कुसुमितलतावेल्लिता
कुसुमितलतावेल्लिता।
प्रतिचरणम् अक्षरसङ्ख्या 18
स्याद्भूतर्त्वश्वै: कुसुमितलता वेल्लिता म्तौ नयौ यौ । केदारभट्टकृत-वृत्तरत्नाकर:३.९७
ऽऽऽ ऽऽ। ।।। ।ऽऽ ।ऽऽ ।ऽऽ
म त न य य य।
यति: पञ्चभि: षड्भि: सप्तभि:च।
उदाहरणम् -
धर्मग्लानिर्वापि बलवदधर्मो यदा जायते च,
तस्मिन्नात्मानमवसृजाम्यव्ययोऽजोऽपि चाहम्।
साधूनां रक्षां खलविदलनं धर्मसंस्थापनं च,
कर्तुं मे दिव्यं जननमपि कर्मेति बुद्ध्वा विमुक्ति:॥