क्रिस्मस्
क्रिस्मस् इत्येतत् पर्व क्रैस्तमतावलम्बिनां महत् पर्व वर्तते । क्रिस्मस् क्रिस्तजयन्ती इत्येतत् क्रैस्तगुरोः येसुक्रिस्तस्य जन्म दिनम् । वर्षस्य डिसेम्बर् २५ दिनाङ्कं येसु क्रिस्तस्य जन्मदिनम् इति सर्वे आचरन्ति । क्रिस्तस्य सुवार्ता(गास्पे्ल) प्रकारं येसु क्रिस्त: मेरी तथा जोसेफ़ एतयो: पुत्र: भूत्वा इदानीन्तने इस्रे्लदेशे विद्यमाने बेत्लेहेम् इति नामके ग्रामे जन्म प्राप्तवान् । क्तुम् एक्स्-मस् इत्यपि वदन्ति ।
क्रिस्मस् क्रिस्मस्-दिवसः | |
---|---|
इतर नामानि | नोयेल् (Noël), नाटिविटि (Nativity), एक्स् मास्(Xmas), यूले (Yule) |
के आचरन्ति | क्रैस्ताः, तथा अन्येऽपि[१][२] |
वर्गः | क्रैस्तमतं, सांस्कृतिकम् |
महत्त्वम् | क्रैस्तमतस्य धर्मगुरोः येशु-महोदयस्य जन्मदिनावसरे धार्मिकोत्सवः |
दिनाङ्कः | डिसेम्बर्-मासस्य २५(सर्व-पाश्चात्यक्रैस्तमन्दिरेषु तथा स्वल्पसङ्ख्यकेषु प्राच्यक्रैस्तमन्दिरेषु, अथवा जनवरी ६, ७ , १९ (अधिकेषु प्राच्यक्रैस्तमन्दिरेषु)[३][४] |
रीतयः | चर्च्-सेवाकार्याणि, उपहारदानं, परिवारजनानां सामाजिकजनानां समावेशः, विशेषालङ्करणम् |
सम्बद्धम् | क्रिस्मस्-टैड्, क्रिस्मस्-इव्, एड्वेन्ट्, अनान्सियेसन्, एपिफानी, बाप्टिसम् अफ् द लार्ड्, नाटिविटी फास्ट्, नाटिविटी अफ् क्रिस्ट्, यूले |
"शत्रुषु अपि स्नेहं कुर्वन्तु, ये भवद्भ्यः घृणां कुर्वन्ति, तेषामपि कल्याणं सम्पादयन्तु । ये भवद्भ्यो द्विषन्ति तेषामपि मंगलाय प्रार्थयन्ताम् । ये भवतः शपन्ति तानपि अनुकम्पताम् " इति सन्ति इमानि उपदेशवचनानि ख्रीष्टधर्मप्रवर्तकस्य ईसामसीहस्य । ईसामसीहः त्यागशीलः लोकोपकारकश्च महापुरुषः आसीत् । स विश्वं स्नेहस्य पाठममाठयत् । प्रायेण द्विसहस्रवर्षेभ्यः पूर्वं दिसम्बरमासस्य पञ्चविशे दिनाङ्के तस्य जन्म अभवत्। तस्य महात्मनः जन्मनः उपलक्ष्ये एव सर्वे तस्य अनुयायिनः इमं दिवसं पर्वरुपेण मानयन्ति। प्रतिवर्षं च पर्व इदं महता उल्लासेन क्रिस्मसोत्सवरूपेण संपन्नः भवति । तस्यैव पुण्यस्मृतौ ख्रीष्टीयः संवत्सरः प्रचलति ।
दिनाङ्क-निर्णयः
सम्पादयतुक्रिस्मस् एकं सार्वत्रिकं विरामदिनम् अपि अस्ति । क्रैस्तानां जनसङ्ख्या न्यूनं यत्र अस्ति जपान्, तादृश देशेषु अपि क्रिस्मस् पर्व समये, वर्षस्य विरामदिनम्, जीसस् एतस्य यतार्थ जन्म दिनाङ्कम् तथा ऐतिहासिकता विषये अपि केाना: वादा: सन्ति । क्रिस्तस्य जन्मदिनं निर्धारकरणस्य यत्नं द्वितीय शतमानत: आरम्भ: अभवत् । क्रैस्त चर्च् एतस्मिन् समये एव स्वस्य सम्प्रदायान् स्थापयितुं प्रयत्नं कुर्वत् आसीत् । तस्मिन् कालस्य सामान्यत: सर्वं मुख्य चर्च् अपि क्रिस्तस्य जन्मदिनं डिसेम्बर् २५ इति अङ्गीकुम् । सामान्यतया सवेर्षु क्रैस्त देशेषु अपि क्रिस्मस् दिनं केवलं न, तस्मिन् पूर्वं कानिचन दिनानि तस्य अनन्तरं कानिचन दिनानि योजयित्वा आचरणं कुर्वन्ति ।
आचरणम्
सम्पादयतुख्रीष्टानुयायिनः अस्मिन् दिने विशेषतः विविधवर्णैः गुब्बारगोलकैः अन्यैश्च क्रीडनकैः "क्रिस्मस्तरुम्" विभूषयन्ति । एषु कोऽपि वयस्को जनः "सेण्टाक्लाज" इति नामकस्य महात्मनः वेषं धरति, बालकेभ्यः चोपायनानि वितरति । तस्य दुग्धधवलानि श्मश्रूणि रक्तं लम्बमान च परिधानं विलोक्य बालाः हृष्यन्ति, करतलध्वनिं च कुर्वन्ति । अयं सेण्टाक्लाजः 'फादरक्रिस्मस्' इति नाम्नापि ख्यातः अस्ति । अत्र इयं जनश्रुतिः, यत् पुरा चतुर्थ शतमाने निकोलसनामा कश्चित् दयालुः धनिकः निर्धनानां साहाय्यम् अकरोत् । बालानां विषये एतस्य अधिका प्रीति: आसीत् । अत: एव बालानां कृते स: एव प्रति वर्षम् उपायनान् आनयति इति वदन्ति । कालान्तरे शनैः शनैः स एव "सन्तनिकोलस्" इति ख्यातो अभवत् । अनन्तरं तमेव जनाः "सेण्टाक्लाज" इत्यपि कथयन्ति स्म ।
क्रिसमस दिवसे ख्रीष्टानुयायिनः "चर्च" इति ख्यातेषु प्रार्थना-गृहेषु सम्भूय प्रार्थनां कुर्वन्ति । सायंकाले गृहे गृहे विविधोत्सवाश्च आयोज्यन्ते । रात्रौ प्रार्थना-गृहाणि निवास-गृहाणि च दीपैः प्रकाश्यन्ते । एवं बहुविधैः आमोदैः प्रमोदैः ख्रीष्टानुयायिनः इमं महोत्सवं सम्पादयन्ति ।
क्रिस्मस् पर्वणः पूर्वतनं दिनं ’क्रिस्मस् ईव्’ इति नाम्ना आचरन्ति । क्रिस्मस् पर्वणः अनन्तरं द्वादशं दिनं ”एसिफ़नि” इति नाम्ना आचरन्ति । यथा क्रिस्मस् नूतन वर्श्:आरम्भस्य समीपे अस्ति इति कारणत: क्रिस्मस् त: नूतन वर्षारम्भ पर्यन्तमपि केान देशेषु विराम: भवति ।
सामाजिकाचरणम्
सम्पादयतुअनेक स्थानेषु क्रिस्मस् कार्यक्रमान् आचरन्ति । क्रिस्मस् पर्वणः निमित्तं गातुम् इत्येव वेशेषगीतानि भवन्ति (क्रिस्मस् क्यारो्ल) । क्रिस्मस् निमित्तं विशेषं भोजनं तु भवति एव - अनेकदेशेषु क्रिस्मस् पर्वणः निमित्तम् एव विशिष्टानि खाद्यानि निर्मान्ति ।
धार्मिक आचरणानि
सम्पादयतुक्रिस्मस् पर्वसम्बंद्धानि धार्मिकाचरणानि डिसेम्बर् मासस्य प्रारम्भे ”अड्वेण्ट्” त: आरम्भ: भवति - इदं पर्व क्रिस्तस्य जन्म निरीक्षमाणं पर्व । क्रिस्मस् पर्वणः केभ्यश्चित् दिनेभ्यः पूर्वं चर्च् सदृश स्थानेषु कानिचन आचरणानि क्रियन्ते । क्रिस्मस् ईव् तथा क्रिस्मस् दिनेषु विशेष पूजाः चर्च् मध्ये कुर्वन्ति । क्रिस्मस् पर्वणः अनन्तरं द्वादशे दिने ”एपिफ़नि” आचरणानन्तरं क्रिस्मस् काल: समाप्यते ।
टिप्पणी
सम्पादयतु- ↑ Christmas as a Multi-faith Festival—BBC News. Retrieved 2008-09-30.
- ↑ "In the U.S., Christmas Not Just for Christians". Gallup, Inc. 2008-12-24. आह्रियत 2012-12-16.
- ↑ Several branches of Eastern Christianity that use the Julian calendar also celebrate on December 25 according to that calendar, which is now January 7 on the Gregorian calendar. Armenian Churches observed the nativity on January 6 even before the Gregorian calendar originated. Most Armenian Christians use the Gregorian calendar, still celebrating Christmas Day on January 6. Some Armenian churches use the Julian calendar, thus celebrating Christmas Day on January 19 on the Gregorian calendar, with January 18 being Christmas Eve.
- ↑ Ramzy, John. "The Glorious Feast of Nativity: 7 January? 29 Kiahk? 25 December?". Coptic Orthodox Church Network. आह्रियत 2011-01-17.
अधिकपठनाय पुस्तकानि
सम्पादयतु- Restad, Penne L. (1995). Christmas in America: A History. New York: Oxford University Press. ISBN 0-19-509300-3.
- The Battle for Christmas, by Stephen Nissenbaum (1996; New York: Vintage Books, 1997). ISBN 0-679-74038-4
- The Origins of Christmas, by Joseph F. Kelly (August 2004: Liturgical Press) ISBN 978-0-8146-2984-0
- Christmas Customs and Traditions, by Clement A. Miles (1976: Dover Publications) ISBN 978-0-486-23354-3
- The World Encyclopedia of Christmas, by Gerry Bowler (October 2004: McClelland & Stewart) ISBN 978-0-7710-1535-9
- Santa Claus: A Biography, by Gerry Bowler (November 2007: McClelland & Stewart) ISBN 978-0-7710-1668-4
- There Really Is a Santa Claus: The History of St. Nicholas & Christmas Holiday Traditions, by William J. Federer (December 2002: Amerisearch) ISBN 978-0-9653557-4-2
- St. Nicholas: A Closer Look at Christmas, by Jim Rosenthal (July 2006: Nelson Reference) ISBN 1-4185-0407-6
- Just say Noel: A History of Christmas from the Nativity to the Nineties, by David Comfort (November 1995: Fireside) ISBN 978-0-684-80057-8
- 4000 Years of Christmas: A Gift from the Ages, by Earl W. Count (November 1997: Ulysses Press) ISBN 978-1-56975-087-2
- Sammons, Peter (May 2006). The Birth of Christ. Glory to Glory Publications (UK). ISBN 0-9551790-1-7.
बाह्यसम्पर्काः
सम्पादयतुविकिपीडिया-जालस्य सहपरियोजनाभ्यः क्रिस्मस् एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
| |
परिभाषाः विकिशब्दकोषे | |
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये | |
सूक्तयः विकिसूक्तीषु | |
ग्रन्थः विकिस्रोतसि |
- Christmas
- Christmas: Its Origin and Associations, by William Francis Dawson, 1902, from Project Gutenberg
- Christmas by Celebrating Holidays