कोटिचन्नयौ
कोटिचेन्नयौ तुलुनाडुप्रदेशे जातौ प्रसिद्धौ वीरौ । एतयोः कालः क्रि.श १५५६-१५९१ [१] । कोटिचेन्नय्ययोः दैवरूपं परिकल्प्य जनाः पूजां कुर्वन्ति ।
पञ्जक्षेत्रे
सम्पादयतुपुत्तूरु उपमण्डलस्य पडुमले प्रान्ते जन्म प्राप्नुताम् । देईबैदेति (यस्याः मूलं नाम स्वर्णकेदगे ब्राह्मणेभ्यः लब्धात् अण्डात् जन्म प्राप्तवती । अतः कोटिचन्नय्ययोः निर्दिष्टा जातिः वक्तुं न शक्यते ।) देई बैडेतिः मृगयायां प्राप्तस्य व्रणस्य कारणात् पडुमलेनगरस्य पेरुमालुबल्लालः इत्यस्य राज्ञः चिकित्सां कृतवती । अतः पेरुमालुबल्लालः स्वस्य प्रासादे (बीडु) तस्याः वासव्यवस्थां कृतवान् । देईबैदाती युगलयोः पुत्रयोः प्रसूतेः कतिपयेभ्यः दिनेभ्यः अनन्तरं मृता |
बाल्यम्
सम्पादयतुपेरुमालुबल्लला सायनबैद्यः इत्यस्मै कोटिचन्नययोः पालनदायित्वं दत्तवान् । बालकाः पुष्टाः सन्तः वर्धन्ते स्म । पेरुमाळुदेशस्य बल्लालस्य मन्त्री मल्लय्यबुद्यान्तस्य आरम्भादेव देईबैदेत्या, कोटिचेन्नयाभ्यां च सह वैरभावः आसीत् । अयं विरोधः तदा युद्धरूपेण विकसितः यदा मल्लयबुद्यान्तस्य बालकैः सः कोटिचेन्नयोः क्रीडा आरब्धा । प्रवृद्धौ कोटिचेन्नयौ कृषिकार्यस्य उत्तरदायित्वं स्वीकृतवन्तौ ।
कृषिविषये विवादस्य कारणेन चेन्नयः मल्लैयबुद्यन्तस्य वधं कृतवान् । अभियोगात् परं तयोः प्रश्ने कृते तौ न्यायमार्गे एव स्वः इति उक्त्वा राजप्रासादात् निर्गतौ । पेरुमाळुदेशस्य बल्लालः तौ बन्द्धुम् आदिष्टवान् । परन्तु कोटित्चेन्नयौ पेरुमालुप्रदेशस्य सीमातः पञ्जाप्रदेशे प्रविष्टवन्तः । प्रविशन्तौ तौ कञ्चन दैवज्ञं आगामिदिनानां विषये पृष्टवन्तौ । कोटिचेन्नययोः अग्रजा किन्निदारुः पञ्जनगरे निवसति स्म । कोटिचेन्नयौ पञ्जे किन्निदारूगृहे शरणं गतवन्तः । पञ्जस्य कश्चन अधिकारी चेन्दुगिडी कोटिचेन्नययोः प्रगतिम् सोढुं न शक्तवान्, तौ द्वौ अपि युक्त्या गृहीतवान् । कोटिचेन्नयौ केर्मलेब्रह्मदेवं स्तुतवन्तौ । देवकृपया वातायनात् पलायनमार्गं प्राप्य एण्मूरुग्रामं गतवन्तौ ।
एण्मूरुग्रामे
सम्पादयतुएण्मूरुप्रदेशीयानां पञ्जप्रदेशीयानां च सीमाविषये विवादः अभवत् । पञ्जस्य केमरबल्लालः सीमाशिलायाः स्थलपरिवर्तनेन एण्मूरुग्रामस्य भूमिं वशीकृतवान् आसीत् । कोटिचेन्नयाभ्यां स्वस्थाने भारयुता सीमाशिला पुनःप्रतिष्ठापिता । तदा एव एण्मूरुप्रदेशे कोटिचेन्नयौ प्रसिद्धौ आसन् । एण्मूरस्य देवबल्लालः कोटिचेन्नयोः स्वागतं कृत्वा जनानाम् इच्छानुसारं विवादितस्थले तयोः निवासार्थम् अनुमतिं दत्तवान् ।
युद्धम्, मृत्युः
सम्पादयतुकोटिचेन्नययो ग्रहणस्य उद्देश्यं कृत्वा पदुमलेनगरस्य पेरुमालु बल्लालः, पञ्जानगरस्य केमराबल्लालः च एण्मूरुराज्ये आक्रमणं कृतवन्तौ । युद्धे शौर्यपूर्वकं युद्धं कृतवन्तौ कोटिचेन्नयौ एण्मूरुशिवमन्दिरस्य प्राङ्गणे वीरमृत्युं प्राप्तवन्तौ । मृत्योः अनन्तरं पेरुमालुबल्लालः, केमरबल्लालः च अतीव दुःखितौ अभूताम् । कोटिचेन्नययोः अन्तिमा इच्छा आसीत् यत् यः ज्यौतिषिकः पञ्जसीमायां ज्यौतिषं कथितवान् आसीत् तस्य परिवारः शिवमन्दिरे पूजां कुर्यात् इति। [२]
सामाजिककार्याणि
सम्पादयतुकोटिचेन्नययोः अनेकानि सामाजिककार्याणि तुळुजानपदगीतेषु (पाड्दन) उल्लिखितानि सन्ति । कोटिचेन्नयौ आरम्भादेव धनिकानाम् अकार्याणि विरुद्ध्य कार्यं कृतवन्तौ । स्वबलेन बहून् सरोवर-तडागादीन् निर्मितवन्तौ । कृषिं वन्यपशुभ्यः रक्षितवन्तौ
इत्यादीनि अनेकानि वर्णनानि सन्ति । अत एव कोटिचेन्नययोः दैवत्वं प्रकल्प्य तुलुनाडुप्रदेशे अनेकभागेषु पूजास्थानानाम् (गराडी) निर्माणं कृतम् अस्ति ।
उल्लेखाः
सम्पादयतु- ↑ "Shree Brahma Baidarkala Garodi Kshethra". kankanadygarodi.in. Archived from the original on 2016-09-27. आह्रियत 2017-03-05.
- ↑ ಕೋಟಿ ಚೆನ್ನಯ
अधिकपठनार्थम्
सम्पादयतु[१]ಕೋಟಿಚೆನ್ನಯ, ಪಂಜೆ ಮಂಗೇಶರಾಯರು, ಬಾಲಸಾಹಿತ್ಯಮಂಡಲ ಲಿಮಿಟೆಡ್ ಕೋಡಿಯಾಲಬೈಲು ಮಂಗಳೂರು