जीवशास्त्रम्

जीवशास्त्रं यस्मिन् शास्त्रे विविधानां जीवानां समग्राध्ययनं विद्यते तच्छास्त्रं जीवशास्त्रं कथ्यते। समस्तप्राणिनां जीवनस्य सूक्ष्मरूपेण अवलोकनम् अध्ययनञ्च जीवशास्त्रस्य विषयः भवति।

भूमिकाEdit

   
   

क्षेत्रा:Edit

इत्यादयः

इतिहासःEdit

वेदेषु अपि अनेके पादपा: पशव: च वर्णिता: सन्ति। वेदेषु सोमौषधिः वनराजः इति प्रशंसितः दृश्यते। तदा जनाः अश्वत्थकाष्ठेन पात्राणां निर्माणं कुर्वन्ति स्म। महाकाव्येषु अपि भारतीयजीवशास्त्रस्य महत्त्वम् दृश्यते। तैत्तिरीयसंहितायाम् पादपानाम् अङ्गानि वर्णितानि। उदयनः पृथ्वीनिरापर्ये पादपाः जीविनः इति प्रत्यपद्यत। बौद्धतत्वज्ञानी धर्मोत्तरः न्यायविदूतिकायाम् पादपानां निद्राम् अवर्णयत् (रात्रौ पत्राणि पिदधाति)। गुणरत्नः सद्दर्शनसमुच्चये जीवीनाम् स्वभावान् विवदते स्म। पराशरः वृक्षायुर्वेदग्रन्थे प्रभासंयोगम् अवर्णयत्। पराशरः पादपगणता अभिदधाति स्म। चरकसुश्रुतौ आन्दुवंशिक्याः मूलभूतानाम् अध्ययनम् अकुरुताम्। शालिहोत्राग्निवेषौ पशुवैद्यौ आस्ताम् । सुश्रुतः अपि महान् चिकित्सकः आसीत्।

अन्यानि द्रष्टव्यानि पृष्टानिEdit

जीवविज्ञानसम्बद्धम्Edit

जीविनां सम्बद्धं विज्ञानं जीवविज्ञानम् इति उच्यते । इदमिदानीं जीवविज्ञानं बहु प्रामुख्यं प्राप्यमाणम् अस्ति । तस्य कारणं जीववैविध्यस्य संरक्षणम् । जीवविज्ञानस्य आरम्भः सस्यविज्ञानं, प्राणिविज्ञानम् इति विभागद्वयेन जातः आसीत् । अद्य तस्मिन् शास्त्रे -

जीवरचनाशास्त्रम्
जीवरसायनशास्त्रम्
जैविकयन्त्रशास्त्रम्
जीवभौतशास्त्रम्
जैविकतन्त्रज्ञानम्
सस्यशास्त्रम्
जीवकणशास्त्रम्
जीववर्धनशास्त्रम्
परिसरजीवशास्त्रम्
१० जीवविकासशास्त्रम्
११ वंशशास्त्रम्
१२ सूक्ष्मजीवशास्त्रम्
१३ नाडीविज्ञानम्
१४ पुरातनजीवशास्त्रम्
१५ औषधशास्त्रम्
१६ जीवक्रियाशास्त्रम्
१७ सैद्धान्तिकजीवशास्त्रम्
१८ प्राणिशास्त्रम्

इत्यादयः बहवः विभागाः सन्ति । परिवर्त्यमानः परिसरः अपि जीवविज्ञानं विस्तारयन् अस्ति । परिवर्तनस्य अवसरे जायमानाः समस्याः, नूतनानां जीविनाम् उद्भवः, अबलानां जीविनां वंशस्य नाशः इत्यादयः सर्वे अपि विषयाः अस्य शास्त्रस्य वैशाल्यस्य कारणीभूताः सन्ति । अस्य जीवविज्ञानस्य वर्धनस्य अन्यत् अपि किञ्चन प्रमुखं कारणं नाम जीवविज्ञानिनः । तेषां सर्वेषां संशोधनानां कारणतः एव जीवविज्ञानस्य एतावती प्रगतिः जाता अस्ति ।

Edit


Edit

बाह्यबन्धुकानिEdit