कोडुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान्

(कॊडुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान् इत्यस्मात् पुनर्निर्दिष्टम्)

क्रिस्त्वब्दे १८६५ तमे वर्षे कोडुङ्ङल्लूर् कोविलके (कोटिलिंगपुर राजप्रासादे) कविश्रेष्ठस्य रामवर्मणः जनिम् अलभत । तस्य पिता वेण्मणि अच्छन् नम्पूतिरिप्पाड् आसीत् । माता कुञ्ञिप्पिळ्ळ तम्पुराट्टी (राज्ञी) च । पितरौ तं वात्सल्येन 'कुञ्ञिक्कुट्टन्' इति आह्वयताम् । बाल्ये एव सः कवितारचनायां समर्थः आसीत् । तेन लेखाः अपि पद्यैः लिखिताः आसन् । सः गैर्वाण्यां कैरळ्यां च अनेकान् ग्रन्थान् व्यरचयत् । तेषां संख्या पञ्चशदधिका भवति । महाभारतं लक्षाधिकैः श्लोकैः वेदव्यासेन रचितं भवति । एतस्य समग्रं वृत्तानुवृत्तं विवर्तनं कैरळ्यां सार्धसंवत्सरद्वयेन कुञ्ञिक्कुट्टन् तम्पुरान् महाशयेन कृतम् । अनेन विवर्तनेन महानुभावोऽयं केरळव्यासः इति बिरुदं शाश्वतम् यशः च अलभत् । तस्य प्रतिभायत्नः सर्वेषाम् आदरणीयः अनुकरणीयश्च भवति ।

केरळव्यासः कॊडुङ्ङल्लूर् कुञ्ञिक्कुट्टन् तम्पुरान्
जन्म १८६४ सप्तम्बर् ०९
कॊडुङ्ङल्लूर्, श्रीशिवपुरम्, केरलम्
मृत्युः १९१३ जनुवरी २२
श्रीशिवपुरम्
देशीयता भारतीयः
वृत्तिः संस्कृत, मलयाळकविः
भार्या(ः) कॊडुङ्ङल्लूर् कोयिप्पळ्ळि पाप्पियम्बा
कुट्टिप्पाऱुवम्बा
श्रीदेवित्तम्पुराट्टी