गौतमस्मृतिः
न्यायदर्शनस्य प्रणेतृत्वेन गौतममहर्षः प्रख्यातिः भारतीयदर्शनक्षेत्रे सर्वैः शास्त्रविदभिः सम्यगवगम्यते । अस्य महर्षिगौतमस्य धर्मशास्त्रप्रणयनक्षेत्रेऽपि दानमतुलनीयमिति ज्ञायते । गौतमस्मृतिस्तु त्रेतायुगीया गद्येन रचिता वर्त्तते । धर्माधर्मनिर्णयक्षेत्रे तस्य स्वभावसुलभाया तर्कबुद्धयाः कौशलप्रयोगः सर्वथा तदीयदार्शनिकविचारगौरवम् अभिव्यनक्तीति स्पष्टं प्रमाणम् उपलभ्यते । इतरस्मृतिशास्त्रपद्धतिवत् गौतमेनापि सदाचारः ब्रह्मचारिधर्मः, गृहस्ताश्रमः, आपद्धर्मः, संस्कारः कर्त्तव्याकर्त्तव्यपालनम्, वर्णानां वृत्तिः, राजधर्मः शैचाशौचविधानं तथा पुत्राणां सम्पत्तिविभाग-प्रकरणादि सर्वं किञ्चित् शास्त्रीयपद्धतिम् अवलम्व्य प्रतिपाद्यते । भौतिकाध्यात्मिक जीवने यथासम्भवं धर्मशास्त्रस्योपयोगिता प्रमाणिताऽस्ति । स्मृतावस्यां तु गौतमेन षोडशसंस्काराः समुल्लिखिताः सन्ति । पुनश्चासौ प्रतिपादितवान् यत् सङ्कटकाले कदाचिद् ब्राह्मणोऽपि शूद्रवदाचरेच्चेदित्यत्र न कोऽपि दोषः । वस्तुनोऽवस्थानुक्रमेण व्यवस्थाविधानं तस्य स्मृतेराभिमुख्यमस्तीति वैशिष्टयं लक्ष्यते ।
गौतमस्मृतौ एकोनत्रिंशदध्यायाः सन्ति । तत्र प्रथमाध्याये आचारः उपनयनसंस्कारः , कालः, विधानञ्च प्रतिपादितम् । द्वितीयाध्याये-ब्रह्मचारिधर्माः, तृतीये नैष्ठिकब्रह्मचारिधर्माः चतुर्थे विवाहभेदाः, तेषां स्वरुपम्, धर्म्याधर्म्यविवाहानां फलञ्च प्रतिपादितम् । पञ्चमाध्याये गृहस्थाश्रम-धर्माः ऋतुकालगमनविधानञ्च प्रतिपादितम् । षष्ठाध्याये गृहस्थाश्रमिणां कर्त्तव्यम्, सप्तमाध्याये चापद्धर्म आलोचितः । अष्टमाध्याये संस्कारणाम् अपस्थापनम्, संस्कारसम्पन्नजनस्य महिमा च वर्णितः । नवमाध्याये स्नातकधर्माः दशमाध्याये ब्राह्मणादि वर्णनां पृथक् पृथक् जीविकाः, प्रतिपादिताः, तत एकादशाध्याये राजधर्मः, द्वादशाध्याये च विविधपापानां दण्डविदानम्, त्रयोदशाध्याये साक्षिणां साक्ष्यग्रहण विधिः, चतुर्दशाध्यायेऽशौचविधिः, पञ्चदशे श्राद्धविधिः, षोडशेऽनध्यायविचारः, सप्तदशे भक्ष्याभक्ष्यविचारः, अष्टादशे स्त्रीषु ऋतुकालो सहवासविधानम्, एकोनविंशेऽध्याये प्रतिषिद्ध सेवन-प्रायश्चित्तम् । विंशेऽध्याये विविधपापानां कर्मविपाकाः एकोनविंशतितमेऽध्याये सर्वपातकेषु शान्ति विधानम्, द्वविंशतितमेऽध्याये निषिद्ध-कर्मणां जन्मान्तरीयविपाकवर्णनम्, त्रयोविंशे प्रायश्चित्तम् चतुर्विंशतितमे महापातकप्रायश्चित्तम्, पञ्चविंशतितमे रहस्यप्रायश्चित्तम्, षडविंशतितमेऽवकीर्णीप्रायश्चित्तम् सप्तविंशतितमे कुच्छ्रव्रतविधिः, अष्टविंशतितमे चान्द्रायणाव्रतविधानम्,. एकोनत्रिंशत्तमेऽध्याये त्राणां पैतृकधनस्य विभागः प्रतिपादितश्च वर्त्तते ।