रायचूरुमण्डलम्
रायचूरुमण्डलम् (Raichur district) कर्णाटकराज्यस्य उत्तरभागस्य मण्डलेषु अन्यतमम् । मण्डलस्य नाम एव मण्डलकेन्द्रस्यापि नाम अस्ति । एतत् बॆङ्गळूरुतः ४०९ कि.मी दूरे अस्ति । भारतस्य स्वातन्त्रसङ्ग्रामे हैदराबाद्विमोचनान्दोलने अस्य मण्डलस्य योगदानं महत् वर्तते । राचूर रायपुर् इति च प्रसिद्धः अयं प्रदेशः पूर्वं हैदराबाद् संस्थानाधीनः आसीत् । शिवशरणानां विजयदासः जगन्नाथदासः गोपालदासः, तिम्मण्णदासः, आनन्ददासः इत्यादीनां जन्मभूमिः ।
रायचूरुमण्डलम् ರಾಯಚೂರು ಜಿಲ್ಲೆ | |
---|---|
मण्डलम् | |
![]() कर्णाटकराज्ये रायचूरुमण्डलम् | |
राष्ट्रम् |
![]() |
राज्यम् | कर्णाटकराज्यम् |
विभागः | गुल्बर्गाविभागः |
केन्द्रम् | रायचूरुनगरम् |
उपमण्डलानि | रायचूरु, सिन्धनूरु, लिङ्गसगूरु, मान्वि, देदगुर्गः |
Government | |
• District collector | अन्बुकुमार वि, IAS |
Area † | |
• Total | ८,३८६ km२ |
Elevation | ४००.० m |
Population (2001) | |
• Total | १६,६९,७६२ |
• Density | २००/km२ |
भाषाः | |
• अधिकृतभाषा | कन्नडभाषा |
Time zone | UTC+5:30 (भारतीयसामान्यकालमानम्) |
PIN |
584101,584102,584103 |
दूरवाणिसंज्ञा | 08532 |
ISO 3166 code | IN-KA-RA |
Vehicle registration | KA-36 |
लिङ्गानुपातम् | 0.983 पु/स्त्री |
साक्षरतापरिमाणम् | 48.8% |
Precipitation | 680.6 मिलीमीटर (26.80 इंच) |
Website | raichur.nic.in |
†Raichur district at a glance |
भौगोलिकतासंपादित करें
गिरिशिखराणि अतीव अल्पानि सानुप्रदेशाः एव अधिकाः भवन्ति ।
खनिजाःसंपादित करें
”’हट्टी”’ इत्यत्र सुवर्णनिक्षेपः अस्ति । सामान्यप्रमाणेन वर्षा पतति ।
वातावरणम्संपादित करें
सामन्यतः शुष्कवायुः सञ्चरति । ग्रीष्मकाले ४५ डिग्रिपर्यन्तं (सेलेशियस्) औष्ण्यं बाधते ।
दर्शानीयानि स्थानानिसंपादित करें
क्रि.श. १२९४ तमे वर्षे निर्मितं रायचूरुदुर्गं नगरस्य सांस्कृतिकाकर्षणम् अस्ति।शक्तिनगरस्य शाखोत्पन्नविद्युत्स्थावरः, लिङ्गसूरु हट्टिसुवर्णनिक्षेपः, सिन्धनूरुशालिक्षेत्राणि, मुद्गल् दुर्गम्, जलदुर्गम् इत्यादीनि सुन्दराणि स्थलानि सन्ति ।
उपमण्डलानिसंपादित करें
नद्यःसंपादित करें
क्षेत्राणिसंपादित करें
रायचूरु, मान्वी, मुद्गल्, बणलवाड, कल्लूरु सिन्धनूरु छायाभगवती, अमरेश्वरः गाणदाळु कुरवगड्डे, नारदगड्डे, गब्बुरु, सन्नती,कोप्पर, लिङ्गसूरु
१)सन्नतीसंपादित करें
अत्र (८०० वर्ष प्राचीनः) चन्द्रलापरमेश्वरी देवालयः पूर्वाभिमुखः विशालः अस्ति । देवीं चन्द्रलाम्बां सन्तिहोन्नम्म इति च कथयन्ति । सीतादेव्याः अवताररुपा प्रसन्नवदना इति देवीं कथयन्ति । चालुक्यवंशीयानाम् अधिदेवता चन्द्रलाम्बा भीमानदीतीरे स्थितवती अस्ति । शङ्कराचार्यः अत्र एकस्य श्रीचक्रस्य निर्माणं कृतवान् । सन्नती बैध्दानामपि पवित्रं क्षेत्रमास्ति । अत्र |बौध्दधर्मस्य अवशेषाः, नागायिबौद्धविश्वविद्यानिलयः विद्याकेन्द्राणि च (१२२ शतकीयानि) अत्र आसन् ।
मार्गःसंपादित करें
- मुम्बयी-बेङ्गळूरुरेलमार्गे नल्वाररेलनिस्थानतः २० कि.मी ।
२) कोप्परसंपादित करें
कृष्णानदीतीरे स्थितं महाक्षेत्रम् एतत् । पूर्वं कर्परमहर्षिः अत्र स्थितवान् । कार्परक्षेत्रमिति च क्षेत्रस्य नाम आसीत् । अत्र देवः श्रीनरासिंहः अश्वत्थवृक्षे सालिग्रामरुपेण अस्ति । मूलवृक्षस्य स्फोटानन्तरं षोडशबाहुः श्रीनरसिंहः आयुधसहितः आविर्भूतः अभवत् ।श्रीविजयदासः स्वसुळादिपद्ये क्षेत्रमहिमां स्वयं दृष्टवानिव वर्णितवान् अस्ति । अत्र नदीस्नानं देवपूजादिकं सर्वार्थसाधकं भवति । नवरात्रिसमये अत्र वैभवेण उत्सवः प्रचलति ।
मार्गःसंपादित करें
- देवदुर्गतः १२ कि.मी ।
- रायचूरुतः ४८ कि.मी ।