एतानि चायपत्राणि चायसस्यस्य पत्राणि । एतानि भारते अपि वर्धन्ते । एतानि चायपत्राणि आङ्ग्लभाषायां Tea Leaf इति उच्यते । चायसस्यं यदा सम्यक् वर्धते तदा तानि १-२ अङ्गुलं यावत् कर्त्यन्ते । तानि एव चायपत्राणि । तानि पत्राणि मुकुलम् अथवा पल्लवम् इत्यपि उच्यते । कर्तनानन्तरं चायसस्ये सप्ताहाभ्यन्तरे नूतनानि पल्लवानि उद्भवन्ति । चायसस्यस्य अवरोधः कोऽपि न भवति चेत् तत् वृक्षरूपेण वर्धते । तथा वृक्षः भवति चेत् पल्लवानां चयनं कष्टकरम् इति कारणतः पर्याप्तस्य औन्नत्यस्य प्राप्त्यनुक्षणं तानि कर्त्यन्ते । चायपत्राणां चयनस्य अनन्तरं तानि पत्राणि शुष्कीक्रियन्ते । तथा शुष्कीकृतेभ्यः पत्रेभ्यः एव चायं निर्मीयते । कुत्रचित् अशुष्केभ्यः पत्रेभ्यः अपि चायं निर्मीयते । तादृशं चायं "हरितचायम्" इति उच्यते । शुष्कीकृतानि पत्राणि चूर्णीकृत्य अपि उपयुज्यते । तदेव चायचूर्णम् इति उच्यते ।

अशुषकं चायपल्लवम्
विभिन्नाकारकाणि चायपत्राणि
विक्रयणार्थं सिद्धाः चायपत्रपूरिताः स्यूताः
शुष्कानि चायपत्राणि
चायसस्येभ्यः चायपत्राणां चयनम्
चायसस्यस्य शाखा, पत्रं, पुष्पं चापि

अस्मिन् चायसस्ये विधद्वयं भवति । एकविधस्य सस्यस्य पत्राणि अत्यन्तं लघ्वाकारकाणि भवन्ति । अपरस्य विधस्य चायपत्राणि महाकारकाणि भवन्ति । लघ्वाकारकाणां पत्राणां सस्यानि चीनामूलीयानि । तस्य प्रभेदस्य सस्यशास्त्त्रीयं नाम अस्ति "सैनेन्सिस् सैनेन्सिस्" इति । अस्य प्रभेदस्य चायं चीना, फार्मोसा, जपान् इत्यादिषु देशेषु उपयुज्यते । महाकारकाणां पत्राणां सस्यानि च भारतस्य असममूलीयानि । तस्य प्रभेदस्य सस्यशास्त्रीयं नाम अस्ति "सैनेन्सिस् अस्सामिका" इति । अस्य प्रभेदस्य चायं भारते तथा अन्येषु देशेषु उपयुज्यते । इदानीं चायप्रभेदाः बहवः सन्ति । यतः मूलप्रभेदेषु आधुनिकतन्त्रज्ञानस्य उपयोगेन बहवः वंशाः निर्मिताः सन्ति । चायसस्यानां वर्गीकरणे एतेषां चायपत्राणां गात्रम् आकारः वा प्रमुखं पात्रं वहति । मध्यमगात्रस्य पत्रयुक्तं "काम्बोड्" प्रभेदः अपि इदानीं प्रसिद्धः अस्ति ।

चायपत्राणां चयनानुक्षणं यदि न शुष्कीक्रियन्ते तर्हि तानि म्लानानि भवन्ति । अनन्तरं तानि कृष्णवर्णीयानि भवन्ति । चायचूर्णं सज्जीकृत्य अथवा चायपत्राणि शुष्कीकृत्य पूरणावसरे यदि तत्र जलांशः भवति तर्हि अपि तत् चायचूर्णं चायपत्रं वा नष्टं भवति । तस्मिन् विषकारिणः रोगकारकाः सूक्ष्मजीविनः वर्धन्ते अपि । अतः तदवसरे सज्जीकरणावसरे अत्यन्तं जागरूकता वोढव्या भवति । विपणिषु यानि चायचूर्णानि चायपत्राणि वा क्रयणार्थं यत् प्राप्यते तत्र चायनिर्माणार्थं यद्यत् अपेक्षितं प्रायः तत्सर्वं योजितं भवति । पूर्वं चायपत्रेभ्यः एव चायं निर्मीयते स्म । अनन्तरं चायचूर्णस्य निर्माणम् आरब्धम् । चायचूर्णस्य अथवा चायपत्रस्य निर्यातम् अत्यधिकप्रमाणेन कीन्यादेशः करोति । आयातं च पाकिस्तानम्, अमेरिकासंयुक्तसंस्थानानि, ईजिप्त् तथा जपान् देशैः क्रियते ।

बहुविधानि चायपत्राणि सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चायपत्रम्&oldid=388698" इत्यस्माद् प्रतिप्राप्तम्