खो खो क्रीडा
खो खो क्रीडा(Kho kho) साम्प्रदायिकक्रीडासु अन्यतमा । एषा क्रीडा दक्षिण-एष्या खण्डे प्रसिद्धा वर्तते । तत्राऽपि भारतदेशे, पाकिस्तानदेशे च अतीव प्रसिद्धक्रीडा वर्तते ।
खो खो क्रीडा | |
---|---|
खो खो क्रीडा शैली | |
वैशिष्ट्यसमूहः | |
गणसदस्याः | १२ क्रीडालवानां गणः, ९ क्रीडालवाः क्रीडाङ्गणे क्रीडन्ति । |
उपस्थितिः |
इतिहासः
सम्पादयतुखो खो क्रीडायाः इतिहासः स्पष्टतया न लभ्यते । परन्तु, एषा पुराकालादेव प्रसिद्धा क्रीडा इति सर्वे वदन्ति । यदा धावन-ग्रहणं क्रीडा आरब्धा तदानीमारभ्य एषा क्रीडाऽपि वर्तते इति मन्यते । महाराष्ट्राराज्ये एषा क्रीडा प्रारब्धा इत्यपि केचन वदन्ति । पुरा काले खो खो क्रीडा रथेभ्य सः क्रीडान्ति स्म । अतः अस्य क्रीडायाः नाम रथेरा इति आसीत् । २० तमे शताब्दस्य आरम्भकाले खो खो क्रीडायाः क्रमद्धनियमाः रचितः । १९१४ तमे वर्षे पुणे नगरे प्रदेशे खो खो क्रीडायाः नियमानां रचनार्थम् एकस्य समितेः रचना कृता । १९२४ तमे वर्षे बरोडा नगरे प्रथमवारं खो खो क्रीडायाः नियमाः प्रारब्धाः । १९५९ तः १९६० तमस्य वर्षस्य समये प्रथमवारं राष्ट्रियस्तरे विजयवाडा नगरे खो खो क्रीडायाः स्पर्धा अभवत् ।
क्रीडाङ्गणम्
सम्पादयतुखो खो क्रीडाङ्गणम् आयताकारं भवति । क्रीडाङ्गणम् इदं २९ मी दैर्घ्यं, १६ मी विस्तारं वर्तते । क्रीडायाः पृष्ठभूमौ उभे प्रान्ते आयताकारौ वर्ततः । एकस्य प्रान्तस्य आयताकारः २.७५ मी । द्वयोः प्रान्तयोः आयताकारस्य मध्ये दारुणा निर्मिता यष्टि भवति । मध्ये विद्यमान प्रदेशः ९०७.५० से मी तथा च ३०*३० से मी भवतः । तत्र अष्ट उपपथाः भवन्ति । एते उपपथाः लघु चतुर्भुजानां सविधे भवन्ति । प्रत्येकः चतुर्भुजः ५०० से मी दैर्घ्यं, ७० से मी विस्तारं च भवति । मध्यभागस्य उपपथस्य दक्षिणभागं समानतया भागद्वयं कृतं भवति । प्रत्येकभागः ७.३० से मी प्रमाणेन मध्यभागस्य उपपथं विभागं करोति । मध्यभागस्य समापन प्रदेशे उभे प्रान्ते स्तम्भद्वयं स्थापितं वर्तते । प्रत्येकस्तम्भः १२० से मी उन्नतं भवति । प्रत्येकस्य परिधिः ३० से मी तः ४० से मी पर्यन्तं भवति ।
क्रीडानियमाः
सम्पादयतु- प्रत्येकस्मिन् गणे १२ क्रीडालवाः भवन्ति । परन्तु,क्रीडाङ्गणे ९ क्रीडालवाः एव प्रत्येकस्मिन् गणतः क्रीडन्ति ।
- स्पर्धायां इन्निङ्ग्स् २ भवति । एकम् इन्निङ्ग्स् ९ निमेषात्मकं धावनं, अनुधावनेन अन्तर्भवति ।
- गणद्वये एकः गणः वीरासने भवन्ति । अपरः गणः धावति ।
- वीरासनस्य गणैः निर्धिष्टस्य समयाभ्यन्तरे यावत् शक्यं तावत् धावकगणानां क्रीडलवान् स्पर्षः करणीयः । धावकगणैः निर्धिष्टस्य समयाभ्यन्तरे यावत् शक्यं तावत् वीरासनस्य क्रीडलवद्वारा स्पर्षात् रक्षणीयम् ।
- वीरासनस्य क्रीडालवाः निर्धिष्टस्य समयाभ्यन्तरे धावकगणानां क्रीडलवानाम् स्पर्षः अधिकसंख्यया कुर्वन्ति चेत्, वीरासनस्य गणस्य जयः भवति । परन्तु, वीरासनस्य क्रीडालवात् धावकगणानां क्रीडलवाः निर्धिष्टस्य समयाभ्यन्तरे स्पर्षेण रक्षिताः भवन्ति चेत् धावकगणस्य जयः भवति ।
क्रीडा सामग्री
सम्पादयतु- द्वौ स्तम्भौ
- मापिका
- सुधाचूर्णम्
- नखकृन्तनी
- घटी यन्त्रम्
- शीटिका
खो खो स्पर्धाः
सम्पादयतु- राष्ट्रियस्पर्धा
- युवकानां राष्ट्रियस्पर्धा
- बालकानां राष्ट्रियस्पर्धा
- अन्ताराष्ट्रिय प्राथमिकस्पर्धा
- अन्ताराष्ट्रिय उच्च्माध्यमिकस्पर्धा
- अन्ताराष्ट्रिय माध्यमिकस्पर्धा
- महिलानां राष्ट्रियस्पर्धा
- आन्तर्विद्यालयानां स्पर्धा
संस्था
सम्पादयतुभारतीय खो खो सङ्घः(Kho Kho Federation of India - K.K.F.I.)
चित्रवीथिका
सम्पादयतुआधाराः
सम्पादयतु- "Tripura KHO KHO Association @ Tripura4u". Retrieved 28 March 2011.
- Peter A. Hastie (1 July 2010). Student-Designed Games: Strategies for Promoting Creativity, Cooperation, and Skill Development. Human Kinetics. pp. 52–. ISBN 978-0-7360-8590-8. Retrieved 7 March 2012.
- A trip through SA's indigenous games
- "KHO KHO FIELD".
- "Equipment".
- "Indian Olympic Association: Kho Kho rules". Retrieved 07-02-2011.
pls like it
बाह्यसम्पर्कतन्तुः
सम्पादयतु- http://library.thinkquest.org/11372/data/kho-kho1.htm
- http://khokho.org Archived २०१४-०१-०४ at the Wayback Machine
- http://mkkasso.com/Technical.htm Archived २००९-०९-२३ at the Wayback Machine
- http://sports.indiapress.org/kho_kho.php
- http://sportal.nic.in/innerindex.asp?moduleid=26&maincatid=102&comid=2 Archived २००७-०९-२७ at the Wayback Machine
- http://sportal.nic.in/front.asp?maincatid=102&headingid=132 Archived २००७-०९-२७ at the Wayback Machine
- http://www.kalluritimes.com/kalluri/sports/home/home.jsp?fn0=62 Archived २००७-१०-०८ at the Wayback Machine
- https://web.archive.org/web/20091027103958/http://www.geocities.com/jasleen_m/kho.html
- http://www.tanuvas.tn.nic.in/rural_eng/sports_coco.asp Archived २००७-०९-२९ at the Wayback Machine
- http://www.tafisa.net/traditionalgames/index.php?option=content&task=view&id=129[नष्टसम्पर्कः]
- http://www.nriol.com/indianparents/khokho.asp