कुक्केसुब्रह्मण्यम्
कुक्केसुब्रह्मण्यम् (Kukke Subramanya Temple) कर्णाटकस्य दक्षिणकन्नडमण्डले विद्यमानं किञ्चन प्रसिद्धं तीर्थक्षेत्रम् । एतत् पुराणानुसारं कुक्केपदृणं परशुरामक्षेत्रं स्कन्दक्षेत्रम् इति च प्रसिद्धम् अस्ति । एतत् क्षेत्रं कुमारपर्वतशेषपर्वतयोः मध्ये स्थितम् अस्ति । अस्य क्षेत्रस्य अधिपतिः पावनमूर्तिः श्रीसुब्रह्मण्यस्वामी ।
कुक्केसुब्रह्मण्यम् | |
---|---|
मन्दिरस्य गॊपुरम् | |
राष्ट्रम् | भारतम् |
राज्यानि | कर्णाटकराज्यम् |
भाषाः | |
• अधिकृत | कन्नडभाषा |
• भाष्यमानाः भाषाः | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
पत्रालयकूटसंख्या |
576 101 |
ISO 3166 code | IN-KA-UD |
साक्षरतापरिमाणम् | 81.25% |
Precipitation | 4,302 मिलीमीटर (169.4 इंच) |
अत्रत्या पवित्रनदी '''कुमारधारा''' । प्रतिदिनं भक्तजनाः अत्र आगत्य स्कन्दस्य पूजां सर्पसंस्कारादिकं च कुर्वन्ति । समीपे आदिसुब्रह्मण्यम् इति क्षेत्रम् अस्ति । जनाः तत्रत्यस्य वल्मीकस्य दर्शनं कुर्वन्ति । अत्र मध्वसम्प्रदायानुसारी कश्चनः मठः अस्ति । अत्र श्रीनरसिंहदेवस्य विग्रहः अस्ति । श्रीमठस्य यतिपरम्परायाः वृन्दावनानि अपि सन्ति ।
मार्गः
सम्पादयतुपुत्तूरुतः ३३ कि.मी ।
- सुळ्यतः ४५ कि.मी।
- मङ्गळूरुतः ५५ कि.मी ।
यानव्यवस्था
सम्पादयतुबेङ्गळूरुतः लोकयानव्यवस्था अस्ति।
- रैल् मार्गः-सामान्यतः २० कि.मी दूरे सुब्रह्मण्यं रोड् नामकं निस्थानकं वर्तते ।
वसतिः
सम्पादयतुदेवालयस्य यात्रीवासाः सन्ति ।
बाह्यानुबन्धाः
सम्पादयतु- Know more about this Temple Archived २०१४-०८-०१ at the Wayback Machine
- ↑ १.० १.१ "Know India - Karnataka". Government of India. आह्रियत 6 December 2010.
- ↑ GRIndia