शब्द- अर्थ –गुण् –रीति –वृत्ति –अलङ्कार – रस भावादीनां काव्यसमाग्रीशब्देन व्यवहारो भवति । शब्दादीनां निर्दोषत्वे एव काव्यस्य परमप्रयोजनभूतं रसानन्दं साधयितुं ते प्रभवन्ति । दीपस्य समीपे अधोदेशे यथा छाया समाक्रम्य तिष्ठति, तथा सर्वान् काव्यांशान् आवृत्य दोषाः प्रवर्तन्ते प्रायशः । तान् दोषान् सर्वान् अपनुद्य काव्य मनवद्यं विधातुं दोषाणामपि स्वरुपं परिपूर्णतया वेदितव्यं भवति । प्राचीनाः केचिदालङ्कारिकाः, अदोषौ सगुणौ सालङ्कारौ शब्दार्थौ काव्यम् इति काव्यलक्षणं व्याचख्युः । तेषां मते गुणसाहित्यमिव दोषराहित्यमपि काव्येऽवश्यमपेक्षितमस्ति । दण्डी तु –

तदल्पमपि नोपेक्ष्यं काव्ये दुष्टं कथञ्चन
स्याद्वपु स्सुन्दरमपि श्वित्रेणैकेन दुर्भगम्

इत्युक्त्वा काव्ये दोषाणामल्पानामपि स्थानं नास्तीति समुद्घोषयत् । अयमतिवाद इवाभाति । यतस्तादृशं काव्यमलभ्यमेव स्याद्यत्र दोषलेशस्पर्शाऽपि न भवेत् । महाकविनामपि काव्येषु तत्र तत्र दोषलेशा स्संदृश्यन्त एव । तावन्मात्रेण तानि महाकाव्यान्यकाव्यानीति वक्तुं न शक्यते । तेषु काव्येषु दोषमल्पमाच्छादयितुं समर्थं रसवत्त्वमपि सन्निहितमवश्यं भवेत् । ततश्च ये दोषा रसस्यापकर्षं साधयितुमसमर्थाः ते दोषा काव्यत्वमपि नाशयितुमसमर्था इत्येव विभावनीयम् । एवञ्च रसापकर्षसाधकादोषा एव वस्तुतो दोष पदवाच्या इति ज्ञायते । अत एव साहित्यदर्पणकारो विश्वनाथः, रसापकर्षका एव दोषा भवन्तीति दोषान् व्याचख्यौ । भरतो गुणानां निर्वचनं कुर्वन् – दोषविपर्ययात्मानो गुणाः – इति प्रत्यपादयत् । वामनस्तु निर्वचनं पूर्वोक्तं विपर्यस्य गुणविपर्ययात्मानो दोषाः इति व्याख्यातवान् । परं दोषेषु न केवलं गुणविपर्ययभूता एव दृश्यन्ते, केचित् केवलदोषा अपि दृश्यन्ते । अतो वामनस्य दोषनिर्वचनमसमग्रं प्रतिभाति ।

विद्यानाथस्तु – दोषः काव्यापकर्षस्य हेतुश्शब्दार्थगोचरः - इति निरवोचत् । यावच्छब्दार्थगतो दोषः काव्यापकर्षजनकस्तावत् रसापकर्षकोऽवश्यं दोषो भवतीति पुनर्न वक्तव्यं भवति । वस्तुतो रसापकर्षक एव प्रधानो दोषो भवति सर्वथा परित्याज्यश्च । शब्दमात्रसम्बन्धिनो दोषाश्शब्ददोषा भवन्ति । तत्र दुष्टस्य शब्दस्य परिवर्तनेनैव स दोषोऽपगच्छति । अर्थसम्बन्धिनो दोषा अर्थदोषा उच्यन्ते । एषु समानार्थकस्य शब्दान्तरस्य निवेशेन दोषो नापगच्छति । यत अर्थदोषः शब्देन सर्वथा न सम्बध्दो भवति । अर्थस्य विपरिवर्तनेनैव स दोषोऽपगच्छति ।

अर्वाचीनाः केचिदालङ्कारिकाः मुख्यार्थहतिं दोषपदार्थं मेनिरे । को नाम मुख्यार्थ इति विचार्य काव्यात्मभूतो रस एव मुख्यार्थ इति तदाश्रयतया वाच्यार्थोऽपि मुख्यार्थो भवितुमर्हतीति च व्याचख्युः । रसमये काव्ये रस एव काव्योद्देश्यभूतः । नीरसे तु काव्ये चमत्कारजनको वाच्यार्थ एव प्रधानो भवति । इति र्नामापकर्षः । ततश्च उददेश्यभूतयोः रसवाच्यार्थयो रसापकर्षजनका दोषा भवन्तीति पर्यवसितम् । उपर्युक्तं दोष निर्वचनमपि उद्देश्य प्रतीति विघातको दोष इति रुपेण प्रतिपादितम् । अयमपकर्षो रसवाच्यार्थयोरिव तदुपकारकेषु शब्देषु वर्णेषु रचनादिषु चावतिष्ठते । अत एव साहित्यदर्पणकारः, दोषाः पदे पदांशे वाक्ये रसे चाऽपि भवितु मर्हन्तीति, प्रत्यपादयत् ।

साहित्यदर्पणप्रोक्ता दोषा अत्र नाम्ना केवलं प्रस्तूयन्ते । तल्लक्षणानि तु तत एव ग्राह्यानि भवन्ति ।

पदवाक्यदोषाः

सम्पादयतु

अत्रच पदवाक्यदोषाः निर्दिष्टाः ।

  • दुश्श्रवत्वम्
  • त्रिविधा अश्लीलता
  • अनुचितार्थता
  • अप्रयुक्तता
  • ग्राम्यता
  • अप्रतीतत्वम्
  • सन्दिग्धता
  • नेयार्थता
  • निहतार्थता
  • अवाचकता
  • क्लिष्टत्वम्
  • विरुध्दमति कारित्वम्
  • अविमृष्टविधेयांशता
  • निरर्थकता
  • असमर्थता
  • च्युतसंस्कारत्वम्

दोषाणां संख्याविषये मतभेदास्सन्ति । भरतो दोष विपर्ययात्मानो गुणा इति वर्णयन् दोषाणां प्राधान्यं संसूच्य शब्दार्थगत विभागमकृत्वा दशदोषान् प्रत्यपादयत् । दण्डी अपि तथैव दशदोषा नवोचत् । परं भरताभिमतानां दोषाणां दण्डिप्रोक्तानां च दोषाणां च मध्ये नाम्नि निर्वचने च भेदो दृश्यते । वामनस्तु काव्यसौन्दर्यापकर्षहेतून् दोषा नभावयत् । तेन दशशब्ददोषाः दशैवार्थदोषाश्च प्रतिपादिताः । भामहो भरतप्रोक्तानां दशदोषाणां, अपरा नेकादशदोषान् मेलयित्वा, एकविंशतिदोषान् कथयामास । रुद्रटस्य मते शब्दार्थगतत्व भेदेन दोषाः द्विविधा भवन्ति । शब्ददोषेषु पदगताष्षट्, वाक्यगतास्त्रयः, अर्थदोषेषु केवलार्थदोषानव उपमादोषाश्चत्वारः, आहत्य द्वाविंशतिदोषा रुद्रटेन प्रतिपादिताः ।

पूर्वलाक्षणिकाः शब्दार्थदोषान्, अलङ्कारदोषांश्च मिश्रयित्वा दोषसंख्यामवर्धयन्निति प्रतीयते । ध्वनिसिध्दान्तस्य प्रचारानन्तरं, गुणा रसोत्कर्षस्य, दोषा रसापकर्षस्य च हेतुभूता इति सिध्दान्तः परिव्याप्तो दृश्यते । अर्वाचीना लाक्षणिकाः शब्दार्थदोषैः सह रसदोषान् मेलयित्वा त्रिविधा अप्येते दोषा रसभञ्जका भवन्तीति व्याचख्युः । तेषु केचित् सूक्ष्मतरमपि विभागं विधाय, पद् –पदांश- वाक्य-वाक्यार्थ- रसदोषात्मना दोषाणां पञ्चविधत्व मङ्गीचक्रुः । प्रतापरुद्रीये षष्टिसंख्याका दोषाः प्रोक्ताः । तेषु पददोषाः १७, अर्थदोषाः १८, वाक्यदोषा २४, रसदोषः १ (रसभावादीनां स्वशब्दवाच्यता रुपः), एवं षष्टिदोषाः प्रतिपादिताः । काव्यप्रकाशे पुनः, पददोषाः १७, वाक्यदोषाः १६, अर्थदोषाः २३ रसदोषाः १०, आहत्य षट्षष्टिदोषाः प्रोक्ताः । साहित्यदर्पणे तु, पदवाक्यदोषाः १६, वाक्यमात्रदोषाः २३, अर्थदोषाः २१, रसदोषाः १५, आहत्य पञ्चसप्ततिदोषा व्याख्याताः । अत्र प्रोक्तैर्दोषैस्सह केचिदलङ्कारदोषा अपि प्रतिपादिताः । एवमन्येऽपि दोषा यथा सम्भवमूह्या इति, औचित्यमनुसृत्य सन्दर्भानुगुणतया परिशीलने केषांचित् दोषाणामदोषत्वं, गुणत्वं अनुभयात्मकत्वं च सम्भवतीति साहित्यदर्पणकारस्समभावयत् ।

सर्वे दोषा नित्या अनित्याश्चेति द्विधा विभक्तुं योग्या भवन्ति । च्युतसंस्कारादयो दोषास्सर्वदा दोषा एवेति ते नित्यदोषा भवन्ति । एते च न केनापि प्रकारेण दोषभिन्ना भवन्ति । अनित्यदोषास्तु सर्वदा दोषा न भवन्तीति कदाचिदेषां गुणत्वमपि भवितुमर्हति । पारुष्यदोषः श्रृङ्गारादिषु दोष एव, रौद्रादिषु पुनस्स एव गुणो भवति । अप्रयुक्तादयो दोषाः श्लेषाद्यलङ्कारेषु दोषा न भवन्ति । ततश्चैतादृशा दोषा अनित्यदोषा भवन्ति । लाक्षणिकोक्तेषु दोषेषु बहवो दोषा अनित्या एव ।

वाक्यमात्रदोषाः

सम्पादयतु
१)अक्षरप्रतिकूलत्वम् २) लुप्तविसर्गत्वम् ३) अहतविसर्गत्वम्
४) अधिकपदत्वम् ५) न्यूनपदत्वम् ६) कथित पदत्वम्
७) अहतवृत्तता ८) पतत्प्रकर्षत्वम् ९) सन्धिविश्लेषता
१०) अश्लीलता ११) कष्टत्वम् १२) अर्थान्तरैकपदत्वम्
१३) समाप्तपुनरात्तता १४) अभवन्मतसम्बन्धः १५) अक्रमत्वम्
१६) अमतपदार्थता १७) वाच्यानभिधानत्वम् १९) प्रसिध्दित्यागः
२०) अस्थानस्थपदत्वम् २१) अस्थानस्थ समासत्वम् २२) सङ्कीर्णता
२३) गर्भितत्वम् ।

अर्थदोषाः

सम्पादयतु
१) अपुष्टत्वम् २) दुष्क्रमता ३) ग्राम्यता
४) व्याहतत्वम् ५) अश्लीलत्वम् ६) कष्टत्वं
७) अनवीकृतत्वम् ८) निर्हेतुत्वम् ९) प्रकाशित विरुध्दता
१०) सन्दिग्धता ११) पुनरुक्तत्वम् १२) प्रसिध्दविरुध्दता
१३) विद्याविरुध्दता १४) साकांक्षता १५) सहचर भ्राष्टता
१६) अस्थानयुक्तता १७) अविशेषविशेषत्वम् १८) अनियमनियमत्वम्
१९) विशेषाविशेषत्वम् २०) नियमानियमत्वम् २१) निर्मुक्तपुनरुक्तत्वम्

रसदोषाः

सम्पादयतु
१) रसस्य स्वशब्द वाच्यता २) स्थायिभावस्य स्वशब्दवाच्यता ३) सञ्चारिभावस्य स्वशब्द वाच्यता
४) विरोधिरसाङ्गभूतानां विभावादीनां परिग्रहः ५) अनुभावविभावाक्षेपः ६) अनुभाव विभावकष्टकल्पनम्
७) अकाण्ड प्रधानता ८) अकाण्डच्छेदता ९) रसस्य पुनः पुन र्दीपनम्
१०) अङ्गिरसस्याऽपरिपोषः ११) अनङ्गिभूतस्य रसस्य परिकीर्तनम् १२) अङ्गि रसस्य अतिविस्तृतिः
१३) दिव्याऽदिव्यप्रकृति विपर्ययः १४) अर्थानौचित्यम् १५) देशकालाद्यनौचित्यम्

यद्यपि सर्वथा निर्दोषस्य काव्यस्य विरचनं दुर्घटं, तथापि यावच्छक्ति दोषान् परित्यज्य रसवत रसवतः काव्यस्य निर्माणे यत्नो विधेय इत्यत्र नास्ति संशयलेशः । सर्वेऽपि दोषाः परिहरणीया स्तत्राप्यनौचित्यं परमो दोषः । अत एवानौचित्यादृते रसभङ्गस्य कारण मन्यत् नास्तीति ध्वन्यालोके आनन्दवर्धन स्समुदघोषयत् ।

सम्बद्धाः लेखाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=काव्यदोषाः&oldid=419111" इत्यस्माद् प्रतिप्राप्तम्