भारतदेशे तृतीया बृहत् नदी। दक्षिणभारते, आन्ध्रप्रदेशे च द्वितीया बृहत् नदी अस्ति कृष्णानदी। आन्ध्रप्रदेशे जनाः कृष्णवेणी नाम्ना एतां नदीम् आह्वयन्ति । पश्चिमदिशि महाराष्टस्य महाबळेश्वरस्यम् उत्तरदिशि महादेवपर्वतश्रेण्यां समुद्रस्तरतः १३३७ मीटरमितोन्नते स्थाने लघुधारारूपेण जन्म प्राप्नोति। कृष्णानदी अनेकाभिः उपनदिभिः मिलित्वा महाराष्ट्रे, कर्णाटके, आन्ध्रप्रदेशे च भूमिं ससश्यामलां कृत्वा १,४०० किलोमीटरमितं प्रयाणं कृत्वा आन्ध्रप्रदेशस्य हंसलदीविक्षेत्रे बङ्गालोपसागरेण मिलति।

भारतस्य प्रमुखाः नद्यः
विजयवाडासमीपे कृष्णानदी

प्रयाणम्

सम्पादयतु

कृष्णानदी २९ उपनदीभिः मिलति। महाबळेश्वरस्य समीपे उगमानन्तरं १३५किलोमीटरदूरे कोयिनानद्या मिलति। अनन्तरं वारणा पञ्चगङ्गादुधगङ्गा]]नदीभिः मिलति। महाराष्टराज्ये एषा नदी ३०६ किलोमीटर् यावत् प्रवह्य बेळगावीमण्डलस्य ऐनापुरप्रदेशे कर्णाटकराज्यं प्रविशति। कृष्णानदी उगमस्थानतः ५०० किलोमीटरदूरे कर्णाटकराज्ये घटप्रभा मलप्रभानदीभ्यां सह मिलति। आन्ध्रप्रदेशे प्रवेशतः पूर्वं भीमानद्या मिलति। कर्णाटकराज्ये ४८२ किलोमीटरदूरं प्रवह्य रायचूरुमण्डलस्य देवसूगूरुग्रामतः आन्ध्रप्रदेशस्य महबूबनगरमण्डलस्य तङ्गटिक्षेत्रे आन्ध्रप्रदेशं प्रविशति । ततः कर्नूलुसमीपे तुङ्गभद्रानद्या मिलति। ततः श्रीशैलस्य समीपे नागार्जुनसागरम् इत्यत्र कश्चन बृहत् जलबन्धः निर्मितः अस्ति । विजयवाडासमीपे ब्रिटीषकाले प्रकाशं ब्यारेज् नामकः सेतुः निर्मितः अस्ति । विजयवाडाक्षेत्रे कृष्णानदी ११८८ मीटर् दैर्घ्यवती भूत्वा विराटरूपं दर्शयति। ततः हंसलदीवि समीपे बङ्गालोपसागरेण मिलति। उपनदीभिः सह मेलनानन्तरं कृष्णानद्याः समग्रपरिवहनस्य प्रदेशः २५६००० चतुरस्रकि.मी यावत् भवति । अत्र परिवहनस्य प्रमाणं प्रतिराज्यम् एवम् अस्ति ।

कृष्णानद्याः तीरे पुण्यक्षेत्राणि

सम्पादयतु

कृष्णानद्याः भारतदेशे इतरनदीणामिव पौराणिकप्राशस्त्यम् अस्ति । यथा -

  • १. श्रीशैलम् - द्वादशज्योतिर्लिङ्गेषु अन्यतमस्य आलयः अत्र अस्तु । प्रसिद्धे अस्मिन् शिवक्षेत्रे श्रीशैले भ्रमराम्बा मल्लिकार्जुनस्वामी च स्तः ।
  • २. अलम्पुर् – अष्टादशशक्तिपीठेषु अन्यतमः आलयः अत्र अस्ति । नवब्रह्मनमाकः देवालयसमुच्चयः अत्र अस्ति। अलम्पुर् चालुक्यराजानां निर्मितिः अस्ति ।
  • ३. श्रीदुर्गामल्लेश्वरस्वामिक्षेत्रम् (कनकदुर्गा) – विजयवाडा
  • ४. अमरावती (आन्ध्रप्रदेशः) - अत्र शिवः अमरलिङ्गेश्वरस्वामिरूपेण पूज्यते । बौद्धानाम् अपि पवित्रं स्थानम् एतत्।
  • ५. मोपिदेवी – अस्मिन् प्रसिद्धक्षेत्रे नागपूजां करोति।

प्रदान व्यासः - कृष्णानदी व्यवस्थे प्राजेट् कृष्णानदी तीरे परिवाहक राष्ट्रं तृतीयायां अपि विस्तृतः सागुजलं, विद्युत् प्राजेट् निर्माणं भवन्ति। तथा -

एतद्योजनाद्वयं संयुज्ज्य अप्पर् कृष्णा प्राजेक्ट् इति वदन्ति।

  • प्रियदर्शिनीजलबन्धः
  • श्रीशैलजलानयनयोजना कर्णूल् जिल्ल श्रीशैल क्षेत्रे एतत् प्राजेट् निर्माणं भवति।
  • नागार्जुनासागरजलबन्धः - नल्गोण्डामण्डले एषा जलानयनयोजना १९५६ तमे वर्षे आरब्धा ।
"https://sa.wikipedia.org/w/index.php?title=कृष्णा&oldid=390207" इत्यस्माद् प्रतिप्राप्तम्