हनुमानगढमण्डलम्
हनुमानगढमण्डलं (हिन्दी: हनुमानगढ़ जिला, आङ्ग्ल: Hanumangarh district) राजस्थानराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रमस्ति हनुमानगढनामकं नगरम् ।
हनुमानगढमण्डलम् Hanumangarh district हनुमानगढ़ जिला | |
---|---|
मण्डलम् | |
राजस्थानराज्ये हनुमानगढमण्डलम् | |
देशः | India |
विस्तारः | १२,६४५ च.कि.मी. |
जनसङ्ख्या(२०११) | १७,७९,६५० |
Time zone | UTC+५:३० (भारतीयमानसमयः(IST)) |
Website | http://hanumangarh.nic.in |
भौगोलिकम्
सम्पादयतुहनुमानगढमण्डलस्य विस्तारः १२,६४५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे हरियाणाराज्यं, पश्चिमे श्रीगङ्गानगरमण्डलम्, उत्तरे पञ्जाबराज्यं, दक्षिणे चुरूमण्डलम् अस्ति । अस्मिन् मण्डले २२५-३०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति ।
जनसङ्ख्या
सम्पादयतु२०११ जनगणनानुगुणं हनुमानगढमण्डलस्य जनसङ्ख्या १७,७९,६५० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १७.२४% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०६ अस्ति । अत्र साक्षरता ६८.३७ % अस्ति ।
उपमण्डलानि
सम्पादयतुअस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि-
- हनुमानगढ
- सङ्गरिया
- पीलीबङ्गा
- रावत्सर
- नौहर
- भादरा
- टिब्बी
वीक्षणीयस्थलानि
सम्पादयतुअस्मिन् मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -
- कालीबङ्गा
- गोगमेरीमन्दिरम्
- ब्रह्माणीमातामन्दिरम्
- भद्रकालीमातामन्दिरम्
- भटनेर किला
इत्यादीनि ।
बाह्यानुबन्धाः
सम्पादयतु- Hanumangarh district Official website Archived २००९-०४-२९ at the Wayback Machine