श्रीगङ्गानगरमण्डलम्

(गङ्गानगरमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)

श्रीगङ्गानगरमण्डलं (हिन्दी: श्री गंगानगर जिला, आङ्ग्ल: Sri Ganganagar district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति श्रीगङ्गानगरम्

श्रीगङ्गानगरमण्डलम्
मण्डलम्
राजस्थानराज्ये श्रीगङ्गानगरमण्डलम्
राजस्थानराज्ये श्रीगङ्गानगरमण्डलम्
Country भारतम्
States and territories of India राजस्थानम्
Area
 • Total ११,१५४ km
Population
 (२००१)
 • Total १९,६९,५२०
 • Density ३०८/km
Website http://ganganagar.nic.in

भौगोलिकम् सम्पादयतु

श्रीगङ्गानगरमण्डलस्य विस्तारः ११,१५४ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हनुमानगढमण्डलं, पश्चिमे पाकिस्थानदेशः, उत्तरे पञ्जाबराज्यं, दक्षिणे बीकानेरमण्डलम् अस्ति । अस्मिन् मण्डले ३०३ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं श्रीगङ्गानगरमण्डलस्य जनसङ्ख्या १९६९५२० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.०६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८८७ अस्ति । अत्र साक्षरता ७०.२५ % अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि-

  • श्रीगङ्गानगरम्
  • करणपुरम्
  • सदुलशहर
  • पद्मपुरम्
  • रायसिङ्घनगरम्
  • सूरतगढ
  • अनूपगढ
  • श्री विजयनगरम्
  • घरसाना

वीक्षणीयस्थलानि सम्पादयतु

अस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  • बरोर
  • गुरूद्वारा बुड्ढा जोहड
  • बाबा पम्पाराम स्मारकम्
  • लैला मजनू की मजार
  • मकबरा हजरत अलाउद्दीन चिश्ती
  • चनाना-धाम
  • अनूपगढ किला

इत्यादीनि ।

बाह्यानुबन्धाः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=श्रीगङ्गानगरमण्डलम्&oldid=481826" इत्यस्माद् प्रतिप्राप्तम्