वेदकालः
(क्रि पू १९०० तः ५००)
वेदानां रचना वैदिकसंस्कृतेः काले एव वैदिकसंस्कृतेन कृता । वेदाः एव जगति अत्यन्तं प्राचीनाः ग्रन्थाः । तदानीन्तनसंस्कृतिः इण्डो-आर्यन्मूलीया आसीत् । वेदकालस्य आरम्भे तदानीन्तनेन समाजेन पशुपालनमेव अवलम्बितम् आसीत् । ऋग्वेदकालानन्तरं तदानीन्तनः समाजः कृषिविषये लक्ष्यम् अददात् । तदा वर्णाश्रमपद्धतिः आसीत् । कालक्रमेण लघुराज्यानां मेलनेन कुरु-पाञ्चालसदृशानि महाराज्यानि उदितानि । हिन्दुधर्मस्य प्रधानग्रन्थानां रामायण-महाभारत-भगवद्गीतादीनां रचना अपि तदा एव मुखोक्तरीत्या जाता इति उच्यते । अथर्ववेदस्यापि रचना अस्मिन्नेव काले जाता इति ज्ञायते । अनन्तरं क्रि पू ६ शतके नगरीकरणम् अफघानिस्थानतः बङ्गालपर्यन्तं व्याप्तम् । तदवसरे गङ्गानद्याः उपत्यकायां दख्खनीप्रदेशे च अनेकानि राज्यानि उदितानि । तेषु १६ राज्यानि "महाजनपदाः" इत्युच्यन्ते । तावत्पर्यन्तः कालः "वेदलकालः" इति, तदानीं तत्रत्ये समाजे या संस्कृतिः आसीत् सा "वेदकालीनसंस्कृतिः" इति च उच्यते ।