सूर्यः (चिह्न: ☉) किञ्चन नक्षत्रं विद्यते । किन्तु ज्योतिश्शास्त्रदृष्ट्या अयं कश्चन ग्रह इति निर्दिश्यते । खगोलपदार्थेषु सूर्योऽत्यन्तं प्रमुखोऽस्ति । तदीयाः किरणा भूमेरुपर्य् अन्येषां ग्रहाणाम् उपरि प्रकाशम् उष्णतां च प्रसरन्ति । सूर्यस्याकर्षणपरिधावेवान्येषां ग्रहाणां सञ्चलनं भवति । नित्यजीवनव्यवहारे तस्य प्रभावोऽस्त्य् अनन्यः। सूर्येण विना मानवजीवनस्य कल्पनाप्य् अशक्यैव। सूर्यस्य व्यासो भवति ८,६५,००० मैल्-परिमितम् । भूमेर् विस्तारस्यापेक्षया १३,००,००० गुणितम् अधिकम् । द्रव्यराशिर् भूमेरपेक्षया ३,३३,००० गुणितम् अधिकम् । अणुप्रक्रियया सूर्ये शक्त्युत्पादनं भवति । सूर्ये प्रचाल्यमानया अनया क्रियया जलजनको हीलियं-धातुरूपेण परिवर्तिता भवन्तीत्यतो द्रव्यराशौ प्रत्येकस्मिन् क्षणे चत्वारि-मिलियन्-टन्-परिमितो भागो न्यूनो भवति । सूर्यो यस्यां वियद्गङ्गायां परिभ्रमति तस्याः केन्द्रभागतो बहु दूरे सीमाप्रदेशे विद्यते । वियद्गङ्गायाः केन्द्रतः सूर्यः ३०,००० ज्योतिर्वर्षाणाम् अन्तरे विद्यते ।

आधुनिकविज्ञानासनुसारं सूर्यस्य रचना


रविमार्गः

सम्पादयतु

विश्वगोले रविमार्ग इत्येषः किञ्चन बृहद्-वृत्तम्। भूकेन्द्रसिद्धान्तानुगुणं भूमिर् विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वेऽपि पदार्था भूमिं परितो भ्रमन्ति । रविरपि भूमिं परितो भ्रमतीव पूर्वदिश्य् उदेति पश्चिमदिश्य् अस्तङ्गच्छति च । रवेरयं सञ्चरणमार्ग एव (वस्तुतोऽयं रविं परितो भ्रमन्त्या भूमेर् मार्गः) रविमार्ग इति कथ्यते । अत्रैव सायनराशिचक्रनिरयणराशिचक्रौ कल्प्येते|अतिन्युनदिनमानदिवसात् सायनराशिचक्रान्तर्गत मकरराशौ सूर्यश् चंक्रमते | अस्मिन्नेव दिने सायनमकरेऽर्केति लिखन्ति पञ्चांगकाराः |सौरवर्षे रविमार्गे कल्पिते राशिचक्रे मकरमासादयो द्वादशा भवन्ति | सायनमकरमासारम्भदिनात् सन्निकटात् पूर्ववर्तिशुक्लपक्षारम्भदिनाद् अमान्तो चान्द्रोमासो वेदांगज्योतिषविद्भिर् मन्यन्ते | अयं रविमार्गो विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतो भवति । भूमेर् अक्षस्य नमनमेवास्य कारणम्। भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणो रविमार्गस्य वक्रता इति निर्दिश्यते। इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते।

बाह्यानुबन्धाः

सम्पादयतु
"https://sa.wikipedia.org/w/index.php?title=सूर्यः&oldid=488706" इत्यस्माद् प्रतिप्राप्तम्