कूडली
कूडली (Koodli) कर्णाटकराज्ये शिवमोग्गमण्डले विद्यमानं किञ्चन क्षेत्रम् । अत्र तुङ्गानद्याः भद्रानद्याः च सङ्गमः भविष्यति । ततः तुङ्गभद्रानद्याः उगमः ।
कूडली | |
---|---|
ग्रामः | |
राष्ट्रम् | भारतम् |
राज्यानि | कर्णाटकराज्यम् |
भाषाः | |
• अधिकृत | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीय सामान्यकालमानम्) |
महत्त्वम्
सम्पादयतुप्राचीनकालस्य सङ्गमेश्वरदेवालयः, सङ्गमः, परिसरस्य नयनमनोहरं दृश्यं च अस्य प्रदेशस्य शोभाम् अवर्धयन् । अत्रत्यः रङ्गनाथस्वामिदेवालयः अपि जनप्रियः । सङ्गमस्थाने लघुः नन्दीदेवालयः विद्यते । अयं लघुः देवालयः सङ्गमस्थानं सूचयति । सङ्गमेश्वरदेवालयस्य महान् इतिहासः विद्यते । अयं देवालयः होय्सळकालीनः इति श्रूयते । प्राचीनैः शिल्पकलाभिः विराजमानः अयं देवालयः कूडलीक्षेत्रस्य प्रमुखेषु आकर्षणेषु अन्यतमः । १२ शतके निर्मितः रामेश्वरदेवालयः क्षेत्रस्य सांस्कृतिकसौन्दर्यं वर्धयति । सङ्गमेश्वरदेवालयस्य समीपे नरसिंहदेवालयः विद्यते । अयं देवालयः प्रह्लादेन प्रतिष्ठापितं पूजितञ्च इति विश्वस्यते ।
मठौ
सम्पादयतुकूडलीक्षेत्रे मठद्वयं विद्यते । अद्वैततत्त्वोपासकः शङ्करमठः, द्वैततत्त्वोपासकः अक्षोभ्यतीर्थमठः ।
शङ्करमठः
सम्पादयतुशङ्करतत्त्वानाम् अध्ययनाय प्राचीनभारतीयपरम्परानुगुणं विद्यते कूडलीमठः । अस्य प्राचीनः इतिहासः एवमस्ति - १५ / १६ शतके कदाचित् शृङ्गगिर्याः ज्येष्ठः मठाधिपतिः तीर्थयात्रां प्रति गतः आसीत् । दीर्घकालं यावत् तेन न प्रत्यागतम् इत्यतः कनीयान् स्वामी पीठारोहणम् अकरोत् । किन्तु ज्येष्ठः मठाधिपतिः ततः केषाञ्चन दिनानाम् अनन्तरं शृङ्गगिरिं प्रत्यागतवान् । किन्तु स्वस्य शिष्यः एव यत्र पीठारोहणं कृतवान् आसीत् तत्र प्रवेशः अनुचितः इत्यतः सः शृङ्गेरीतः आगत्य तुङ्गभद्रयोः सङ्गमस्थाने कूडलीक्षेत्रे स्वीयं मठं संस्थापितवान् । अयं कूडलीमठः इति प्रसिद्धः जातः । १९०० तमे वर्षे नूतनः यतिवरः पीठाधिपतिः जातः । सः पूर्वं मैसूरुमहाराजस्य कृष्णराज ओडेयरस्य गुरुः आसीत् इत्यतः मठस्य भूयान् प्रगतिः जाता । तदनन्तरम् आगताः सर्वेपि यतिवराः स्वीयया प्रतिभया परिश्रमेण च मठस्य उन्नतिम् असाधयन् ।
आर्य अक्षोभ्यतीर्थमठः
सम्पादयतुअयं मठः १३ / १४ शतके अक्षोभ्यतीर्थेन (मध्वाचार्यस्य प्रमुखः शिष्यः) संस्थापितम् । अयं मठः संस्कृतस्य मध्वतत्त्वस्य शिक्षणे प्रसिद्धः वर्तते । समृद्धः सम्प्रदायः विद्यते अत्र । एतावता त्रयः पीठाधिपतयः आसन् । श्री रघुविजयतीर्थः इदानीन्तनः पीठाधिपतिः ।
मार्गसूची
सम्पादयतुकूडलीक्षेत्रं शिवमोग्गनगरतः १५ कि मी मिते दूरे विद्यते । समीपस्थं नगरं होळेहोन्नूरु यच्च २ कि मी दूरे विद्यते । शिवमोग्गतः लोकयानानि उपलभ्यन्ते ।
वीथिका
सम्पादयतु-
सङ्गमस्थाने होय्सळशैल्या निर्मितः रामेश्वरदेवालयः
-
रामेश्वरदेवालयस्य गर्भगृहस्य प्रवेशद्वारम्
-
रामेश्वरदेवालयस्य अन्तः लघु गर्भगृहम्
-
रामेश्वरदेवालयस्य अन्यद् दृश्यम्
-
रामेश्वरदेवालयस्य अन्तर्भागः
-
देवालयत् बहिः विद्यमानः मण्डपः