ग्रिगोर् जान् मेण्डेल्


(कालः – २२.०७.१८२२ तः ०६.०१.१८८४)

ग्रिगोर् जान् मेण्डेल्
जननम् Gregor Johann Mendel
(१८२२-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ७-२०)२० १८२२
Heinzendorf bei Odrau, Austrian Empire
मरणम् ६ १८८४(१८८४-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम १-०६) (आयुः ६१)
Brno (Brünn), Austria-Hungary
देशीयता Empire of Austria-Hungary
कार्यक्षेत्राणि Genetics
संस्थाः Abbey of St. Thomas in Brno
मातृसंस्थाः University of Olomouc
University of Vienna
विषयेषु प्रसिद्धः Discovering genetics
धर्मः Roman Catholic

अयं ग्रिगोर् जान् मेण्डेन् (Gregor Johann Mendel) आनुवंशीयनियमं निरूपितवान् । अयं क्रैस्तधर्मगुरुः आसीत् । अनुवंशीयतायाः अभ्यासस्य जीवविज्ञानस्य विभागं वंशवाहिविज्ञानम् इति वदन्ति । तन्नाम पित्रोः वा पितामहादिभ्यः वा पुत्राः वा पौत्राः वा केचन गुणान् प्राप्नुवन्ति । एकस्याः वंशश्रेण्याः अन्यां वंशश्रेणीं प्रति गुणानां गमनम् । अस्य शास्त्रस्य वैज्ञानिकम् आधारं कल्पितवान् अयं ग्रिगोर् जान् मेण्डेल् । अयं ग्रिगोर् जान् मेण्डेल् १८२२तमे वर्षे जुलैमासस्य २२तमे दिनाङ्के आस्ट्रियादेशस्य हीन्सेन्डार्फ् इति ग्रामे जन्म प्राप्नोत् । अयं प्रदेशः पूर्वतनस्य जेकोस्लोवाकियदेशस्य मोरेवियप्रान्ते अन्तर्भवति । अस्य पिता आण्टन् मेण्डेल् कृषिकः । तस्य वाटिका अपि आसीत् । पित्रोः प्रीतिपात्रः पुत्रः आसीत् ग्रिगोर् जान् मेण्डेल् । अयं ग्रिगोर् जान् मेण्डेल् पुष्पवाटिकायाः कार्ये पितुः साहाय्यं करोति स्म । तदवसरे सः पितरं बहून् प्रश्नान् पृच्छति स्म । पुष्पाणि किमर्थं विभिन्नवर्णीयानि भवन्ति ? सेवफलं रक्तवर्णीयं, सेववृक्षस्तु हरितवर्णीयः किमर्थम् ? इति प्रश्नानाम् उत्तरं तस्य पिता तु न जानाति स्म ।

अयं ग्रिगोर् जान् मेण्डेल् निर्धने कुटुम्बे जन्म प्राप्तवान् आसीत् । तस्य पिता ४ वर्षाणि यावत् कष्टेन एव महाविद्यालयं प्रेषितवान् पुत्रं ग्रिगोर् मेण्डेलम् । १८४३तमे वर्षे तत्त्वशास्त्रे उत्तीर्णः ग्रिगोर् मेण्डेल् आगस्टीन् क्रैस्तमठं प्रविष्टवान् । १८४७तमे वर्षे तस्य नाम ग्रिगोर् इति कृतवन्तः । तदनन्तरं सः ब्रून् मध्ये विद्यमाने सैण्ट् थामसस्य वसतौ वासम् आरब्धवान् । आगस्टीन् मठः आस्ट्रियदेशे विद्यमानेभ्यः विद्यालयेभ्यः शिक्षकाणाम् आपूर्तिं करोति स्म । तदनन्तरं गणिते तथा विज्ञाने च प्रशिक्षणं प्राप्तुं वियन्नाविश्वविद्यालयं प्रविष्टवान् । १८५४तमे वर्षे विज्ञानविषयकस्य शिक्षकपदं प्राप्नोत् ।

अयं ग्रिगोर् जान् मेण्डेल् सस्यविज्ञाने अपि आसक्तः आसीत् । सः अष्टवर्षाणि यावत् हरेणुसस्याणि वर्धयन् प्रयोगान् अकरोत् । क्रैस्तमठे अस्य सहोद्योगिनः स्नेहपराः, बुद्धिमन्तः च आसन् । अस्य ग्रिगोर् जान् मेण्डेलस्य विज्ञाने विद्यमानाम् आसक्तिम् अवगत्य मठस्य परतया एव वर्षद्वयं यावत् भौतविज्ञानस्य अध्ययनार्थं वेनिस् नगरं प्रति प्रेषितः । तदनन्तरं भौतविज्ञानम् अधीत्य प्रत्यागतः ग्रिगोर् जान् मेण्डेल् क्रैस्तमठः यत्र आसीत् तस्मिन् एव ब्रून्-नगरे भौतविज्ञानस्य अध्यापकः सञ्जातः । सः तदवसरे बाल्ये या आसक्तिः आसीत् तस्याः अनुसारं पुनः हरेणुसस्यस्य वैज्ञानिकम् अभ्यासम् अकरोत् । हरेणुसस्यानां जीवनस्य अवधिः अत्यल्पः इति कारणतः बहूनाम् अंशानाम् अध्ययनार्थं ग्रिगोर् जान् मेण्डेलस्य साहाय्यम् अभवत् । आनुवंशीयानां गुणानाम् अभ्यासार्थं कृतकं परागस्पर्शम् अपि कृत्वा अभ्यासम् अकरोत् । स्वेन कृतानां संशोधनानाम् आधारेण आनुवंशीयानां गुणानां नियमान् निरूपितवान् च ।

आनुवंशीयाः गुणाः अनेके स्वतन्त्राः घटकाः सन्तः एकस्याः वंशश्रेण्याः अन्यां वंशश्रेणीं प्रति गच्छन्ति । तान् घट्कान् इदानीम् आङ्ग्लभाषायां "जीन्” इति वदन्ति । पितुः मातुः च आनुवंशीयानां गुणानां समानाः घटकाः चेत् अग्रिमा वंशश्रेणी एकरूपिणी भवति (होमोजैगस्) । यदि पितुः मातुः च आनुवंशीयानां गुणानां घटकाः विभिन्नाः भवन्ति तर्हि अग्रिमा वंशश्रेणी बहुरूपिणी भवति (हेटिरोजैगस्) । बहुरूपिजीविषु आनुवंशीयानां गुणानां एकः घटकः प्रबलः अपरः च दुर्बलः भवति । प्रबलस्य घटकस्य लक्षणानि जीविषु अभिव्यक्तानि भवन्ति, दुर्बलस्य घटकस्य च लक्षणानि अभिव्यक्तानि न भवन्ति । अग्रिमायां वंशश्रेण्याम् अपि एषः क्रमः एव अनुवर्तते ।

अयं ग्रिगोर् जान् मेण्डेल् द्वयोः विरुद्धगुणयुक्तयोः सस्ययोः विषये अपि प्रयोगान् कृत्वा अन्यम् एकं प्रमुखम् अंशं संशोधितवान् । विभिन्नानां घटकानां वंशश्रेणीं प्रति गमनसमये ते सर्वे अपि स्वतन्त्राः भवन्ति इति । अनेन ग्रिगोर् जान् मेण्डेलेन संशोधितः आनुवंशीयगुणानां नियमः जीविनां वैशिष्ट्यस्य विषये, तेषां स्वतन्त्रकार्याणां विषये च विवरणदाने समर्थः आसीत् । अष्ट वर्षाणि यावत् संशोधनं कृत्वा ज्ञातान् सर्वान् अंशान् १८५६तमे वर्षे ब्रून्-नगरस्य विज्ञानसङ्घे विस्तरेण विवृतवान् । तान् अंशान् सः सङ्घः प्रकायत् अपि । तथापि तेन ग्रिगोर् जान् मेण्डेलेन यः आदरः प्राप्तव्यः आसीत् सः न प्राप्तः एव । एषः १८८४तमे वर्षे जनवरिमासस्य ६ दिनाङ्के इहलोकम् अत्यजत् । तस्य मरणस्य १६ वर्षाणाम् अनन्तरं १९००तमे वर्षे तस्य विचाराणां पुनरुत्थानम् अभवत् । हालेण्ड्-देशस्थः ह्युगो दि व्रीस्, जर्मन्-देशस्थः कार्ल् कोरेन्स्, तथा आस्ट्रियादेशस्थः एरिक् शेर्मार्क् इति त्रयः विज्ञानिनः स्वप्रबन्धेषु ग्रिगोर् जान् मेण्डेलस्य प्रथमं स्थानम् अयच्छन् । अयं ग्रिगोर् जान् मेण्डेल् गणितस्य सूत्राणाम् अन्वयं सस्यशास्त्रे कृतवान् आसीत् ।

बाह्यसम्पर्कतन्तुः सम्पादयतु