गोधूमपिष्टं गोधूमस्य अत्यन्तं सूक्ष्मरूपम् । सः गोधूमः प्रायः जगति सर्वत्र वर्धमानः कश्चन धान्यविशेषः । अयम् अपि सस्यजन्यः आहारपदार्थः । अयं गोधूमः आङ्लभाषायां Wheat इति उच्यते । हिन्दीभाषायां “गेंहू” इति, ल्याटिन्भाषायां Triticum vulgare इति च उच्यते । तृणकुले अयं गोधूमः Graminea कुले अन्तर्भवति । प्रायः जगति अधिकांशेषु देशेषु गोधूमः एव प्रधानः आहारः । बहुदुग्धः, क्षीरी, अरूपः, म्लेच्छभोजनः, यवनः, निस्तुषः, रसालः, सुमनाः इत्यादीनि गोधूमस्य अन्यानि नामानि ।

गोधूमः
गोधूमेन निर्मिताः खाद्यपदार्थाः

अनेन गोधूमपिष्टेन पूरिका, रोटिका, पर्पटः, अवदंशः, सुपिष्टकं, पिष्टकम् इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । यद्यपि गोधूमे विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम् । गोधूमे महागोधूमः, मधूली, नन्दीमुखी इति त्रयः प्रभेदाः सन्ति । नवग्रहेषु अन्यतमस्य सूर्यस्य श्रेष्ठं धान्यं गोधूमः ।

दृश्यताम् सम्पादयतु

अधिकविवरणार्थं गोधूमः इति पृष्ठं द्रष्टव्यम् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=गोधूमपिष्टम्&oldid=481533" इत्यस्माद् प्रतिप्राप्तम्