हैदराबाद्-नगरम्, भारतम्

भाग्यनगर, आन्ध्रप्रदेशस्य राजधानी
(हैदराबाद् इत्यस्मात् पुनर्निर्दिष्टम्)
एषः लेखः भारतस्य नगरस्य विषये अस्ति, यदि भवान्/भवती पाकिस्तानस्य हैदराबाद-नगरस्य विषये ज्ञातुम् इच्छति, तर्हि हैदराबाद्, पाकिस्तानम् इत्यत्र गच्छतु ।

हैदराबादनगरमण्डलम् (Hyderabad, India)आन्ध्रप्रदेशराज्ये स्थितं किञ्चनमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति हैदराबाद् नगरम् ।

हैदराबाद्
City of Pearls
—  महानगरम्  —
हैदराबाद्
भारते हैदराबाद्नगरम्
निर्देशाङ्काः

१७°२१′५८″उत्तरदिक् ७८°२८′३४″पूर्वदिक् / 17.366°उत्तरदिक् 78.476°पूर्वदिक् / १७.३६६; ७८.४७६

देशः भारतम्
राज्यम् आन्ध्रप्रदेशराज्यम्
स्थापनम् 1591 AD
Mayor
City Police Commissioner अब्दुल् खायुम् खान्
जनसङ्ख्या

• महानगरम्

६,८०९,९७० (4th) (2011)

७,७४९,३३४ (6th) (2011)

व्यावहारिकभाषा(ः) तेलुगुभाषा, उर्दुभाषा
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्
• तीरप्रदेशः


536 मीटर (1,759 फ़ुट)
0 किलोमीटर (0 मील)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Aw (कोप्पेन्)

     603 मिमी (23.7 इंच)
     26.0 °से (78.8 °फ़ै)
     35.9 °से (96.6 °फ़ै)
     2 °से (36 °फ़ै)

जालस्थानम् www.ghmc.gov.in

इतिहासः संपादित करें

प्राचीनकाले अस्य नामः भाग्यनगर अभवत् परन्तु १५९१ तमे वर्षे कुलीकुतुब् षा इत्याख्येन राज्ञा स्वसख्याः भागमत्याः स्मृत्यर्थं हैदराबाद् नाम नगरं अकरोत । शातवाहनैः,चालुक्यैः, काकतीयैः, बहमनीसुल्तानजनैः च पालितमिदं मण्डलम् ।औरङ्गजेबः इदं प्रान्तं १६८७ तमे वर्षे अजयत् । असब्जाहीवंशजाः १७२४ वर्षतः पर्यपालयन् इदं हैदराबादनगरम् । १८०३ तमे वर्षे सिकिन्दर्जा इत्यस्य पालने सिकिन्द्राबाद् नगरं निर्मितम् । निजांनवाब् जनाः १९४८ तमवर्षपर्यन्तं प्रान्तमिदम् अपालयन् । १९४८ तमे वर्षे इदं भारतदेशे विलीनं जातम् । १९५६ तमे वर्षे सीमान्ध्रप्रान्तैः संयोज्य आन्ध्रप्रदेशराज्यं च आविष्कृत्य तस्य राजधानीत्वेन भाग्यनगरम् उद्घोषितम् ।

भौगोलिकम् संपादित करें

अस्य प्राच्यांनल्गोण्डमण्डलं, पश्चिमे कर्णाटकराज्यम्, उत्तरे मेदक् मण्डलम्, दक्षिणे च महबूब् नगरमण्डलं वर्तन्ते । अत्र जनानाम् उपाधिः व्यवसायेतरक्षेत्रेषु लभ्यते ।

वाणिज्यम् संपादित करें

भाग्यनगरपरिसरेषु केन्द्रराज्यसर्वकारीयाणां स्वायत्तीयसंस्थानां कर्मागाराणि स्थापितानि । मादापूर् समीपे L&T, मैक्रोसाफट् (Microsoft), ऎ. बी. एम् (I.B.M.), गूगुल् (Google) इत्यादयः स्वीयसङ्गणकान्तर्गतकेन्द्राणि प्रास्थापयन् । मण्डलेस्मिन् उस्मानिया विश्वविद्यालयः, केन्द्रीयविश्वविद्यालयः, पोट्टिश्रीरामुलुतेलुगुविश्वविद्यालयः,अम्बेडकर् दूरविद्या विश्वविद्यालयश्च वर्तन्ते । मूसी, मञ्जीरा, होल्दिया इत्याद्युपनदीनां द्वारा पेयजलम् उपलभ्यम् ।

वीक्षणीयस्थलानि संपादित करें

चार्मिनार्, सालार् जङ्ग् वस्तुसङ्ग्रहालयः, शासनसभा, हुस्सेन् सागरस्थः बुद्धविग्रहः, इन्दिरा उद्यानानि, गोल्कोण्डदुर्गं, सार्वजनिक उद्यानानि, नेह्रुमृगालयः, बिर्लामन्दिरम्, अन्तरिक्षशाला, रवीन्द्रभारती, रामोजी फिल्म् सिटी इत्यादीनि दर्शनीयस्थलानि बहूनि विद्यन्ते । विभिन्नमतानां, संस्कृतीनां च सङ्गमक्षेत्रमिदं मण्डलं भारतदेशे तथा विश्वस्तरे च विशिष्टस्थानं प्राप्नोति ।

नेह्रुमृगालयः संपादित करें

हैदराबाद् आन्ध्रप्रदेशराज्यस्य राजधानी अस्ति । अत्र नेह्रुमृगालयः अपूर्वः अस्ति । १२० हेक्टर् प्रदेशे व्याप्ते मृगालये विविधा वन्यमृगाः सन्ति । सिंहाः, गजाः, व्याघ्राः, पक्षिणः इत्यादीनी सन्ति । लघुवाहनेनापि मृगालयदर्शनव्यवस्था अत्र अस्ति । सोमवासरे विरामः अस्ति ।

बिर्लामन्दिरम् संपादित करें

हैदराबाद् समीपे बिर्लामन्दिरम् अथवा बालाजीमन्दिरम् अपूर्वं दर्शनीयमस्ति । उन्नतप्रदेशे स्थितात् मन्दिरात् नगरदर्शनम् अतीव आनन्दं जनयति ।

चारमीनार् संपादित करें

 
हैदराबाद में चारमीनार

हैदराबादनगरे चारमीनार् इति स्थलं केन्द्रस्थाने अस्ति । हिन्दूनर्तक्याः बागमत्याः स्मरणार्थं निर्मितमेतत् चतुर्गोपुरात्मकम् । क्रिस्ताब्दे १५१३ तमे वर्षे सुल्तान् महम्मद् बुली कुतुब् शाही एतं निर्मितवान् । विपणिमध्ये एव एतत् विराजते । हैदराबादनगरस्य हृदयभागे विपणिमध्ये अस्ति एतत् चारमीनार् वीक्षकगोपुरस्थानम् । हैदराबाद् नगरस्य प्रमुखम् आकर्षण स्थानम् अस्ति एतत् । क्रिस्ताब्दे १५९३ तमे वर्षे प्लेग् रोगात् मुक्तिः प्राप्ता इत्यस्य स्मरणार्थं नर्तकयाः भागमत्याः स्मरणार्थं च एतं विशेषशिल्पं महम्मद् कुलीषा निर्मितवान् । अत्र चत्वारि गोपुराणि सन्ति । गोपुराणि ५० मीटर् उन्नतानि ३० मीटर् विस्तृतानि च सन्ति । चतुर्षु र्भागेषु तोरणानि सन्ति । एतेषां पार्श्वभागे पाटलपुष्पाणां सुन्दरचित्रानि, अरेबिक् भाषया शासनानि च चित्रितानि सन्ति । उपरि गन्तुं सोपानानि सन्ति । गोपुरशिखरेभ्यः नगरदर्शनम् अतीवानन्दाय भवति । चार्मीनार् प्रदेशं परितः आपणाः सन्ति । अत्र आभरणानां विपणिः काचकङ्कणानां मौक्तिकानां च वाणिज्यं च सदा प्रसिद्धम् अस्ति । प्रवेशकालः प्रातः ९ वादनतः सायं ४ वादन पर्यन्तं यावत् भवति। सायङ्काले ७ वादनतः ९ वादन पर्यन्तं दीपोत्सवः भवति । गोपुराणि प्रकाशे अति सुन्दराणि भवन्ति ।

मेक्कामस्जिद् संपादित करें

हैदराबाद् नगरे स्थितं मेक्कामस्जिद् इति प्रार्थनास्थलम् अतीव बृहदस्ति । अत्र दशसहस्रजनाः उपवेष्टुम् अर्हन्ति । निजामानां मरणोत्तरस्मारकाणि अत्र आवरणे सन्ति ।

सालार् जङ्ग् वस्तुसङ्ग्रहालयः संपादित करें

एषः वस्तुसङ्ग्रहालयः विश्वे एव प्रसिद्धः अस्ति । भारते तृतीयः बृहत् सङ्ग्रहालयः एषः । एकेन सङ्गृहीतानि वस्तूनि (३५,०००) अत्र सन्ति । सः एव सालारजङ्ग्-३ I एषः पितुः सकाशात् पितामहस्य सकाशात् च कतिचनवस्तूनि प्राप्तवान् । अनेकानि वस्तूनि स्वयं सङ्गृहीतवान् । कलात्मकानि वस्तूनि अत्र सन्ति । लेखनानां सङ्ग्रहः अपि अत्र अस्ति । ४० वर्षाणां परिश्रमस्य प्रयत्नेन एषः वस्तुसङ्ग्रहालयः सुव्यवस्थितः अभवत् ।

गोल्कोण्डदुर्गम् संपादित करें

ऐतिहासिकं दुर्गमेतत् पूर्वं वरङ्गलस्य काकतीयैः राजभिः निर्मितम् आसीत् । गोपालकानां प्रदेशः इत्यतः गोल्कोण्ड इति नाम अभवत् । राज्ञा प्रतापेन निर्मितम् एतत् इति केषाञ्चन मतम् । टर्कीदेशस्य सुल्तान् क्वालि कुतुब् षाहे क्रिस्ताब्दे १५१२ तमे वर्षे एतस्य दुर्गस्य नवीकरणं कारितवान् । क्रिस्ताब्दस्य १५९० तमे वर्ष पर्यन्तम् एतत् बहमनिसाम्राज्यस्य राजधानी आसीत् । अनन्तरम् एष एव दिल्ली सुल्तानसैन्यं विरुद्ध्य युद्धं कृतवान् ।

हैदराबादनगरात् पश्चिमभागे ४०० पादमितोन्नते स्थले ग्रान्नैट् शिलाभिः निर्मितं दुर्गं ७ कि.मीटर् परीधियुक्तम् अस्ति । तत्र स्फोटकशतघ्न्यः स्थापिताः आसन् । अत्र तारामती मस्जिद्, जनानां (राज्ञीवासः) रक्षकगोपुरं स्फोटकवस्तुनिर्माणागारः च आसन् ।

नगीनबाग् प्रदेशे राजवंशीयानां स्नानगृहाणि विहारस्थानानि वाटिकाः च आसन् । दुर्गे पर्वतप्रदेशे जलवितरण्व्यवस्था आसीत् । दुर्गस्य चत्वारि द्वाराणि आसन् । तेषु फतेमेक्का बञ्जारबालाहिसारमुख्यानि । प्रवेशद्वारेषु तीक्ष्णानि शूलानि स्थापितानि आसन् ।

प्रवेशद्वारे करताडनपूर्वकं शब्दं कुर्वन्ति चेत् राजसभायां शब्दश्रवणं कर्तुं शक्यते । एतादिशी अद्भुता व्यवस्था दुर्गे अस्ति । प्रवेशद्वारे वर्तुलाघाटकः अस्ति । १२० मीटर् उपरिप्रदेशे शब्दश्रवणं स्पष्टतया भवति । उपरिगन्तुं ३६० सोपानानि सन्ति ।

इतिहासानुसारं भद्राचलरामदासस्वामिनः बन्धनम् अत्रैव अभवत् । अनन्तरं रामदासमहोदयस्य बन्धविमोचनम् अभवत् । अत्र दुर्गे वज्रवाणिज्यं भवति स्म । नाम्पल्लिमार्गतः १४ कि.मी दूरे एतत् दुर्गम् अस्ति । नवम्बर्-मासतः फेब्रवरी-मासाभ्यान्तरं यावत् अत्र प्रवेशशुल्कं दत्त्वा प्रतिदिनं राजवैभवं द्रष्टुं शक्नुवन्ति । सायं ध्वनिदीपव्यवस्थापि अस्ति । अत्र अगन्तुं हैदराबादतः नगरवाहनसौकर्यम् अस्ति ।

रामोजी चित्रनगरी संपादित करें

हैदराबादनगरसमीपे स्थितम् आधुनिकं आकर्षकविहारस्थलं चलनच्चित्रनिर्माणकेन्द्रम् एतत् । १८०० हेक्टर् प्रदेशे व्याप्तं मनोरञ्जना स्थानमिदम् । पर्ल् सिटि, सिलिकान् सिटि इति च प्रसिद्धम् अस्ति । एतं ’प्याराडैस् आन् अर्थ’ इति च कथयन्ति । अत्रत्यं थ्रिल्लर् रैडर्, क्रिपालुगृहा, सीपिपिलैन् (CPP Line) स्टण्टशो स्थानानि अतीव कर्षकाणि सन्ति । प्रकृतिमध्ये मनुष्यनिर्मितम् अद्भुतदर्शनम् अत्र भवति । सम्पूर्णतया सुन्दरदृश्याणि निर्मितानि सन्ति । ‘युरेका’ शिल्पं सर्वान् यात्रि जनान् कदाचित् प्राचीनस्य मौर्यसाम्राज्यस्य, कदाचित् अमेरिका देशे रचितस्य वैल्ड् वेस्ट् नगरस्य, पुनः कदाचित् देहलीबादशाहसभायाः वैभवं दर्शयति । युरेका पञ्चतारोपहारवसति गृहेषु अनेकविधाहारसेवनं साध्यमस्ति । अलम्पना, चाणक्यः, हनिमेक् फास्टफुड्, गङ्गाजमुना इत्यादीनि अनेकानि उपाहारगृहाणि अत्र सन्ति । अनेकविधक्रीडास्थानानि सन्ति । अत्र बालानाम् अतीव सन्तोषः भवति । क्रीडासु स्पर्धासु बालाः मग्नाः भवन्ति । हैदराबाद् नगरतः ३५ कि.मी दूरे एतत् स्थलमस्ति । अत्र प्रतिदिनं विविधभाषा चलनच्चित्राणां चित्रीकरणं चलत् भवति । नगरतः जम्बोवाहनानि सम्पर्कयोग्यानि सन्ति । दूरवाणीं कृत्वापि वण्डरल्याण्ड जम्बोवाहनैः गन्तुं शक्यते । दूरवाणी सङ्ख्या ६२,२३,३७० अस्ति । फिल्मसिटि मध्ये लघुवाहनानि सन्ति । हैदराबाद् नगरतः नगरवाहनानि सन्ति । वसत्याः कृते काचिगुडा समीपे वसति गृहाणि सन्ति । कोठी वाहननिस्थानतः २०५ सङ्ख्याकं वाहनं चलनच्चित्रनगरं गच्छति । रामोजी फिल्मसिटि दर्शनार्थं प्रवेशधनं निर्दिष्टं अस्ति । बालानाम् अर्धव्ययः भवति । एकदिनं यावत् प्रायशः ५०० सप्यकाणि भवन्ति । प्रवेशसमयः प्रातः काले ९ वादनतः सायङ्काले ६ वादनम् । रायल् प्याकेज् टूर् व्यवस्था अस्ति ।

मार्गः संपादित करें

बेङ्गळूरु तः ५७४ कि.मी । चेन्नैतः ७९४ कि.मी । तिरुपतितः ७४१ कि.मी । विजयवाडातः २६० कि.मी । मुम्बयी तः ७३९ कि.मी । अन्यराज्यैः अपि वाहनसम्पर्कः अस्ति । समीपवाहननिस्थानानि जूबिलि, कोठि हाम्लिबिन् । धूमशकटवाहननिस्थानं काचिगुड्प्रदेशे अस्ति ।

विमानमार्गः संपादित करें

हैदराबाद् नगरम् आगन्तुं बेङ्गळूरु, चेन्नै, विशाखपट्टणम्, देहली, मुम्बयी, तिरुपतिः इत्यादि स्थानेभ्यः बेगम्पेट् विमानस्थानकं प्रति सम्पर्कविमानानि सन्ति ।

धूमशकटानि स्थानानि संपादित करें

सिकन्दराबाद्, काचिगुडा, नाम्पल्ली स्थलेषु सन्ति ।

वाहनमार्गः संपादित करें

बेङ्गळूरु तः ५०० कि.मी । चेन्नै तः ७०४ कि.मी। विजयवाडतः २७३ कि.मी अस्ति।

उपमण्डलानि संपादित करें

सिकिन्दराबाद् मुषीराबाद् गोलकोण्ड चार्मिनार् तिरुमलगिरिः अमीर् पेट्
खैरताबाद् भेकंपेट् मारेड्पल्लि हिमायतनगरम् आसिफनगरम् नाम्पल्लि
अम्बरपेट् बहदूरपुरम् बण्ड्लगूड् सैदाबाद्

बाह्यसम्पर्कतन्तु संपादित करें