदशशताब्द्यां न्यायशास्त्रस्य प्रसारः बङ्गालप्रदेशोऽपि अभवत् । बङ्गालीयविदुषां नव्यन्यायस्य क्षेत्रे अविस्मरणीयं योगदानमस्ति अतः तेषां कालः नव्यन्यायस्य स्वर्णयुग नाम्ना प्रसिद्धिमभजत । षोडशशताब्द्याः आरम्भे वासुदेव-सार्वभौमः नव्यन्यायस्य सुप्रसिद्धः आचार्योऽभवत् । अस्य शिष्यैः रघुनाथ-रघुनन्दन-कृष्णानन्दप्रभृतिभिः नव्यन्यायस्य पर्याप्तं प्रचारः प्रसारश्च विहितौ ।

रघुनाथशिरोमणिःसम्पाद्यताम्

अस्य जन्म षोडशशताब्द्यां सञ्जातः । तात्कालिकेषु विद्वत्सु अद्वितीयेन अनेन शिरोमणिरित्यु-पाधिः सम्प्राप्तः । रघुनाथशिरोमणिना तत्त्वचिन्तामणिं विषयीकृत्य दीधितिटीका विरचिता ।

मथुरानाथ तर्कवागीशःसम्पाद्यताम्

मथुरानाथः रघुनाथशिरोमणेः प्रधानशिष्य आसीत् । अनेन स्वगुरोः दीधितिटीकामवलम्ब्य माथुरी टीका लिखिता । आलोक-चिन्तामणि-दीधितिप्रभृतिटीकाश्च लक्ष्यीकृत्य अनेन पुनः गूढार्थप्रकाशिनी रहस्यख्याश्च प्रटीकाः विरचिताः ।

जगदीशभट्टाचार्यःसम्पाद्यताम्

रघुनाथशिरोमणेः दीधितिटीकां विषयीकृत्य जागदीशी नाम्ना प्रटीका जगदीशभट्टाचार्येण विरचिता । जगदीशभट्टाचार्योऽपि नवद्वीपस्य तात्कालिकः प्रधानो नैयायिक आसीत् । अस्य स्थितिकालः सप्तदशीशताब्दी इत्यस्ति । अस्य विदुषोऽन्या रचना शब्दशक्तिप्रकाशिका वर्तते या हि न्यायशास्त्रे अद्यापि अद्वितीया कृतिर्मन्यते ।

गदाधरभट्टाचार्यःसम्पाद्यताम्

रघुनाथशिरोमणेः दीधितिटीकामवलम्ब्य गादाधरीनाम्ना प्रटीका गदाधरभट्टाचार्येण विरचिता । आत्मतत्त्वविवेकं, तत्त्वचिन्तामणिं चापि विषयीकृत्य अनेन स्वतंत्रटीकाग्रन्था रचिताः । अस्य कृतित्वसन्दर्भे एषा जनश्रुतिरस्ति यदनेन नव्यन्यायविषये द्वीपञ्चाशद् ग्रन्थानां रचना विहिता । व्युत्पत्तिवादः, शक्तिवादश्चापि गदाधरस्यैव रचनाद्वयं वर्तते । यद्यप्येतदुपरान्तमपि नव्यन्यायस्य ग्रन्थरचनायाः कार्यं धारावाहिकरूपेण सञ्जातम् तथापि प्रचारप्रसारयोरभावे न्यायशास्त्रस्य दुरूहता समृद्धाऽभवत् अतः कालान्तरे न्यायस्य विकासोऽवरुद्धः ।

नव्यन्यायःसम्पाद्यताम्

न्यायदर्शनं द्विविधम् । प्राचीनन्यायः नव्यन्यायः इति । नव्यन्यायस्य विवरणम् अत्र विद्यते ।
द्रव्यं गुणस्तथाकर्म सामान्यं सविशेषकम्।
समवायस्तथाभावः पदर्थाः सप्तकीर्तिताः॥
अनया कारिकया ज्ञायते सप्तपदार्थाः सन्ति इति । अत्र कश्चन प्रश्नः, शक्तिसादृश्याद्याः अतिरिक्ताः पदार्थाः सन्ति इत्यतः सप्तैव पदार्थाः कथम् ? तत्तत्पदार्थनिष्ठशक्तीनां तत्तत्पदार्थेष्वन्तर्भाव इति नास्ति शक्तिरतिरिक्तः कश्चित् पदार्थः । एवं सादृश्यं हि नाम तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्, यथा- ’चन्द्रवन्मुखम्’ इत्यत्र चन्द्रभिन्नत्वे सति चन्द्रगताऽह्लादकत्वादिमत्त्वं मुखे चन्द्रसादृश्यम् । एवञ्च भिन्नत्वं= भेदः, तस्य अन्योन्याभावे अन्तर्भावः । आह्लादकत्वस्य सुखरूपत्वेन गुणान्तर्भावः । एतदाद्यतिरिक्तस्य च सादृश्यस्याऽभावात् न पदार्थान्तरत्वमिति दिक् ।

पदार्थाःसम्पाद्यताम्

द्रव्यम् गुणः कर्म
सामान्यम् विशेषः समवायः
अभावः

द्रव्याणिसम्पाद्यताम्

न्यायनये नव (९) द्रव्याणि उक्तानि । अत्र पूर्वपक्षिणां मिमांसकानां प्रश्नः, तमसः दशमद्रव्यत्वमाशङ्क्य कथं नवैव इति ? अयमत्र पूर्वपक्षसङ्ग्रहः-
तमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धद्रव्यवैधर्म्यात् नवभ्यो भेत्तुमर्हति ॥ इति चेत्,
तमो आलोकाभावः एव । अतः अस्य अभावे अन्तर्भावः इति । अत्र कारिकाया एवं निरूपितम् अस्ति तमसो दशमद्रयं न इति, तद्यथा-
आलोकाभाव एवेदं तमो द्रव्यं न तु स्वयम् ।
नील-क्रिया-प्रतीतिस्तु भ्रान्तिरेव मन्यताम् ॥ इति

पृथिवी आपः तेजः
वायुः आकाशः कालः
दिक् आत्मा मनः

गुणाःसम्पाद्यताम्

न्यायनये चतुर्विंशतिः (२४) गुणाः उक्ताः सन्ति ।

रूपम् रसः गन्धः स्पर्शः
संख्या परिमाणः पृथक्त्वम् संयोगः
विभागः परत्वम् अपरत्वम् गुरत्वम्
द्रवत्वम् स्नेहः शब्दः बुद्धिः
सुखम् दुःखम् इच्छा द्वेषः
प्रयत्नः धर्मः अधर्मः संस्कारः

कर्माणिसम्पाद्यताम्

न्यायनये पञ्चकर्माणि उक्तानि ।

  • उत्क्षेपणम्
  • अपक्षेपणम्
  • आकुञ्चनम्
  • प्रसारणम्
  • गमनम्

सामान्यम्सम्पाद्यताम्

  • परम्
  • अपरम्

वेशेषःसम्पाद्यताम्

  • विशेषाः अनन्ताः ।

समवायःसम्पाद्यताम्

  • समवायस्तु एकः एव ।

अभावःसम्पाद्यताम्

  • प्रागभावः
  • प्रद्ध्वंसाभावः
  • अत्यन्ताभावः
  • अन्योन्याभावः

ग्रन्थाःसम्पाद्यताम्

दार्शनिकाःसम्पाद्यताम्

अध्ययनकेन्द्राणिसम्पाद्यताम्

नाम राज्यम् सङ्केतः
राष्ट्रियसंस्कृतसंस्थानम्
http://www.sanskrit.nic.in
देहली (दशराज्येषु अस्ति) राष्ट्रिय संस्कृत संस्थान

मा. स. वि. मन्त्रालय के अन्तर्गत स्थापित 56-57 इन्स्टीट्यूशनल एरिया जनकपुरी नई दिल्ली - 110 058 ई-मेल: rsks@nda.vsnl.net.in

राष्ट्रियसंस्कृतविद्यापीठम्
http://www.rsvidyapeetha.ac.in
आन्ध्रप्रदेशः तिरुपतिः-५१७५०७. आन्ध्रप्रदेशः
श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविद्यापीठम्
http://www.slbsrsv.ac.in
देहली बि-४, कुतुब् इन्स्टिट्युशनल् येरिया, नवदेहली -११००१६

अाधाराःसम्पाद्यताम्

  1. "प्रमाण-प्रमेय-संशय-प्रयोजन-दृष्टान्त-सिद्धान्त-अवयव-तर्क-निर्णय-वाद-जल्प-वितण्डा-हेत्वाभास-च्छल-जाति-निग्रहस्थानानां तत्त्वज्ञानात् निश्रेयसाधिगमः", -न्यायसूत्रम्, गौतमः, १-१-१ ।
  2. न्यायसूत्रम्, गौतमः, १-१-३
  3. न्यायसूत्रम्, गौतमः, १-१-४
  4. न्यायसूत्रम्, गौतमः, १-१-५
  5. न्यायसूत्रम्, गौतमः, १-१-६
  6. न्यायसूत्रम्, गौतमः, १-१-७
  7. न्यायसूत्रम्, गौतमः, १-१-९
  8. न्यायसूत्रम्, गौतमः, १-१-२३
  9. न्यायसूत्रम्, गौतमः, १-१-२४
  10. न्यायसूत्रम्, गौतमः, १-१-२५
  11. न्यायसूत्रम्, गौतमः, १-१-२६
  12. न्यायसूत्रम्, गौतमः, १-१-३२
  13. न्यायसूत्रम्, गौतमः, १-१-४०
  14. न्यायसूत्रम्,गौतमः, १-१-४१
  15. न्यायसूत्रम्, गौतमः, १-२-१
  16. न्यायसूत्रम्, गौतमः, १-२-२
  17. न्यायसूत्रम्, गौतमः, १-२-३
  18. न्यायसूत्रम्,गौतमः, १-२-१०
  19. "तत्त्रिविधं वाक्छलं सामान्यच्छलमुपचारच्छलं च" -न्यायसूत्रम्, गौतमः, १-२-११
  20. न्यायसूत्रम्, गौतमः, १-२-१८
  21. न्यायसूत्रम्, गौतमः, १-२-१९

बाह्यानुबन्धःसम्पाद्यताम्

"https://sa.wikipedia.org/w/index.php?title=न्यायदर्शनम्&oldid=422145" इत्यस्माद् पुनः प्राप्तिः