प्रमुखा विकल्पसूचिः उद्घाट्यताम्
भारतदेशस्य सामन्यकृषिभूमिः
समृद्धं शुण्ठिक्षेत्रम्
विषरहितान्नोत्पदानार्थं साम्प्रदायिककर्षणम्
कर्मनिरताः भारतीयकृषकाः


कृषिः ( /ˈkrʃhɪhɪ/) (हिन्दी: कृषि, आङ्ग्ल: Agriculture) शब्द आङ्ग्लभाषायां ‘एग्रीकल्चर्’ इति उच्यते । एग्रीकल्चर् इत्यस्य शब्दस्य उत्पत्तिः लैटिन-भाषायाः जाता । लैटिन-भाषायाम् एगर् वा एग्री शब्दः अस्ति, यस्य अर्थःमृत्तिका इति भवति । अनन्तरं कल्चर् इत्यस्य शब्दस्य अर्थः कृषिः इति । कृषिः एका प्राथमिकी क्रिया अस्ति । सस्यानि, फलानि, पुष्पाणि, पशुपालनम् इत्यादयः विषयाः कृषिकार्येण सह सम्बद्धाः अस्ति । विश्वस्य ५०% जनाः कृषिकार्येण सह संलग्नाः सन्ति ।[१]

अन्तर्विषयाः

कृषेः इतिहासःसम्पाद्यताम्

आदिमानवकाले मानवाः वन्यपशून् मृगयन्ति स्म । तस्मिन् काले तदेव तेषां भोजनम् आसीत् । कालान्तरे कन्दमूलानि, फलानि, स्वतः जायमानानि अन्नानि च खादन्ति स्म । तदनन्तरं तैः मानवैः कृष्याः अन्नोपादनस्य प्रारम्भः कृतः । फ्रान्स्-देशे आदिमकालिनाः कन्दराः प्राप्ताः । तासां कन्दराणाम् उत्खननेन अध्ययनेन च ज्ञातं भवति यत् पूर्वपाषाणयुगे एव मनुष्याः कृषिकर्मणि व्यापृताः अभवन् । वृषभैः कृष्याः प्रमाणं मिश्र-देशस्य पुरातनसभ्यता अस्ति ।

भारते पाषाणयुगे कृषेः विकासः कियत्, कथम् अभवत् ? इति न ज्ञायते । किन्तु सिन्धुनद्याः तटे तत्कालीनाः अवशेषाः प्राप्ताः । गोधूमस्य ट्रिटिकम कम्पैक्टम, ट्रिटिकम स्फीरौकोकम इति प्रकारद्वयस्य प्रजातेः अवशेषाः प्राप्ताः ।

कृषितन्त्रम्सम्पाद्यताम्

कृषिः तन्त्ररूपेण अस्ति । कृषौ बीजानाम्, उर्वरकस्य, आधुनिकयन्त्राणां, श्रमिकाणां च निवेशः भवति । अस्मिन् तन्त्रे ऊर्णानां, दुग्धशालायाः, कुक्कुटानां, सस्यानां च उत्पादनं भवति ।

  • एग्रीकल्चर् - अस्यां कृषौ सस्योत्पादनं, पशुपालनस्य विज्ञानं कलाश्च इत्यादयः भवन्ति ।
  • सेरीकल्चर् – कौशेयस्य(silk) कीटकानां वाणिज्यं पालनं सेरीकल्चर् इत्युच्यते । इयं कृषिः कृषकस्य धनार्जने सहायिका भवति ।
  • पिसीकल्चर् – तडागानां नदीनांमत्स्यानां पालनं पिसीकल्चर् इत्युच्यते ।
  • विटिकल्चर् – विटिकल्चर् इत्यस्यां द्राक्षाणां कृषिः भवति ।
  • हॉर्टीकल्चर् – वाणिज्योपयोगाय शाकानां, पुष्पाणां, फलानां च उत्पादनं हॉर्टीकल्चर् इत्युच्यते ।[२]

कृषेः प्रक्रियाःसम्पाद्यताम्

कृषिकार्ये अनुकूलस्थलाकृतेः, मृत्तिकायाः, जलवायोः च आवश्यकता वर्तते । यस्यां भूमौ सस्योत्पादनं भवति सा कृषिगतभूमिः इति कथ्यते ।

सस्यानां रोपणकार्यस्य आरम्भात् कृषिकार्ये प्रकारत्रयस्य आर्थिकक्रियाः सम्मिलिताः सन्ति ।

  • प्राथमिकी क्रिया
  • द्वैतीयिकी क्रिया
  • तार्तीयिकि क्रिया

येषां कार्याणां सम्बन्धः प्राकृतिकसंसाधनानाम् उत्पादनैः, निष्कर्णेण च सह अस्ति तानि कार्याणि प्राथमिकक्रियायाम् अन्तर्भवति । प्राथमिकक्रियायां कृषिः, मत्स्यपालनं, संग्रहणम् इत्यादीनि कार्याणि सन्ति ।

द्वैतीयिकक्रियायाः सम्बन्धः संसाधनानां प्रसंस्करणेन सह भवति । अस्यां क्रियायाम् आयसानां विनिर्माणं, पाचनं, वस्त्रनिर्माणम् इत्यादीनि कार्याणि भवन्ति ।

तार्तीयिकक्रिया प्राथमिक-दवैतीयिकक्रियाभ्यां सेवाकार्यैः साहाय्यं कुर्वन्ति । तस्यां क्रियायां व्यापारः, यातायातं, अधिकोष-व्यापारः(Banking), अभिरक्षा (Insurance), विज्ञापनम् इत्यादीनि कार्याणि सन्ति ।[३]

कृषेः प्रकाराःसम्पाद्यताम्

विश्वस्मिन् बहुषु प्रकारेषु कृषिः क्रियते । कृषेः मुख्यप्रकारद्वयम् अस्ति । प्रथमा निर्वाहकृषिः अपरा वाणिज्यकृषिः ।

निर्वाहकृषिःसम्पाद्यताम्

यया कृष्या कृषकपरिवारस्य आवश्यकतापूर्तिः भवति सा निर्वाहकृषिः उच्यते । न्यूनानाम् उपजानां प्राप्तयै निम्नस्तरीयस्य प्रौद्योगिकेः, पारिवारिकश्रमस्य च उपयोगः क्रियते । निर्वाहकृषिः प्रकारद्वयस्य अस्ति ।[४]


अस्यां कृषौ कृषकः एकस्मिन् लघुस्थाने एव अधिकश्रमेण कृषिं करोति । यस्मिन् क्षेत्रे उष्णतापी जलवायुः, उर्वरा भूमिः च वर्तते, तस्मिन् क्षेत्रे प्रतिवर्षम् एकाधिकानां सस्यानाम् उत्पादनं भवितुम् अर्हति । तेषु सस्येषु तण्डुलाः मुख्याः सन्ति । अन्येषु सस्येषु गोधूमः, मखाः सम्मिलिताः सन्ति । इयं कृषिः दक्षिणी, दक्षिण-पूर्वी, पूर्वी एशिया इत्येतेषु अधिकजनसङ्ख्यायुक्तेषु प्रदेशेषु प्रचलिता अस्ति ।

आदिमनिर्वाहकृषिःसम्पाद्यताम्

अस्याः कृषेः प्रकारद्वयम् अस्ति । स्थानांतरीतकृषिः, पशुपालनम् च ।

स्थानान्तरीतकृषिःसम्पाद्यताम्

स्थानान्तरीतकृषिः अमेजन-द्रौण्याः वन्यक्षेत्रे, उष्णकटिबन्धिये आफ्रिका-देशे, एशिया-खण्डस्य दक्षिण-पूर्वभागेषु, भारतस्य उत्तर-पूर्वभागेषु प्रचलिता अस्ति । एतेषु क्षेत्रेषु अधिकमात्रायां वर्षा भवति । वनस्पतेः उत्पादनम् अपि शीघ्रं भवति । वृक्षाणां छेदनं, दाहनं च कृत्वा भूमेः स्वच्छता क्रियते । तदनन्तरं रक्षाः मृत्तिकासु मेलयन्ते । ततः परं मखाः, आलुकाः, सूरकन्दः इत्यादयानि सस्यानि उत्पाद्यन्ते । उत्पादनानन्तरं कृषकः तत्स्थानं त्यक्त्वा अन्यं स्थानं गत्वा कृषिं करोति । अतः स्थानान्तरीकृषिः इति कथ्यते । कर्तनकृषिः, दहनकृषिः च इत्यस्याः कृषेः अपरे नामनी स्तः ।[५]

पशुपालनम्सम्पाद्यताम्

सहारा इत्यस्य शुष्कप्रदेशेषु, मध्यएशियाखण्डे, भारतस्य राजस्थानराज्ये जम्मु-कश्मीरराज्ये च इयं कृषिः प्रचलति । पशुपालकः स्वस्य पशुभिः सह एकस्मात् स्थानात् अन्यस्थानं प्रति निश्चितमार्गेषु गच्छति । तत्र ते जलम् अन्नं च प्राप्नुवन्ति । अनेन जलवायोः क्लेशः भवति । पशुपालकाः उष्ट्रान्, अजा, मेषान्, याक् इत्यादीन् पशून् पालयन्ति । तेभ्यः पशुभ्यः कृषकाः दुग्धं, मांसम्, ऊर्णम्, चर्म अन्योत्पादनानि च प्राप्नुवन्ति ।[६]

वाणिज्यकृषिःसम्पाद्यताम्

वाणिज्यकृषौ सस्योत्पादनं पशुपालनं च आपणेषु विक्रयणार्थं भवति । अस्यां कृषौ विस्तृतभूमेः आवश्यकता भवति । अधिकधनस्य निवेशः अपि आवश्यकः वर्तते । अधिकतमानि कार्याणि यन्त्रैः भवन्ति । वाणिज्यकृषेः प्रकारत्रयम् अस्ति । १ वाणिज्यधान्यकृषिः, २ मिश्रितकृषिः ३ रोपणकृषिः च ।

वाणिज्यधान्यकृषिःसम्पाद्यताम्

अस्यां कृषौ वाणिज्यदृष्ट्या एव सस्यानाम् उत्पादनं भवति । गोधूमः, मखाः च सामान्यकृषेः सस्याः सन्ति । उत्तर-अमेरिका-खण्डे, यूरोप-खण्डे, एशिया-खण्डे च शीतोष्णतृणक्षेत्राणि सन्ति । तानि क्षेत्राणि वाणिज्यधान्यकृषेः प्रमुखाणि क्षेत्राणि सन्ति । तत्र क्षेत्रम् अधिकं शीतलं भवति । अधिका शीतलता सस्योत्पादने बाधां करोति । अतः एकम् एव सस्यम् उत्पादयितुं शक्यते ।[७]

मिश्रितकृषिःसम्पाद्यताम्

अस्याम् कृषौ भूमेः उपयोगः भोजनस्य तृणस्य च सस्यानाम् उत्पादनाय, पशुपालनाय च क्रियते । यूरोप-खण्डे, सयुक्त राज्य अमेरिका इत्यस्य पूर्वभागे, अर्जेण्टीना, आस्ट्रेलिया-खण्डस्य दक्षिण-पूर्वभागे, न्यूजीलैण्ड-देशे, दक्षिण-आफ्रिका-देशे इयं कृषिः प्रचलिता अस्ति ।

रोपणकृषिःसम्पाद्यताम्

इयं वाणिज्यकृषेः कश्चित् प्रकारः वर्तते । अस्यां कृषौ चायस्य, काजूतकस्य, कहवा इत्यस्य, निर्यासस्य(rubber), कदलीफलस्य, कार्पासस्य इत्यादीनाम् उत्पादनं भवति । रोपणकृषौ श्रमस्य धनस्य च द्वयोः महत्यावश्यकता भवति । सस्यानाम् उत्पादनानन्तरं स्वच्छताकार्यं क्षेत्रे समीपस्थे यन्त्रागारे एव भवति । अतः अस्यां कृषौ परिवहनसाधनानाम् आवश्यकता भवति ।

विश्वस्य उष्णकटिबन्धीयप्रदेशेषु रोपणकृषिः भवति । मलेशिया इत्यस्मिन् आघर्षणेः(rubber), ब्राजील-देशे कहवा इत्यस्य, भारत-देशे श्रीलङ्का-देशेचायस्य उत्पादनं भवति ।[८]

सस्यानां प्रकाराःसम्पाद्यताम्

भारत-देशे विविधाः संस्कृतयः सन्ति । तथैव कृषिः, सस्यानि च बहुप्रकारकाणि सन्ति । भारत-देशे उत्पाद्यमानानि सस्यानि बहुप्रकारकाणि सन्ति । तेषु सस्येषु खाद्यान्नं, तन्तुसस्यं, शाकानि, फलानि च भवन्ति ।[९] [[भा]रत]]-देशे त्रयः सस्यर्तवः सन्ति । रबी, खरीफ, जायद च ।

रबीसम्पाद्यताम्

शीतर्तौ अक्टूबर-मासतः दिसम्बर-मासाभ्यान्तरं रबी-सस्यानां रोपणं क्रियते । ततः परं ग्रीष्मर्तौ अप्रैल-मासतः जून-मासाभ्यान्तरं रबी-सस्यानां कर्तनं क्रियते । गोधूमः, यवः, हरेणुः(मटर), चणकः, सर्षपः च इत्यादीनि मुख्यानि रबी-सस्यानि सन्ति । इदं सस्यं भारत-देशस्य विस्तृतभागेषु उत्पाद्यते । उत्तर-उत्तरपश्चिमस्थ राज्येषु (पञ्जाब, हरियाणा, हिमाचलप्रदेश, जम्मू-कश्मीर, उत्तराखण्ड, उत्तरप्रदेश) उत्पाद्यते । एतानि राज्यानि रबी-सस्यानाम् उत्पादने महत्वपूर्णराज्यानि सन्ति । शीतर्तौ पश्चिमीवर्षा रबी-सस्यानाम् उत्पादने साहाय्यं करोति ।[१०]

खरीफसम्पाद्यताम्

ग्रीष्मर्तोः परं वर्षर्तोः आगमने खरीफ-सस्यानां रोपणं क्रियते । ततः परं सितम्बर-मासतः अक्टूबर-मासाभ्यान्तरं खरीफ-सस्यानां कर्तनं क्रियते । अस्मिन् ऋतौ तण्डुलाः, मखाः, ज्वार, बाजरा, तुअर(अरहर), मुद्गः, माषः, कार्पासः, जूट, कलायः (मुंगफली), सोयाबीन च इत्यादीनि महत्वपूर्णानि सस्यानि भवन्ति ।[११]

जायदसम्पाद्यताम्

रबी-खरीफ इत्येतयोः सस्ययोः मध्ये ग्रीष्मर्तौ जायद-सस्यानां रोपणं क्रियते । अस्मिन् सस्ये कालिङ्गं, वृत्तकर्कटी, शाकः, तृणसस्यं च उत्पाद्यते ।[१२]

मुख्यानि सस्यानिसम्पाद्यताम्

विश्वस्य जनसङ्ख्यायाः वृद्धिः वेगेन भवति । अतः जनानाम् आवश्यकतापूर्त्यर्थं विविधानि सस्यानि उत्पाद्यन्ते । सस्यानि कृष्याधारितेभ्यः व्यवसायेभ्यः अपक्वसामग्र्याः पूर्तिं कुर्वन्ति । तेषु गोधूमः, मखाः, तण्डुलाः खाद्यसस्यानि सन्ति । शणं(पटसन), कार्पासः तन्तुसस्यानि सन्ति । कहवा, चायं पेयसस्ये स्तः ।

खाद्यसस्यानिसम्पाद्यताम्

तण्डुलाःसम्पाद्यताम्

इदं विश्वस्य प्रमुखं खाद्यवस्तुः अस्ति । इदम् उष्णकटिबन्धीयस्य, उपोष्णकटिबन्धीयस्य च प्रदेशस्य मुख्याहारः अस्ति । तण्डुलेभ्यः उच्चतापमानं(२५ सेल्सियस् इत्यस्मात् अधिकः), अधिकार्द्रतायाः, अधिकवर्षायाः(१०० से. मी. इत्यस्मात् अधिकः) आवश्यकता भवति ।[१३] इदं चीका-युक्तायां मृत्तिकायां भवति । सा मृत्तिका जलावरोधनाय श्रेष्ठ भवति । चीन-देशः अस्य सस्योत्पादने सर्वप्रथमः गण्यते । ततः परं क्रमशः भारत-देशः, जापान्-देशः, श्रीलङ्का-देशः, मिस्र-देशः च अस्ति ।

तण्डुलानां कृषिः मुख्यत्वेन असम-राज्ये, पश्चिमबङ्गाल-राज्ये, ओडिशा-राज्ये, आन्ध्रप्रदेश-राज्ये, तमिळनाडु-राज्ये, केरल-राज्ये, महाराष्ट्र-राज्ये उत्तरप्रदेश-राज्ये, बिहार-राज्ये च क्रियते ।[१४]

तण्डुलानाम् उत्पादने पञ्जाब-राज्यं, हरियाणा-राज्यं च प्रसिद्धम् अस्ति । अनयोः राज्ययोः तण्डुलानां विशिष्टानि सस्यानि प्राप्यन्ते । असम-राज्ये, पश्चिमबङ्गाल-राज्ये, ओडिशा-राज्ये च तण्डुलानां सस्यत्रयम् उत्पाद्यते । तानि - ऑस, अमन, बोरो च ।

गोधूमःसम्पाद्यताम्

गोधूमस्य उत्पादनकाले मध्यमतापमानस्य वर्षायाः च आवश्यकता भवति । सस्यकर्तने उच्चतापस्य आवश्यकता भवति । ५० से. मी. तः ७५ से. मी. पर्यन्तं वार्षिकवर्षायाः आवश्यकता भवति ।[१५] दुमट-मृत्तिकायाम् अस्य विकासः उत्तमः भवति । संयुक्त राज्य अमेरिका-देशे, कनाडा-देशे, अर्जेण्टीना-देशे, रूस्-देशे, यूक्रेन-देशे, आस्ट्रेलिया-देशे, भारत-देशे च विशेषरूपेण अस्य उत्पादनं भवति । भारत-देशे इदं शीतर्तौ भवति ।[१६]

मिलेट् (Millets) (बाजरा/ज्वार/रागी)सम्पाद्यताम्

इदं सस्यम् उर्वरामृत्तिकायां भवति । अस्य सस्यस्य उत्पादने न्यूनवर्षायाः, उच्चमध्यमस्य तापमानस्य, सूर्यस्य पर्याप्तप्रकाशस्य आवश्यकता भवति । इदं भारत-देशे उत्पाद्यते । नाइजीरिया-देशे, चीन-देशे, नाइजर-देशे च अस्य सस्यस्य उत्पादनं भवति ।[१७]

मखाः (मक्का)सम्पाद्यताम्

इदं कॉर्न इति अपि कथ्यते । अस्य विभिन्नाः प्राजतयः सन्ति । अस्य सस्यस्य उत्पादने मध्यमतापमानस्य(२१ तः २७ सेल्सियस्), वर्षायाः, उष्णतापस्य आवश्यकता भवति ।[१८]अस्योत्पादने उर्वरामृत्तिकायाः आवश्यकता भवति । इदं सस्यम् उत्तर-अमेरिका, ब्राजील-देशे, चीन-देशे, रूस-देशे, कनाडा-देशे, भारत-देशे, मेक्सिको-देशे च भवति ।[१९]

दाल-सस्यंसम्पाद्यताम्

भारत-देशः विश्वस्मिन् दाल-सस्यस्य बृहदुत्पादकः उपभोक्ता च वर्तते । शाकाहारीभोजने दाल-सस्यं सर्वाधिकं प्रोटिन् इतीदं ददाति । तुर(अरहर), माषः, मुद्गः, मसूरिकाः, हरेणुः, चणकः च इत्यादीनि मुख्यानि दाल-सस्यानि सन्ति । दाल-सस्येभ्यः न्यूनार्द्रतायाः आवश्यकता भवति । एतानि सस्यानि शुष्कपरिस्थितौ अपि उत्पादयितुं शक्यन्ते । अरहर इतीदं विहाय अन्यानि दाल-सस्यानि वायोः नाइट्रोजन-वायुं प्राप्यन्ते । भारत-देशस्य मध्यप्रदेश-राज्ये, उत्तरप्रदेश-राज्ये, राजस्थान-राज्ये, महाराष्ट्र-राज्ये, कर्नाटक-राज्ये च अस्य कृषिः भवति ।[२०]

इक्षुदण्डम्सम्पाद्यताम्

इक्षुदण्डम् उष्ण-उपोष्णकटिबन्धीयसस्यं वर्तते । अस्य उत्पादने २१ सेल्सियस् तः २७ सेल्सियस् पर्यन्तं तापमानस्य, ७५ से. मी. तः १०० से. मी. पर्यन्तं वर्षायाः, आर्द्रजलवायोः च आवश्यकता भवति । अस्य उत्पादने शारीरिकश्रमः अधिकः भवति । ब्राजिल-देशे इक्षुदण्डस्य सर्वाधिकतया कृषिः भवति । ततः परं भारत-देशे भवति । इक्षुदण्डेभ्यः शर्करा, गुडः इत्यादीनि वस्तूनि निर्मीयन्ते । भारत-देशे उत्तरप्रदेश-राज्ये, महाराष्ट्र-राज्ये, कर्नाटक-राज्ये, तमिळनाडु-राज्ये, आन्ध्रप्रदेश-राज्ये, बिहार-राज्ये, पञ्जाब-राज्ये, हरियाणा-राज्ये च अस्य कृषिः भवति । [२१]

तिलहनसम्पाद्यताम्

तिलहन-सस्यानां सर्वश्रेष्ठोपादकः भारत-देशः वर्तते । भारतस्य कृषिक्षेत्रेषु १२% कृषिक्षेत्रेषु विभिन्नानि तिलहन-सस्यानि उत्पाद्यन्ते । कलायः(groundnut), सर्षपः, नारिकेलं, तिलः, सोयाबीन, एरण्डः, बिनौला, अलसी, सूरजमुखी इत्यादीनि प्रमुखाणि तिलहन-सस्यानि सन्ति । एतेषु अधिकतमानि खाद्यसस्यानि सन्ति । अस्य पाचने अपि उपयोगः भवति ।[२२]

कलायः खरीफ-सस्यम् अस्ति । भारत-देशस्य तिलहन-उत्पादनस्य ५०% कलायस्य कृषिः भवति । आन्ध्रप्रदेश-राज्यम् अस्य सस्यस्य प्रमुखोत्पादकम् अस्ति । तमिळनाडु-राज्ये, कर्नाटक-राज्ये, गुजरात-राज्ये, महाराष्ट्र-राज्ये अपि अस्य कृषिः भवति ।

अलसी, सर्षपः च रबी-सस्यम् अस्ति । उत्तरभारते तिलः खरीफ-सस्यम् अस्ति । दक्षिणभारते तिलः रबी-सस्यमस्ति । एरण्डः रबी-खरीफ इत्येतयोः द्वयोः सस्यम् अस्ति ।[२३]

काफीसम्पाद्यताम्

भारत-देशः काफी इत्यस्य गुणवत्तायां विश्वस्मिन् प्रसिद्धः अस्ति । अस्य सस्यस्य कृषेः आरम्भः बाबा बूदन पर्वते अभवत् । विश्वस्य ४% काफी इत्यस्य उत्पादनं [[भारत[[-देशे भवति ।[२४] अस्माकं देशे अरेबिका प्रजातेः काफी उत्पाद्यते । यमन-देशात् इदं सस्यम् आनीतम् आसीत् । अस्य प्रजातेः अभियाचना सम्पूर्णे विश्वे अस्ति । इदानीम् अस्य कृषिः नीलगिरि-पर्वतेषु भवति । कर्नाटक-राज्ये, केरल-राज्ये, तमिळनाडु-राज्ये अस्य कृषिः भवति ।

काफी इत्यस्य अन्वेषणं ८५० तमे वर्षे एकेन कालदी-नामकेन अरबवासिना कृतम् आसीत् ।[२५]अस्य सस्यस्य उत्पादने उष्णार्द्रयोः जलवायोः आवश्यकता भवति । पर्वतरोधसि अस्य उत्पादनम् उत्तमरीत्या भवति । ब्राजील-देशः काफी इत्यस्य उत्पादने अग्रणी अस्ति । ततः परं कोलम्बिया-देशः, भारत-देशः च अस्ति ।

चायम्सम्पाद्यताम्

चायस्य कृषिः रोपणकृषिः अस्ति । चाय-सस्यम् कश्चित् पेयपदार्थः अस्ति । अयं पेयपदार्थः आङ्ग्लैः आनीतः आसीत् । अस्योत्पादने उष्ण-उपोष्णकटिबन्धीयजलवायोः, ह्युमस-जीवांशयुक्तायाः गूढामृत्तिकायाः आवश्यकता भवति । मन्दवर्षा अस्योत्पादने साहाय्यं करोति ।[२६]

चायम् उद्यानेषु उत्पाद्यते । अस्योत्पादने शीतलजलवायोः, आवर्षम् उच्चवर्षायाः आवश्यकता भवति । अस्मिन् सस्ये पत्राणि भवन्ति । अतः कर्तनकार्ये अधिकानां श्रमिकाणाम् आवश्यकता भवति ।[२७]

भारतस्य पश्चिमबङ्गाल-राज्यस्य दार्जिलिङ्ग-मण्डलस्य, जलपाईगुडी-मण्डलस्य च पर्वतक्षेत्रे चायस्य कृषिः भवति । तमिळनाडु-राज्ये, केरल-राज्ये, हिमाचलप्रदेश-राज्ये, उत्तराखण्ड-राज्ये, मेघालय-राज्ये, आन्ध्रप्रदेश-राज्ये, त्रिपुरा-राज्ये च अपि चायस्य कृषिः भवति । भारत-देशः चाय-उत्पादने सर्वप्रथमः अस्ति ।[२८]

बागवानी-सस्यानिसम्पाद्यताम्

भारते विश्वस्य सर्वाधिकानां फलानाम् उत्पादनं भवति । भारत-देशे उष्ण-शीतोष्णकटिबन्धीय इत्येतयोः द्वयोः प्रकारयोः फलानाम् उत्पादनं भवति ।

महाराष्ट्र-राज्ये, आन्ध्रप्रदेश-राज्ये, उत्तरप्रदेश-राज्ये, पश्चिमबङ्गाल-राज्ये, च आम्रस्य उत्पादनं भवति ।

नागपुर-मण्डले, चेरापूञ्जी-मण्डले च नारङ्गफलस्य उत्पादनं भवति ।

केरल-राज्ये, मिजोरम-राज्ये, महाराष्ट्र-राज्ये, तमिळनाडु-राज्येकदलीफलस्य उत्पादनं भवति ।

मेघालय-राज्ये अनासफलस्य उत्पादनं भवति ।

आन्ध्रप्रदेश-राज्ये, महाराष्ट्र-राज्येद्राक्षाफलस्य उत्पादनं भवति ।

हिमाचलप्रदेश-राज्ये, जम्मू-कश्मीर-राज्ये च आताफलस्य(apple), अक्षोटफलस्य च उत्पादनं भवति ।[२९]

भारतदेशः विश्वस्य १३% शाकानि उत्पाद्यन्ते । हरेणुः, पलाण्डुः, कपिशाक, पुष्पशाक, रक्तफलं, वृन्ताकः, आलुकं च इत्यादीनि शाकानि भारतस्य प्रमुखोत्पादनानि सन्ति ।

अखाद्यसस्यानिसम्पाद्यताम्

कार्पासःसम्पाद्यताम्

अस्योत्पादने उच्चतापमानस्य, न्यूनवर्षायाः, २१० दिनानां, उष्णतापस्य आवश्यकता भवति । इदं सस्यं कृष्णमृत्तिकायाम् उत्तमं भवति । चीन-देशः, संयुक्त-राज्य-अमेरिका-देशः, भारत-देशः, पाकिस्तान-देशः, ब्राजील-देशः, मिश्र-देशः च कार्पासस्योत्पादने प्रसिद्धः अस्ति । सूतीवस्त्रोद्योगे अस्य उपयोगः भवति ।[३०]

महाराष्ट्र-राज्यं, गुजरात-राज्यं, मध्यप्रदेश-राज्यं, कर्नाटक-राज्यं, आन्ध्रप्रदेश-राज्यं, तमिळनाडु-राज्यं, पञ्जाब-राज्यं, हरियाणा-राज्यं, उत्तरप्रदेश-राज्यं च कार्पासस्य प्रमुखोत्पादकानि राज्यानि सन्ति ।[३१]

शणम्(पटसन)सम्पाद्यताम्

अयं स्वर्णमयः तन्तुः अपि कथ्यते । अस्योत्पादने उच्चतापमानस्य, अधिकवर्षयाः, आर्द्रजलवायोः च आवश्यकता भवति । इदं सस्यम् उष्णकटिबन्धीयक्षेत्रे उत्पाद्यते । भारत-देशः, बाङ्गलादेशः च अस्य सस्यस्य मुख्योत्पादनकेन्द्रम् अस्ति ।[३२]

भारत-देशस्य पश्चिमबङ्गाल-राज्यं, बिहार-राज्यं, असम-राज्यं, ओडिशा-राज्यं, मेघालय-राज्यं च अस्य सस्यस्य मुख्योत्पादकम् अस्ति ।[३३]

निर्यास(rubber)सम्पाद्यताम्

निर्यासस्य उत्पादने २०० से. मी. वर्षायाः, २५ सेल्सियस् तापमानस्य जलवायोः च आवश्यकता भवति । इदं सस्यं भूमध्यरेखीयक्षेत्रस्य सस्यम् अस्ति । किन्तु विशेषपरिस्थितौ उष्ण-उपोष्णक्षेत्रेषु अपि अस्य कृषिः क्रियते ।

इदम् अपक्वं वस्तु अस्ति । निर्यासस्य उपयोगः उद्योगेषु भवति । केरल-राज्ये, तमिळनाडु-राज्ये, कर्नाटक-राज्ये, अण्डमान-निकोबार द्वीपसमूहे, मेघालय-राज्ये च गोरोपर्वतक्षेत्रेषु इदम् उत्पाद्यते । प्राकृतिकस्य निर्यासस्य उत्पादने भारत-देशः विश्वस्मिन् पञ्चमे क्रमाङ्के अस्ति ।[३४]

कृषेः उपकरणानिसम्पाद्यताम्

सुसस्योत्पादननिमित्तं कृषौ बहूनि उपकरणानि उपयुज्यन्ते । तेषु – हलः, कुदाली(pick), कृषीवलः च । एतानि प्रमुखाणि उपकरणानि सन्ति ।

हलःसम्पाद्यताम्

प्राचीकालादेव हलस्य उपयोगः कृष्यर्थं भवति । इदम् उपकरणं काष्ठेन निर्मितं भवति । वृषभयुग्मैः अन्यपशूनां युग्मैः च हलः उह्यते । अस्य उपकरणस्य अग्रभागे लौहस्य क्षुरपत्रं भवति । तत् फाल् इति कथ्यते । हलस्य मुख्यभागः काष्ठेन निर्मितः भवति । तत् हल-शैफ्ट् इति कथ्यते । अस्य एकस्मिन् कोणे ग्राहः(handle) भवति । अपरः कोणः जोत इत्यनेन सम्बद्धः भवति । तत् वृषभयोः ग्रीवयोः स्थाप्य सम्बद्ध्यते । वृषभयुग्मं, कश्चित् व्यक्तिः च अयं सारल्येन चालयितुं शक्यते । साम्प्रतं तु काष्ठस्य स्थाने लौहस्य हलाः भवन्ति ।[३५]

कुदाली(pick)सम्पाद्यताम्

इदम् एकं सरलम् उपकरणं वर्तते । मृत्तिकायाः उपस्थापने विस्थापने च अस्योपयोगः क्रियते । अस्मिन् उपकरणे लौहस्य दण्डः भवति । तस्य दण्डस्य एकस्मिन् भागे लौहस्य विस्तृता वक्री च प्लेत् इति भवति । तत् क्षुरपत्रमिव कार्यं करोति । अपरः भागः पशुभिः कर्षते ।[३६]


कल्टीवेटर्सम्पाद्यताम्

अद्यतने युगे कृषेः प्रकारः आधुनिकः जातः । इदानीं ट्रेक्टर्-यानेन कल्टीवेटर् इत्यस्य उपयोगः भवति । अस्योपयोगेन श्रमस्य समयस्य च संचयं भवति ।[३७]


कृषौ हरितक्रान्तिःसम्पाद्यताम्

भारत-देशे हरितक्रान्तेः प्रारम्भः १९६६-६७ तमात् वर्षात् अभवत् । हरितक्रान्तेः श्रेयः प्रोफेसर नारमन् बोरलॉग् इत्ययं प्राप्तवान् | सः नोबेल-पुरस्कारस्य विजेता आसीत् । देशस्य सिञ्चित-असिञ्चितक्षेत्रेषु अधिकाधिकतया सस्यानाम् उत्पादनं भवेत् इति हरितक्रान्तेः उद्देश्यम् आसीत् ।

जलवायुपरिवर्तनस्य प्रभावःसम्पाद्यताम्

जलवायोः परिवर्तनेन कृषिः प्रभाविता भवति । सस्यानाम् उत्पादने तापमाने परिवर्तनस्य, आर्द्रतायाः च कारणेन प्रभावः भवति । कृष्या ग्लोबल वॉर्मिङ्ग इतीदं न्यूनम् अधिकं वा भवितुं शक्यते । मृत्तिकायां कार्बनिक-पदार्थानाम् अपघटनेन वायुमण्डले कार्बनडाई ऑक्साईड इत्यस्य वायोः वृद्धिः भवति । अनन्तरम् आर्द्रमृत्तिका अवायवीयमृत्तिका च विनाईट्रीकरण इत्यनेन च नाइट्रोजन-वायुं मुक्तं करोति । मृत्तिकायाः उपयोगः वायुमण्डलात् कार्बनडाई ऑक्साइड वायुं पृथक्करणे भवति ।

कृषौ वैश्वीकरणस्य प्रभावःसम्पाद्यताम्

नवदश्यां शताब्द्यां यदा युरोपीयव्यापारिणः भारतम् आगतवन्तः तदा अपि भारतीयगन्धद्रव्याणां विश्वस्य विभिन्नदेशेषु निर्यातः भवति स्म । दक्षिणभारते अस्य उत्पादनाय कृषकाणां प्रोत्साहनं क्रियते स्म । इदानीमपि गन्धद्रव्याणि भारतदेशात् निर्यातवस्तुषु अन्यतमानि सन्ति ।

ब्रिटिश-काले अपि आङ्ग्लव्यापारिणः भारतदेशस्य कार्पासक्षेत्रे आकृष्टाः अभवन् । तेन कारणेन आङ्ग्लजनैः भारतीयकार्पासस्य विदेशे वस्त्रोद्योगार्थं निर्यातः कृतः । विदेशस्य मैनचेस्टर्, लिवरपुल् इति द्वयोः नगरयोः कार्पासोद्योगः भारतस्य उत्तमकार्पासैः सम्पन्नः जातः ।

१९१७ तमे वर्षे बिहार-राज्ये चम्पारन-आन्दोलनम् अभवत् । तस्य आन्दोलनस्य मुख्यं कारणम् अपि कार्पासोद्योगः एव आसीत् । बिहार-राज्यस्य कृषकाः स्वस्यभूमौ अन्नोत्पादनं कुर्वन्ति स्म । किन्तु आङ्ग्लैः कृषकेभ्यः नील-सस्यस्य कृष्याः आदेशः दत्तः । नील-सस्यं ब्रिटेन-देशस्य कार्पासवस्त्रोद्योगाय अपक्वं वस्तु आसीत् । तेन कारणेन कृषकाः धान्यानां कृषिं कर्तुम् असमर्थाः आसन् । तदा सर्वे कृषकाः खिन्नाः जाताः । तेन चम्पारण-आन्दोलनम् अभवत् ।

१९९० तमात् वर्षात् परं वैश्वीकरणेन भारतीयानां कृषकाणां स्थितिः दयनीया जाता । कृषकाः अधिकपरिश्रमेण अपि वैश्विकस्तरस्य सफलतां प्राप्तुम् असमर्थाः आसन् । भारते बहूनि सस्यानि मुख्यानि सन्ति तथापि सर्वकारस्य साहाय्यं विना ते कृषकाः असमर्थाः आसन् । अन्येषु देशेषु तेषां सर्वकारः कृषौ साहाय्यं कुर्वन्ति ।[३८]

खाद्य-सुरक्षासम्पाद्यताम्

भोजनं मनुष्यस्य आधारभूतम् अस्ति । प्रत्येकेभ्यः नागरिकेभ्यः न्यूनतमपोषणस्तरस्य भोजनं दातव्यम् इति । यदि कोऽपि जनः इदं न प्राप्तवान् अस्ति सः खाद्यसुरक्षया वञ्चितः अस्ति । अतः अस्माकं सर्वकारैः एका प्रणाली आरब्धा । तस्याः नाम राष्ट्रिय खाद्य सुरक्षा प्रणाली इति । अस्याः प्रणाल्याः मुख्यं घटकद्वयम् अस्ति । १ बफर स्टॉक, २ सार्वजनिक वितरण प्रणाली (पी.डी.एस.) ।

सार्वजनिकवितरणप्रणाली इति इयं नगरजनेभ्यः ग्रामजनेभ्यः च खाद्यपदार्थान् निम्नमूल्येषु ददाति । अनेन निर्धनजनाः भोजनं प्राप्तुं समर्थाः अभवन् । खाद्यान्नानां व्यवस्थां फूड् कॉर्पोरेशन् ऑफ् इण्डिया (एफ् सी आई) इति इयं संस्था करोति ।[३९]

कृषिविज्ञानम्सम्पाद्यताम्

कृषिविज्ञाने प्राकृतिकं, आर्थिकं, सामाजिकं च विज्ञानम् अस्ति । अस्मिन् क्षेत्रे निम्नलिखितानि कार्याणि भवन्ति ।

  • सेचनस्य प्रबन्धनम् इत्यादीनि उत्पादनस्य प्रौद्यौगिककार्याणि सन्ति ।
  • गुणवत्तायाः परिमाणस्य च दृष्ट्या कृषेः उत्पादने समीचीनता ।
  • प्राथमिकोत्पादनानाम् अन्तिमभोक्त्रेः उत्पादे परिवर्तनम् ।
  • पर्यावरणीयानां प्रभावाणां समीचीनता ।
  • सस्योत्पादनसम्बन्धयः परम्परागताः कृषिप्रणालयः - इयं प्रणाली जीविकाकृषिः इति अपि कथ्यते । इमाः प्रणालयः विश्वस्य सर्वाधिकानां निर्धनानां पोषणं करोति ।

सम्बद्धाः लेखाःसम्पाद्यताम्

बाह्यसम्पर्कतन्तुःसम्पाद्यताम्

सन्दर्भःसम्पाद्यताम्

  1. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 40. ISBN 9788174508232. 
  2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 41. ISBN 9788174508232. 
  3. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 40. ISBN 9788174508232. 
  4. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 9788174508232. 
  5. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 9788174508232. 
  6. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 9788174508232. 
  7. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 9788174508232. 
  8. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 9788174508232. 
  9. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174506675. 
  10. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174506675. 
  11. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174506675. 
  12. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 38. ISBN 8174506675. 
  13. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 40. ISBN 8174506675. 
  14. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 9788174508232. 
  15. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 40. ISBN 8174506675. 
  16. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 9788174508232. 
  17. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 9788174508232. 
  18. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174506675. 
  19. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 8174506675. 
  20. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174506675. 
  21. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174506675. 
  22. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 42. ISBN 8174506675. 
  23. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675. 
  24. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675. 
  25. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 9788174508232. 
  26. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675. 
  27. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 46. ISBN 9788174508232. 
  28. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675. 
  29. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 43. ISBN 8174506675. 
  30. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 9788174508232. 
  31. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 8174506675. 
  32. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). संसाधन एवं विकास. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 9788174508232. 
  33. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 45. ISBN 8174506675. 
  34. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 44. ISBN 8174506675. 
  35. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). विज्ञान, कक्षा - ८. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 3. ISBN 9788174508201. 
  36. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). विज्ञान, कक्षा - ८. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 3. ISBN 9788174508201. 
  37. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2008). विज्ञान, कक्षा - ८. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 4. ISBN 9788174508201. 
  38. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 48. ISBN 8174506675. 
  39. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT) (2007). समकालीन भारत. 2. राष्ट्रीय शैक्षिक अनुसंधान और प्रशिक्षण परिषद् (NCERT). p. 47. ISBN 8174506675. 
"https://sa.wikipedia.org/w/index.php?title=कृषिः&oldid=429326" इत्यस्माद् पुनः प्राप्तिः