बयलुसीमे
कर्णाटकराज्यम् अनधिकृतरूपेण त्रिधा विभक्तम् अस्ति ।
- मलेनाडु
- बयलुसीमे
- घट्टप्रदेशः च इति ।
सामान्यतः कर्नाटके घट्टप्रदेशः नाम पश्चिमघट्टप्रदेशस्य भागाः, समुद्रतीरप्रदेशः च । मलेनाडुप्रदेशः नाम पश्चिमघट्टानाम् पूर्वभागे विद्यमानः पर्वतमयः अधिकवृष्टियुक्तः प्रदेशः । बयलुसीमे नाम समतलभूमियुक्तः, कुत्रचित् लघुपर्वतयुक्तः न्यूनवृष्टियुक्तः प्रदेशः । बयलुसीमे भागे धारवाड-बेळगावी-गदग-हावेरी-बिजापुर-बागलकोटे-गुल्बर्गा-यादगिरि- रायचूरु-कोप्पळ-बळ्ळारी- चित्रदुर्ग-दावणगेरे- तुमकूरु-हासन-मण्ड्यमण्डलानि सन्ति ।
निर्वचनम्
सम्पादयतुबयलुसीमे इति नाम कन्नडभाषायाः । ”’बयलु”’ नाम समतलभूमिः, सीमे नामा प्रान्तः इति ।
भौगोलिकता
सम्पादयतुआहारः, भाषाशैली, जीवनं च नितरां भिन्नं भवति । दक्खन् प्रस्थभूमेः अङ्गत्वेन अस्ति एषः प्रदेशः। सामान्यतः मलेनाडुविभागस्य पूर्वभागे भवति एषः प्रदेशः। पश्चिमघट्टे जन्मप्राप्तवत्यः अनेकाः प्रमुखाः नद्यः पूर्वदिशि प्रवहन्त्यः बङ्गालोपसागरेण मिलन्ति । बयलुसीमेविभागः पुनश्च द्विधा विभक्तुं शक्यते ।
- उत्तरबयलुसीमे
- दक्षिणबयलुसीमे च इति ।
उत्तरबयलुसीमे
सम्पादयतुएषः भागः नितरां रूक्षः, वृक्षरहितः ३००तः ७००मीटरपरिमिते उन्नते स्थाने अस्ति । अस्मिन् बेळगावी-बळ्ळारी-धारवाड-बीदर-बिजापुर-चित्रदुर्ग-रायचूरु-गुल्बर्गामण्डलानि अन्तर्भवन्ति । कृष्णानदी तथा तस्याः उपनद्यः भीमा, घटप्रभा, मलप्रभा, तुङ्गभद्रा नद्यः अत्र वहन्ति ।
दक्षिणबयलुसीमे
सम्पादयतुअस्मिन् बेङ्गळूरु-बेङ्गळूरुग्रामान्तर-चामराजनगर-हासन-कोलार-मण्ड्य-मैसूरु-तुमकूरुमण्डलानि अन्तर्भवन्ति । अत्र ६००तः ९००मीटरमितोन्नतानि ग्र्यानैट् शिखराणि सन्ति । सामान्यतः पश्चिमे पश्चिमघट्टाः, पूर्वभागे लघुपर्वतपङ्क्तयः सन्ति।
बयलुसीमेप्रदेशस्य प्रमुखनगराणि
सम्पादयतुबेङ्गळूरु, मैसूरु, तुमकूरु, चित्रदुर्गं, बळ्ळारी, रायचूरु, हुब्बळ्ळी, धारवाड, तथा दावणगेरे। अत्रत्यानि प्रमुखानि उत्पन्नानि नाम कार्पासः, रागिधान्यं, कलायाः च।