गुण्टूरुमण्डलम्
गुण्टूरुमण्डलम् (Guntur District) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रं गुण्टूरुनगरम् ।
గుంటూరు गुण्टूरुमण्डलम् | |
City of chillies, City of Spices | |
— मण्डलम् — | |
निर्देशाङ्काः
१६°१८′०३″उत्तरदिक् ८०°२६′३४″पूर्वदिक् / 16.3008°उत्तरदिक् 80.4428°पूर्वदिक् | |
देशः | भारतम् |
भूप्रदेशः | आन्द्रप्रदेशः |
राज्यम् | आन्ध्रप्रदेशः |
मण्डलम् | गुण्टूरुमण्डलम्, |
Mayor | रामाञ्जनेयुलु (अधिकारे वर्तते) |
Municipal Commissioner | एन् । सुधाअकरः |
संसद्सदस्यः | गल्ला जयदेव |
सांसदक्षेत्रम् | गुण्टूरुमण्डलम् |
योजनायोगः | GMC, VGTMUDA |
जनसङ्ख्या • महानगरम् |
(2007[update]) • १४,३८,९४६ (2007[update]) |
लिङ्गानुपातः | 984[१] ♂/♀ |
व्यावहारिकभाषा(ः) | तेलुगु, उर्दू[२] |
---|---|
समयवलयः | IST (UTC+05:30) |
विस्तीर्णम् • औन्नत्यम् |
63.15 वर्ग किलोमीटर (24.38 वर्ग मील) • 30 मीटर (98 फ़ुट) |
वायुमण्डलम् • तलस्पर्षी |
Tropical (कोप्पेन्) • 989.1 मिमी (38.94 इंच) |
जालस्थानम् | www.gunturcorporation.org |
इतिहासः
सम्पादयतुशौर्यपराक्रमादीनां जन्मभूमिः जातीयोद्यमान्ध्रोद्यमयोः स्पूर्तिप्रदायकं, बहुभिः राजकुटुम्बैः पालितराजधानी गुण्टूरुमण्डलम् । शातवाहनराजाः धान्यकटकनाम्ना अमरावतीम्, इक्ष्वाकवः विजयपुरीनाम्ना नागार्जुनसागरम्, आनन्दगोत्रिजः चेजेर्लं, विष्णुकुण्डिनः विनुकोण्डग्रामं, वेलनाटिचोलराजाः तेनालिसमीपस्य धनपुरम् इत्यादीः राजधानीः कृत्वा तेषु कालेषु सम्यग्रीत्या अपालयन् । एते सर्वेपि अस्मिन् मण्डले विद्यमानाः एव । पल्नाडुसङ्ग्रामः कारम्पूडिमाचर्लप्रान्तयोः मध्ये संवृत्तः । ब्रीटिशाधिकारं निरुध्दवान् । अत्रैव कन्नेगण्टिहनुमन्तमहाशयः । चीरालपेरालशुल्कदाननिराकरणोद्यमः, दुग्गिरालगोपालकृष्णय्यवर्येण चालितः अत्र ।
भौगोलिकम्
सम्पादयतुअस्य मण्डलस्य उत्तरदिशे नल्गोण्ड,कृष्णमण्डलं, दक्षिणदिशे प्रकाशमण्डलं, पश्चिमदिशे महबूबनगरमण्डलं, प्राग्दिशि च बङ्गालाखातसमुद्रः कृष्णमण्डलं च वर्तन्ते । मण्डलेस्मिन् नल्लमलारण्यम्, उन्नतपर्वताः च सन्ति । नीलशिलाः, वज्राणि, ताम्रम्, अयः इत्यादीनि खनिजानि उपलभ्यन्ते । सत्तेनपल्लीसमीपस्य कोल्लूरुग्रामपरिधौ वज्राणाम् उपलब्धिः आसीत् । माडुगुलः, मल्लवरं, सारङ्गपल्ली इत्यादिप्रान्तेषु वज्रनिधिः, पिडुगुराल्लमाचर्लमध्यप्रान्तेषु च नेलशिलानां निक्षेपाः सन्ति । मण्डले बहुलार्थसाधकसेतोः निर्माणम् आसीत् । नागार्जुनसागरप्रान्ते कृष्णानद्याः उपरि अस्य दक्षिणभागे विद्यमानया कुल्यया मण्डलस्य कृषिभूमये जलं प्रेष्यते । अस्मिन् मण्डले पञ्चरेल्मार्गाः वर्तन्ते ।
कृषिः वाणिज्यं च
सम्पादयतुप्रधानविनियोगसेद्यं धान्यम् । वाणिज्यनिमित्तं कलायः, कार्पासः, मरीचानां सेद्यं भवति । पञ्जसु स्थानेषु कृषिपरिशोधनकेन्द्राणि वर्तन्ते । मण्डले रेल् तथा रोड्मार्गः भूरि विस्तृतः । मण्डले बहूनि वाणिज्यक्षेत्राणि सन्ति । वड्लमूडिप्रान्ते क्षीरोत्पत्तिकर्मागारः, जम्पनिप्रान्ते शर्कराकर्मागारः माचर्ला सीतापुरप्रान्तयोः सिमेण्ट् कर्मागारः च वर्तन्ते । बापट्लग्रामे कृषिमहाविद्यालयः मङ्गलगिरिग्रामे कुटीरपरिश्रमाः सन्ति । कृषकाणां आसक्तिः वर्जिनिया तम्बाकुः तथा उत्तमकार्पासस्य उत्पादने ।
वीक्षणीयस्थलानि
सम्पादयतुअमरावती ग्रामे पुरातत्त्वशाखायाः प्रदर्शनशाला, चेजेर्लप्रान्ते कपोतेश्वरस्वामिदेवालयः वर्तते । अमरावती, पोन्नूरुः, माचर्ला, चेब्रोलुः, बापट्लः च इत्यादिषु प्रान्तेषु प्राचीनशिल्पकलावैभवं प्रतिभाति । १९७६ तमे वर्षे गुण्टूरुसमीपे नागार्जुनानगरे आचार्यनागार्जुननाम्ना विश्वविद्यालयः संस्थापितः । मण्डले विद्यमानाः, विद्यालयाः सर्वे नागार्जुनविश्वविद्यालयपरिधौ आयान्ति ।
तालुकाः
सम्पादयतु- ↑ "ZP chief talks tough on pre natal tests". The Hindu (Chennai, India). 4 September 2007.
- ↑ http://www.languageinindia.com/april2003/urduinap.html
बाह्यसम्पर्कतन्तुः
सम्पादयतु- Guntur Municipal Corporation
- Guntur City and District Management[नष्टसम्पर्कः]
- Guntur Police Archived २०१४-०५-१७ at the Wayback Machine
- Guntur Railway Timings Archived २०१२-०७-२७ at the Wayback Machine
- Guntur City Region - Wikimapia
- Guntur Map by NASA Archived २०१४-०७-१४ at the Wayback Machine
- Weather at Guntur