क्षेत्रज्ञं चापि मां विद्धि...


श्लोकः सम्पादयतु

 
गीतोपदेशः
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत ।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥

अयं भगवद्गीतायाः त्रयोदशोध्यायस्य क्षेत्रक्षेत्रज्ञविभागयोगस्य द्वितीयः (२) श्लोकः ।

पदच्छेदः सम्पादयतु

क्षेत्रज्ञं च अपि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोः ज्ञानं यत् तत् ज्ञानं मतं मम ॥ २ ॥

अन्वयः सम्पादयतु

भारत ! सर्वक्षेत्रेषु क्षेत्रज्ञं च अपि मां विद्धि यत् क्षेत्रक्षेत्रज्ञयोः ज्ञानं तत् ज्ञानम् (इति) मम मतम् ।

शब्दार्थः सम्पादयतु

सर्वक्षेत्रेषु = सकलशरीरेषु
क्षेत्रज्ञम् = क्षेत्रविदम्
विद्धि = जानीहि
क्षेत्रक्षेत्रज्ञयोः = शरीरतद्विदोः
ज्ञानम् = बोधः
ज्ञानम् = साधुः बोधः इति
मम मतम् = मम अभिमतम् ।

अर्थः सम्पादयतु

भारत ! सकलशरीरेषु क्षेत्रविदम् अपि मां जानीहि । शरीरतद्विदोः बोधः एव बोधः इति मम अभिमतम् ।

सम्बद्धसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु