११.४६ किरीटिनं गदिनं...
(किरीटिनं गदिनं - 11.46 इत्यस्मात् पुनर्निर्दिष्टम्)
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव ।
- तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य षड्चत्वारिंशत्तमः(४६) श्लोकः ।
पदच्छेदः
सम्पादयतुकिरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुम् अहं तथा एव तेन एव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
अन्वयः
सम्पादयतु(हे) सहस्रबाहो ! विश्वमूर्ते अहं किरीटिनं गदिनं चक्रहस्तं त्वां तथा एव द्रष्टुम् इच्छामि । चतुर्भुजेन तेन रूपेण एव (उपलक्षितः) भव ।
शब्दार्थः
सम्पादयतु- विश्वमूर्ते = विश्वाकार !
- अहं किरीटिनम् = अहं मुकुटधारिणम्
- गदिनम् = गदाधरम्
- चक्रहस्तम् = चक्रपाणिम्
- त्वाम् = त्वाम्
- तथा एव = तेन एव प्रकारेण
- द्रष्टुम् = विलोकितुम्
- इच्छामि = अभिलषामि
- सहस्रबाहो = सहस्रहस्त !
- चतुर्भुजेन = चतुर्हस्तेन
- रूपेण एव (उपलक्षितः) = आकारेण एव विशिष्टः
- भव = वर्तस्व ।
अर्थः
सम्पादयतुविश्वाकार ! किरीटधारित्वेन गदाधारित्वेन चक्रपाणित्वेन च यत् सौम्यं रूपं पूर्वं मां प्रदर्शितवान् असि तदेव रूपं सम्प्रति द्रष्टुमिच्छामि । हे सहस्रबाहो ! तेनैव रूपेण आविर्भव ।