चित्रदुर्गम्

(चित्रदुर्गः इत्यस्मात् पुनर्निर्दिष्टम्)

चित्रदुर्गं (Chitradurga) कर्णाटकस्य चित्रदुर्गमण्डलस्य केन्द्रम् अस्ति । चित्रदुर्गम् ऐतिहासिकमहत्त्वम् आप्नोति । त्यागे, शौर्ये, परम्परायां च एतत् प्रसिद्धिम् आप्नोत् । अत्र विद्यमानः सप्तावर्तं दुर्गं पर्यटकान् आकर्षति । विजयनगरसाम्राज्यस्य काले तिम्मण्णनायकः इति सेनापतिः आसीत् । तस्य शौर्यपराक्रमं च प्रशंस्य राजा तस्मै एतत् स्थानं पारितोषिकरूपेण प्रदत्तवान् । तिम्मण्णनायकस्य पुत्रः ओबण्णः अथवा मदकरिनायकः । तस्य पुत्रः कस्तूरीरङ्गप्पः । अस्य काले प्रदेशः शान्तः समृद्धः चासीत् । इसिल इति प्रदेशः चित्रदुर्गस्य ईशान्यप्रान्ते ब्रह्मगिरेः समीपे अस्ति । चक्रवर्तिनः अशोकस्य काले एतत् स्थलम् अस्य राज्यस्य राजधानी आसीत् । तस्य काले निर्मितः चैत्यालयः इदानीमपि अत्र दृश्यते । आशोकस्य शिलाशासनमपि अत्र प्राप्तम् ।

चित्रदुर्गम्
नगरम्
Skyline of चित्रदुर्गम्
देशः  भारतम्
राज्यम् कर्णाटकम्
भागम् बयलुसीमे
Government
 • लोकसभासदस्यः जनार्धनस्वामिः
Elevation
७३२ m
Population
 (2001)
१,२२,५९४
 • Density ५,६८३.५४/km
भाषाः
 • अधिकृत कन्नड
Time zone UTC+5:30 (भारतीय सामान्यकालमानम्)
पत्रालयकूटसंख्या
577 50x
दूरवणीकूटसंख्या 08194
Vehicle registration KA-16

वीथिका सम्पादयतु

बाह्यसम्पर्कतन्तुः सम्पादयतु

"https://sa.wikipedia.org/w/index.php?title=चित्रदुर्गम्&oldid=480304" इत्यस्माद् प्रतिप्राप्तम्