कृपः
बाल्यम्
सम्पादयतुएषः कश्चन ब्राह्मणः । गौतमवंशस्य शरद्वान् नामक मुनिः यदा तपोनिरतः आसीत् तदा इन्द्रः तस्य तपोभङ्गार्थं जालवति (जानपदि) नामिकाम् अप्सरसं प्रेषयति । शरद्वान् तां दृष्ट्वा मोहितः अभवत् । शरवणे एव तस्य वीर्यस्खलनम् अभवत् । अनुक्षणम् एव बालबालिकायोः जननमभवत् । तस्मिन् समये एव भीष्मस्य पिता शन्तनु चक्रवर्ती मृगयार्थं वनमागतवान् आसीत् । कृपाभरितः सः शिशू स्वीकृत्य नगरम् आगतवान् । बालाय कृपः, बालिकायै कृपी च इति नामकरणं कृत्वा पालितवान् ।
जीवनम्
सम्पादयतुकिञ्चित्कालानन्तरं शरद्वान् शन्तनोः समीपम् आगत्य तौ बालौ स्वस्य एव इत्युक्त्वा कृपाय उपनयनसंस्कारं कृत्वा धनुर्विद्यारहस्यम् उपदिश्य तम् अस्त्रविद्याविशारदं कृतवान् । अनन्तरं कृपाचार्यः पाण्डवानां, कौरवाणां च धनुर्विद्यागुरुः आसीत् । एषः रुद्रगणांशसम्भूतः । शन्तनोः अनन्तरमपि भीष्मस्य आश्रये स्थित्वा पाण्डवेषु अभिमानभरितः चेदपि भीष्मः इव कौरवपक्षे आसीत् । उत्तरगोग्रहणसन्दर्भे कर्णं बहु निन्दयति । भारतयुद्धे कौरवाणां पक्षतः युद्धं कृत्वा अर्जुनात् पराजयं प्राप्तवान् । एषः अर्जुनस्य श्लाघनं कृतवान् ।
द्रोणस्य मरणानन्तरं दुर्योधनः कर्णाय सेनाधिपतेः दायित्वं दत्तवान् । तदा कृपः सेनाधिपतिः भवितुम् अश्वत्थामा एव योग्यः, कर्णस्य सा योग्यता नास्ति इति यदा कर्णस्य तिरस्कारं करोति तदा कर्णः एतस्य जिह्वाकर्तनस्य प्रतिज्ञां कृतवान् । पाण्डवसेनाधिपतिं धृष्टद्युम्नं युद्धे जितवान् । भारतयुद्धस्य १८ दिने दुर्योधनस्य मरणानन्तरम् अश्वत्थामा रात्रौ पाण्डवानां शिबिरं गत्वा तान् यदा मारयति तदा एषः अश्वत्थामानं बहुबुद्धिवादं वदति । महाभारतस्य युद्धानन्तरं कौरवसेनासु अवशिष्टेषु त्रिषु एषः अन्यतमः । कृतवर्मा, अश्वत्थामा, कृपः च । युधिष्ठिरस्य राज्याभिषेकस्य अनन्तरमपि एषः पाण्डवानाम् आश्रये आसीत् । शरद्वतः पुत्रः इति कारणेन एतं शारद्वत इति, गौतमवंशस्थः इति कारणेन गौतमः इत्यपि एतस्य नामानि सन्ति । एषः परीक्षितस्यापि अस्त्रविद्यायाः गुरुः आसीत् ।