गौतमः

न्यायसूत्राणां रचनकारः

गौतमः न्यायसूत्राणां रचयिता । गौतमस्य अपरं नाम 'अक्षपादः' इति । न्यायदर्शनस्य आधारः न्यायसूत्राणि एव । अतः न्यायदर्शनस्य अपरं नाम ’अक्षपाददर्शनम्’ इति । वेदाः, उपनिषदः, महाभारतम् इत्यादिषु ग्रन्थेषु यद्यपि तर्कशास्त्रस्य मूलभूताः अंशाः दृश्यन्ते, तथापि अस्य शास्त्रस्य व्यवस्थितं स्वरूपं गौतमेन एव कल्पितम् । गौतमः १५० तमे क्रिस्ताब्दे आसीत् इति भाव्यते । प्रभासक्षेत्रे सोमशर्मा नाम ब्राह्मणः आसीत् । तस्य चतुर्षु पुत्रेषु ज्येष्ठः एव गौतमः' इति ब्रह्माण्डपुराणात् ज्ञायते । गौतमेन रचितानां न्यायसूत्राणाम् आधारेण एव न्यायशास्त्रं शाखोपशाखारूपेण प्रवृद्धम् । सर्वशास्त्रकाराः अपि स्वसिद्धान्तस्य प्रतिपादनार्थं न्यायशास्त्रचिन्तनम् अवलम्बन्ते एव । गौतममहर्षेः उत्पत्तेः प्राक् न्यायदर्शनप्रतिपाद्याः वेदप्रमाणविषयाः यदि न निश्चिताः तथा श्रेयोमार्गे मानवानां प्रवृत्तिः न संभवति, इति शङ्क्य न्यायादिविद्यानां सर्वदा विद्यमानत्वात्, तदुक्तं न्यायमञ्जर्यां ’चरनैय्यायिकेन जयन्तभट्टेन’आदि सर्गात् प्रभृति वेदवत् इमाः विद्याः प्रवृत्ताः’ इति ।

हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

गौतमस्य जन्मभूमिः

सम्पादयतु

न्यायदर्शनप्रणेता अक्षपादः प्रजापतेः अङ्गीरसस्य प्रपौत्रः, दीर्घतमसः पुत्रः, महान् तपस्वी च आसीत् । अस्यैव पत्नी अहल्या या च स्वभर्त्रा अभिशप्ता, भगवतः रामचन्द्रस्य पादनिर्गतरजस्पर्शेन विधूतपापा सञ्जाता । अहल्यागौतमयोः तनयः शतानन्दः मिथिलेश्वरस्य जनकराजस्य पुरोहितः आसीत् । अतः गौतमः अहल्यापतिः ’मैथिलः’ इति वक्तुम् अस्ति अवसरः इति केचन वदन्ति । गौतमोऽयम् अष्टादशपुराणकर्तुः भगवतः व्यासस्य गुरुः । कदाचित् व्यासगौतमयोः विवादः जातः, विवादे व्यासः गौतमस्य मतं पराकृत्य , ’एतेन शिष्टापरिग्रहः व्याख्यातः’ इति ब्रह्मसूत्रे तृतीयाध्याये द्वितीयपादे महद्दीर्घाधिकरणे सूत्रं प्रणीतवान् । तदनु सञ्जातकोपः गौतमः स्वशिष्यं व्यासं त्वं गुरुमतं खण्डयसि, अतः शिष्याधमो जातः, ’इतः परं त्वाम् अनेन चक्षुषा नैव द्रक्ष्यामि’ इति अवदत् । तत् श्रुत्वा व्यासस्य मनसि खेदः जातः। तदन्तरं स्वगुरोः गौतमस्य पादयोः पतित्वा ’मयि एतावान् कोपः --भवतः मास्तु’ इति साञ्जलीं प्रार्थितवान् । ततः विगतक्रोधः गौतमः योगशक्तिबलात् स्वपादे एकं चक्षुम् उत्पाद्य, तद्वारा तं शिष्यम् अपश्यत । अतः गौतमस्य नाम अक्षपादः इति ।
कदाचित् गौतमेन संगतः व्यासः वार्तालापावसरे गुरोः गौतमस्य मतं जीवब्रह्मणोः भेदं तर्कबलेन खण्डितवान् । तेन कुपितः तव मुखं चक्षुषा न द्रक्ष्यामि इति अवोचत् । तेन दुःखितमनः व्यासः, गुरुं प्रसन्नतां सम्पादयितुं पुरतः दण्डवत् प्रणाममकरोत् । तेन विगतक्रोधः गौतमः स्व पादे एकं चक्षुम् उत्पाद्य, तद्वारा अपश्यत् । इत्यपरा कथा ।

गौतमः उत गोतमः

सम्पादयतु

न्यायदर्शनप्रवर्तकाचार्याणां नाम्नि केचन गौतमः उत गोतमः इति नाम्नि चर्चां कुर्वन्ति । तत्र केचन गोतमः इत्येव तस्य नाम इति अभिप्रयन्ति । तस्य प्रमाणत्वेन महाकवेः नैषधकर्तुः श्रीहर्षस्य युक्तिं प्रदर्शयन्ति तथा हि,

मुक्तयेयः शिलात्वाय शास्त्रमूचेः सचेतसाम् ।
गोतमं तमवेत्यैव यथा वित्थं तथैव सः । इति ।

न्यायदर्शनानुसारेण मुक्तिः आत्यन्तिकदुःखनिवृत्तिरेव अर्थात् मुक्तिदशायां न किमपि ज्ञानं सुखादिकं वा, अतः पाषाणकल्पा मुक्तिः । चेतनानां शिलाभावाय मोक्षाय प्रणीतवान् गोतमः। स च न केवलं नाम्ना गोतमः किन्तु ’प्रकृष्टाः गौः’ गोतमः महावृषभः पशुरेवेति उपरितनश्लोकस्यार्थः अयं च न्यायसूत्रकर्तुः गोतमनामकत्वैव सङ्गच्छते ।

गौतमस्य व्यक्तित्वविनिर्णयः

सम्पादयतु

अस्य न्यायशास्त्रस्य = न्यायदर्शनस्य, आन्वीक्षिकीविद्याया वा जन्मदाता श्रीमहर्षिोतम आसीत् । अयञ्च महर्षिर्गोतमः खल त्रेताकालीनः प्रजापतेः श्रीअङ्गिरसः प्रपौत्रो दीर्घतमस पुत्रो महातपस्वी आदिन्यायशास्त्रप्रणेता चाऽऽसीत् ।

अस्य जन्मभूमिहिमालयो, नाम नगाधिराजः श्रूयते । तत्रैव चाय महानुभावः कठिनतमां तपश्चर्यां कुर्वाण आसीत् ।

अस्य पत्नी परमां प्रसिद्धि गता श्री 'अहल्या' नाम्नी अतीव सुप्रसिद्धा ऽऽसीत् । इयञ्चाऽहल्येति नाम्ना सुप्रसिद्धि गता महर्षेः पत्नी स्वीयपत्युर्महर्षे र्गोतमस्याऽभिशापेन पाषाणमयी शिला जाता ।

तदनन्तरकालावच्छेदेन सच्चिदानन्दस्याऽऽनन्दकन्दस्याऽयोध्याचन्द्रस्य श्रीरामचन्द्रस्य मर्यादापुरुषोत्तमस्य पादपांसुभिस्तत्स्पर्शेन वा विधूतपापा सती सर्वथा विमुक्तशापा साऽभूदिति सर्वेऽपि दार्शनिकास्तदतिरिक्ताश्च विद्वासा विदाकुर्वन्ति, दिव्यञ्च शरीरं पुनर्दधौ, महर्षेः सद्भावनाभावितान्तःकरणे ततोऽप्यधिकं सम्मान प्राप्तवतीत्ययमस्तीतिहासः । अस्य च महर्षेर्गोतमस्य साक्षादात्मजः शतानन्दो मिथिलेश्वरस्य महाराजस्य पुरोहितोऽयमासीदित्यपि श्रूयते । तदत्र युक्तायुक्तत्वे स्वयमेव विचारणीये ।

अयञ्चाऽऽदिन्यायशास्त्रविनिर्माता महर्षिर्गोतमः अष्टादशपुराणानां ब्रह्म सूत्राणाञ्च विनिर्मातुः श्रीव्यासस्य समकालीन आसीत्, गुरुशिष्यपरम्परापि च श्रूयते इत्यपि केचन वदन्ति ।

अस्ति चेयं किम्वदन्ती यद्-'वेदव्यासो गोतमस्य शिष्य आसीत् । एतेन शिष्टापरिग्रहा व्याख्याताः' ।[]

इति सूत्रेण न्यायसूत्रकारमते परासिते गोतम उवाच-नाऽहमेनं शिष्याधमं शिष्यं व्यासं चाक्षुषप्रत्यक्षविषयीभूतं करोमि । एतच्छ्र त्वा भगवान् वेदव्यासो गुरोर्हदि प्रसन्नतां सम्पादनाय तेषां पादयोः पपात । ततश्च शिष्यनिरूपितसद्भावनाभावितान्तःकरणो गुरुर्गोतमो योगशक्तिबलात् स्वीये पादे चक्षुर्जनया मास । तेन च चक्षुषा महर्षिः स्वीयं शिष्यं व्यासं समवलोकितवान् । अत एव महर्षेर्गोतमस्याऽपरं नाम अक्षपादोऽपि जातः ।

महर्गोतमस्याक्षपादनामकरणविषये एका चास्तीयं किम्वदन्ती यत् श्रीगोतमोऽहनिशं शास्त्रीयविचारधारायां संलग्नतारूपकारणबशात् 'पतितः पतितः पुनरुत्पतसि' इति न्यायेनाऽस्य महर्षेः सर्वमपि शरीरं सर्वतः पतन जन्याऽऽघातव्याघातादिनाऽतीव गम्भीरं जातम् । ततश्चैकदा शास्त्रीयविचार चातुरीचमत्कृतचेता महर्षिरकस्मात् कूपे पतितः । कूपे पतितं दृष्ट्वा कश्चिद् देवविशेषः ततो निष्कास्य स्वकीयवरप्रदानेनाऽस्य पादयोरक्षिप्रदानं कृतवान् ।

केचन विद्वांस इत्थं समुगिरन्ति यद्-गोतमो-अक्षपादश्च पृथक्-पृथग् व्यक्तिद्वयमासीत् । तत्र गोतम आन्वीक्षिक्या जन्मदाताऽऽसीत्, अक्षपादश्च न्यायसूत्राणां रचयिताऽऽसीत् । परन्तु तेषामिदं कथनं सर्वथा निराधारम प्रमाणभूतञ्चास्तीति मे मतिः । यतो न्यायसूत्राणामेवाऽपरं नामाऽऽन्वीक्षिकी वर्तते इति ।

अपरे पुनविद्वांस एवं व्याहरन्ति यत्-श्रीवात्स्यायनो भाष्यकारः सर्वत्र स्वीये भाष्ये आन्वीक्षिक्या, न्यायविद्याया न्यायशास्त्रस्य च समानार्थकत्वेनो ल्लिखितवान् । यथा -

'प्रत्यक्षागमाभ्यामीक्षितस्याऽन्वीक्षणमन्वीक्षा, तया प्रवर्तते इति आन्वी क्षिकी = न्यायविद्या = न्यायशास्त्रम् । एवम् 'इमास्तु चतस्रो विद्याः पृथक् प्रस्थानाः प्राणभृतामनुग्रहायोपदिश्यन्ते यासां चतुर्थीयमान्वीक्षिकी न्याय विद्या' इति ।

न्यायशास्त्रस्य महत्त्वम्

सम्पादयतु

महषिर्गोतमद्वारा विनिर्मितस्यास्य न्यायशास्त्रस्येतराणि सर्वाण्येव व्याकरण-साहित्यप्रभृतीनि यानि सन्ति शास्त्राणि तानि सर्वथा न्यायशास्त्र मपेक्षन्ते । अनुभवसिद्धा चेयं किम्वदन्ती—'काणादं पाणिनीयञ्च सर्वशास्त्रो पकारकम् । अत्र 'काणादम्' इति न्यायशास्त्रस्याप्यूपलक्षक, तेन न्यायशास्त्र स्यापि सर्वशास्त्रोपकारकत्वं विज्ञेयम् ।

अस्माकं गुरुवराः पं० श्रीशिवदत्त मिश्र महोदयाः इत्थं कथयन्ति स्म यत् सूक्ष्मेक्षिकया विचार्यमाणे तु न्यायशास्त्रमन्तरा 'यस्य ज्ञानदयासिन्धोः' इत्य स्यापि नहि कश्चिदर्थं विधातूं पारयिष्यति । यतस्तत्राऽयं प्रश्नो भवितुमर्हति यत् 'यस्ये'त्यत्र 'यत्'पदस्य कोऽर्थः ? 'यत्'पदोत्तरषष्ठीविभक्तेः कोऽर्थः ? इति ।

न्यायशास्त्रानभिज्ञो जनस्तत्र नहि कदापि कथमपि किमप्युत्तरं दातुं शक्ष्यति । यतः-सु, औ, जस्, इत्याद्यकविंशतिविधानां विभक्तीनां कस्मिन्नर्थे शक्तिरिति निश्चयस्तु व्युत्पत्तिवादग्रन्थेनैव भविष्यति, स चास्ति न्यायग्रन्थः ।

एवम्-यत्, तत्, युष्मत्, अस्मत्, किम्, प्रभृतीनां नानाविधानां शब्दानां शक्तिविनिर्णयः शक्तिवादग्रन्थेन 'शब्दशक्तिप्रकाशिका'ग्रन्थेनैव वा भवितुं शक्नोतीति सोऽपि न्यायग्रन्थ एवेति भावः ।

अपि च श्रुति-स्मृति-पुराणादिषु सर्वत्रैव न्यायशास्त्रस्य महत्त्वं सर्वश्रेष्ठत्वं च प्रतिपादितं वर्तते । यथा-'न्यायो मीमांसा धर्मशास्त्राणि' चेति श्रुतिः सर्वप्रथमं न्यायशास्त्रमेवोल्लिखतीति तस्यैव प्राधान्यं निर्णीयते ।

तथैव - 'अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः' । एवम्-'पुराण न्यायमीमांसा धर्मशास्त्राङ्गमिश्रिताः' इत्यादि भगवत्कल्पमनुप्रभृतिवाक्यान्यपि न्यायशास्त्रस्य महत्त्वं गायन्ति ।

नैतावन्मात्रमेव पर्याप्तं न्यायशास्त्रस्य महत्त्वम्, न्यायशास्त्राध्ययनमन्तरा तु घटस्य 'अयं घट एव' पटस्य 'अयं पट एवे'ति नहि साधयितुं शक्यते । यतः 'लक्षणप्रमाणाभ्यां वस्तुविनिर्णयः' । अपि च 'मानाधीना मेयसिद्धिः' इत्यभियुक्तोक्तं वाक्यद्वयं मेयभूतस्य वस्तुनः सिद्धये प्रमाणं नितान्तमावश्यक मिति सुस्पष्टं प्रतिपादयति ।

अपि च 'प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् अर्थवत् प्रमाणम्' ।

इत्यनेनापि सूत्रेण प्रमाणतोऽर्थप्रतिपत्तौ जायमानायामेव प्रमाणमर्थवद् भवति । एवञ्च सकलप्रमेयभूतवस्तुविषयकज्ञानार्थमपेक्षितमाधारभूतं प्रमाण मेव चास्ति न्यायशास्त्रम् = न्यायदर्शनमिति । अत एव प्रमाणशास्त्र-तर्कशास्त्र न्यायशास्त्र-पदार्थशास्त्र-आन्वीक्षिकीशास्त्र-लक्षणशास्त्राणां सर्वेषामेव समानार्थ कत्वेन पर्यायवाचकत्वं स्वीक्रियते न्यायशास्त्रविशारदैः ।

अत एव 'प्रमाणपटवः कर्तेति नैयायिकाः' इत्यपि प्राचीनाचार्यच रण कथनं साधु सङ्गच्छते । अस्य न्यायशास्त्रस्य साक्षाज्जन्मदाता महर्षिर्गोतम एवास्तीत्यत्र नास्ति लेशतोऽपि विवादः ।

महर्षिर्गोतमद्वारा जन्म प्राप्तमिदं न्यायशास्त्रं महषिर्वात्स्यायनेन भाष्य विधानेन परिष्कृतम् । तत्रैवेदमप्युक्तवान् वात्स्यायन:

'प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् ।

आश्रयः सर्वधर्माणां सेयमान्वीक्षिकी मता' ।

प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इत्यनेन श्रीगोतमः प्रमाणशास्त्रा ऽभिन्नस्यास्य स्वीयन्यायशास्त्रस्य प्रामाण्यं दर्शितवान् ।

तत्रैव चिन्तामणिग्रन्थलेखकः श्रीगङ्गेशोपाध्यायोऽपि स्वीयबुद्धिवैभव साहित्यावच्छिन्नं परमार्थतो निरवच्छिन्नं महत्त्वं स्वीयेन 'जगदेव दुःखपङ्कनिमग्नमुद्दिीषुरष्टादशस्थानेष्वभ्यहिततमामान्वीक्षिकी परमकारुणिको मुनिः प्रणिनाय इति' । इत्यनेन ग्रन्थेन प्रदर्शितवान् ।

अपि च ईश्वरकृष्णोऽपि 'प्रमेयसिद्धिः प्रमाणाद्धि' इत्यादि वदन् प्रमेयभूत पदार्थानां सिद्धये प्रमाणानां नितान्तमावश्यकतां दर्शयति स्म

देशनिर्णयः

सम्पादयतु

अक्षपादापरपर्यायभूतस्य महर्षेः श्रीगोतमस्य स्थानं किमासीदित्युच्चार्यते विचार्यते च । न्यायशास्त्रस्य जन्मदाता महषिर्गोतमस्त्रेताकालीनः प्रजापते रङ्गिरसः प्रपौत्रो दीर्घतमसश्चायं पुत्रो महांस्तेजस्वी तपस्वी चासीत् । एव मस्य जन्मस्थानं हिमालयभूमि रस्तीत्यत्र महाविदुषः श्रीनृसिंहदेवशास्त्रिणोऽपि सम्मतिः ।

परन्तु इदानीन्तन कालावच्छिन्ना बिहारदेशान्तर्गतदरभङ्गाप्रान्तनिवासिनो मैथिलवंशावतंसा विद्वांसस्तदीयं स्थानम्, आश्रमस्थानम्, जन्मस्थानं वा मिथिलामेव वदन्ति विवदन्ते चात्र बहवः । बिहारप्रदेशे मिथिलादेशे 'गोतम टील्ला' इति नाम्ना प्रसिद्धि गतो गोतमाश्रमः कश्चिदासीत् स्थानविशेषः, यादृशस्थानवास्तव्योऽयं महर्षिरासीत् । परन्तु तन्निवासस्थानं श्रूयते न तु जन्मस्थानमिति ।

एवं कर्णाकर्णिकया परम्परया प्राप्तमिदमप्यस्त्येकं श्रूयमाणं विषयजातं यदेकदा सच्चिदानन्दः, आनन्दकन्दः, कौशल्यानन्दवर्धनो भगवान् श्रीरामचन्द्रः खलु विश्वामित्राऽऽश्रमात् मिथिलां गच्छन् गोतमाश्रमं प्राप्तवान् । अस्य महर्षे र्गोतमस्याऽऽत्मजः श्रीशतानन्दाभिधानः श्रीमिथिलेश्वरस्य महाराजस्य पुरोहित आसीत् । अत्र च युक्तत्वाऽयुक्तत्वे विद्वद्भिः स्वयमेव विचारणीये, यतोऽस्य विषयस्य विशेषगवेषणाश्रमसाध्यत्वात् ।

इदमपि च श्रूयते यत् श्रीरामचन्द्र विषयकसाक्षात्कारवान् महर्षिर्गोतमः पितृप्रवरश्रीदशरथस्य वनस्थलीनिवासादेशं श्रावणप्रत्यक्षं विषयीकृत्य भगवन्त मयोध्याचन्द्रं श्रीरामचन्द्र प्रति पृष्टवान् यत् पितृप्रवरस्य स चाऽऽदेशो नित्यो ऽनित्यो वेति ।

नित्यत्वञ्च ध्वंसाऽप्रतियोगित्वे सति प्रागभावाऽप्रतियोगित्वरूपम् । एवं स्थिते कदापि न गन्तव्यम्, आदेशस्य नित्यत्वात् ।

अनित्यश्चेत् सोऽस्ति आदेशस्तहि सत्वरमेव भवन्तो गृहं प्रति नच्छन्तु, यतो भवदागमनमात्रेणैवाऽऽदेशस्य पूर्णतां गतत्वात्, तस्य चाऽनित्यत्वात् । ततो निरुत्तरतां गतो भगवान् तस्मै शापं प्रदत्तवान् । तथाहि-

'यः पठेद् गौतमी भाषां शृगाली योनिमाप्नुयात्' इत्यादिरूपेणा ऽभिशापितवान् भगवान् रामः ।

'रांची'स्थस्य राजकीय-संस्कृत-महाविद्यालयस्यैकेन मैथिलेन विदुषा ऽस्मिन् विषये कथितं यत् इदानीन्तनकालावच्छेदेनापि मिथिलायामस्ति महानेव सुन्दरतमो गोतमाश्रमः । स च वसतिबाहुल्यरूपकारणवशाद् ‘गोतम स्थान' नामक ग्रामरूपेण परमां प्रसिद्धिं गतो वर्तते । ऐतिहासिका विद्वांसः, एवमन्येऽपि दर्शनकामनापरायणा दर्शनार्थिनस्तत्र गच्छन्त्येव ।

एतावता प्रबन्धेनेदमेव प्रतीयते यत् योऽस्ति मिथिलायां 'गोतमस्थान' नामको ग्रामविशेषः स केवलं तदीयतपोभूमिरूपो नहि जन्मस्थानरूपोऽपि इति ।

अत्रावधेयमस्ति यत् 'जन्मस्थाने'त्यत्र घटकीभूतजन्मपदार्थे विचार्यमाणे 'शरीरेन्द्रियबुद्धीनां निकाय विशिष्टः प्रादुर्भावो जन्म' । []

आहोस्वित्-'देहेन्द्रियमनोबुद्धिवेदनाभिः सम्बन्धो जन्म' ।[]

तत्र च खलु वृत्तिकारा इत्थं वदन्ति यत् 'विशिष्टशरीरसम्बन्धो जन्म'।[] 'आद्यशरीरप्राणसंयोगो जन्म'-न्या० सि० मु० विलासिनी टीका ।

यथा-अस्मदादीनां भवति जन्म । शरीरवृत्ति आद्यत्वञ्च स्वसमानजातीय शरीरध्वंसानधिकरणत्वरूपम् । तच्च जन्म महर्षे!तमस्य नानुभूयते । विशेषस्तु पुराणादिषु ज्ञातुं शक्यते इति ।

महर्षेः कालविनिर्णयः

सम्पादयतु

न्यायशास्त्रस्य जन्मप्रदानकर्तुमहर्षिप्रवरश्रीगोतमस्य कालविषये = जन्मकालविषये, केवलमेतावन्मात्रमेवाऽहं शशिबालागौड़: खल वक्तुं शक्नोमि यदयं न्यायजगन्नवजीवनप्रदानकर्ता महर्षिर्गोतमस्त्रेताकालीनस्तथा व्याससम कालीन आसीत् ।

सावधारणरूपेण निश्चितरूपेण चाऽस्य महातपस्विनो जन्मकालो नहि केवलं मयाऽपि तु नहि केनापि निर्देष्टुं शक्यतेऽतस्तस्येदमित्थमेवेति सावधारण रूपेण निर्णतुं नहि कथमपि पारयितुं प्रभूयते इति महदेव दुष्करमिदम् ।

परन्तु अनुमानत एव मयेदं व्याहतुं शक्यते यत्तदीयकालास्तित्वविषयक प्रश्नस्यैतेनैव समाधानं विज्ञायताम्-यत् न्यायसूत्रेषु नागार्जुनस्य शून्यवादस्य खण्डनं यत्र कुत्रापि स्थलविशेषेषु कृतवान् महर्षिोतमस्तेनैवास्य श्रीगोतमस्य कालविषये भवतीदमनुमानं यत्-यदा दक्षिणभारतस्य निवासिब्राह्मणवंशा वतंसभूतस्य = श्रीनागार्जुनस्याऽस्तित्वकालो द्वितीयशताब्द्याः प्रारम्भकालो वर्तते तदाऽनेनाऽनुमीयते यत् तत्पश्चात्कालावच्छेदेनैव अर्थाद् द्वितीयशताब्द्याः पश्चात्कालावच्छेदेनैव न्यायसूत्राणां प्रणयनं कृतवान् महर्षिः ।

एतेनेदं सुस्पष्टमनुमीयते यत् द्वितीयशताब्द्या अन्तिमे काले न्यायसूत्राणां प्रणयनं समभूत्, आहोस्वित् तृतीयशताब्द्यामेव यस्मिन् कस्मिन्नपि काले जात मित्यानुमानिकधारयैवाऽहं शशिबाला गौड़ो विचारयामीति भावः ।

एवं स्वयं महर्षेर्गोतमस्याऽस्तित्वविषये स्थितिकालविषयेऽपि वा यदि मया विचार्यते तदाऽनुमानतः इदमेव प्रतीयते यदयं न्यायानुशीलनपरो महा तपस्वी 'ईशा' नामकस्य महापुरुषस्य द्विसहस्रपञ्चशतक २५०० वर्षेभ्यः पूर्व मेवाऽऽसीत् । इदञ्चानुमानं मदीयं सर्वथा चास्ति पौर्वापर्यक्रमानुसारेणा ऽव्यभिचारीति मन्तव्यम् ।

मया त्वत्र विषये इदमेव विचार्यते यन्महषिर्गोतमः पूर्वावस्था, मध्यावस्था, पर्यन्तं शास्त्रचिन्तनं कृतवान्, तदनन्तरकालावच्छेदेन च स जगन्नाथस्य काशीपते बाविश्वनाथस्य चिन्तनधारायां सन्निविष्टो जायमानः क्वचित् पर्वतीयकन्दरायामिदानीन्तनकालपर्यन्तमपि समाधिस्थो भूत्वा बाबाविश्वनाथस्य चिन्तासन्तानपरायणो भविष्यति । 'शिवराजविजय' नामके ग्रन्थे कमप्यन्यमेव महर्षि समुद्दिश्याऽयं विषयः समागतः ।  

गौतमस्य कृतिः

सम्पादयतु

गौतमस्य सुप्रसिद्धः न्यायदर्शनस्य आधारभूतः ग्रन्थः ’न्यायसूत्रम्’ भवति । गौतमनाम्ना महर्षिणा न्यायशास्त्रं विना ग्रन्थान्तरम् एतावत्पर्यन्तं नोपलभ्यते । अतः एव एकैव कृतिः प्रथितः अस्ति । इत्ययं विषयः महामहोपाद्यायैः उमेशमिश्रमहोदयैः ’हिस्टोरि आफ् इण्डियन् फिलोसफि’ (History of Indian Philosophy) नामके ग्रन्थे प्रतिपादितः ।

न्यायदर्शनग्रन्थे सूत्रार्थे पञ्चाध्यायाः, प्रत्यध्याये आह्निकद्वयं च सन्ति । सूत्रसंख्यायां सर्वेषां विदुषां भिन्नभिन्नाभिप्रायाः सन्ति । वाचस्पतिमिश्रकृतन्यायसूचितनिबन्धानुसारं न्यायदर्शने ८४ प्रकरणानि, ५२८ सूत्राणि च सन्ति । तत्र प्रथमाध्याये प्रथमान्हिके अभिधेयप्रयोजनसंबन्धाः प्रमाणलक्षणानि, प्रमेयन्यायपूर्वाङ्गलक्षणानि, न्यायाश्रयसिद्धान्तलक्षणानि, प्रतिज्ञादि न्यायावयवस्वरूपाणि, न्यायोत्तराङ्गलक्षणम् इत्यादयः निरूपिताः । द्वितीयान्हिके तु वाद-जल्प-वितण्ड-कथानां, पञ्चविधहेत्वाभासानाम्, त्रयाणां छलानाम्, पुरुषशक्तिलिङ्गदोषसामान्यलक्षणस्य च विषयाः निरूपिताः । द्वितीये अध्याये प्रथमे आह्निके संशयपरीक्षणम्, प्रमाणसामान्यपरीक्षणम्, प्रत्यक्षपरीक्षणम्, प्रासङ्गिकी अवयविनिरूपणम्, अनुमानपरीक्षणम्, उपमानशब्दपरीक्षणञ्च प्रतिपादितम् । द्वितीयाह्निके प्रमाणपरीक्षणम्, शब्दनित्यत्वपरीक्षणञ्च कृतम् । तृतीयाध्याये प्रथमाह्निके इन्द्रिय-शरीर-मनोभ्यः अतिरिक्तः आत्मा इति च निरूप्य । तदनु आत्मनः नित्यत्वं प्रसाद्य शरीरनिरूपणम्, इन्द्रियनानात्वं निरूपितम् । तृतीयाध्याये द्वितीये आह्निके बुद्धेः अनित्यत्वम्, क्षणभङ्गः, बुद्धेः आत्मगुणत्वम्, बुद्धेः शरीरगुणव्यतिरेकनिरूपणम्, मनो निरूपणम्, शरीरस्य अदृष्टनिष्पाद्यत्वनिरूपणञ्च कृतमस्ति । चतुर्थे अध्याये प्रथमे आह्निके प्रवृत्तिदोषसामान्यपरीक्षणम्, दोषत्रैविध्यस्य प्रकरणम्, प्रेत्यभावपरीक्षणम्, शून्यतोपादाननिरूपणम्, ईश्वरोपादानप्रकरणम्, आकस्मिकत्वनिरूपणम्, फलदुःखापवर्गाणां परीक्षणम् इत्यादयः विषयाः निरूपिताः । चतुर्थे अध्याये द्वितीये आह्निके तत्त्वज्ञानोत्पत्तिनिरूपणम्, अवयवावयवनिरूपणम्, निरवयवनिरूपणम्, तत्त्वज्ञानविवृद्धितत्पालननिरूपणञ्च प्रतिपादितम् । पञ्चमे अध्याये प्रथमे आह्निके जातिप्रभेदाः, तेषामुत्तराणि च निरूपितानि । द्वितीये आह्निके निग्रहस्थानानि विस्तरेण प्रतिपादितानि ।

बाह्यानुबन्धः

सम्पादयतु
  1. ब्रह्मसू० २।१।१२ ।
  2. वात्स्यायन: १।१।२ ।
  3. -वात्स्यायनः १।१।१९ ।
  4. गौतमवृ० १।१।२ ।
"https://sa.wikipedia.org/w/index.php?title=गौतमः&oldid=480265" इत्यस्माद् प्रतिप्राप्तम्