चेतसा सर्वकर्माणि...
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- चेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः ।
- बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥
अयं भगवद्गीतायाः अष्टादशोऽध्यायस्य मोक्षसंन्यासयोगस्य सप्तपञ्चाशत्तमः(५७) श्लोकः ।
पदच्छेदः
सम्पादयतुचेतसा सर्वकर्माणि मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य मच्चित्तः सततं भव ॥
अन्वयः
सम्पादयतुसर्वकर्माणि चेतसा मयि सन्न्यस्य मत्परः बुद्धियोगम् उपाश्रित्य सततं मच्चित्तः भव ।
शब्दार्थः
सम्पादयतु- चेतसा = मनसा
- सन्न्यस्य = समर्प्य
- मत्परः = मदासक्तः
- बुद्धियोगम् = समाहितचित्तत्वम्
- उपाश्रित्य = अवलम्ब्य
- मच्चित्तः = मन्मनाः ।
अर्थः
सम्पादयतुसर्वाण्यपि कर्माणि मयि विन्यस्य अहमेव परः पुरुषार्थः इति मन्यमानः समाहितचित्तः सर्वदा मय्येव मनः स्थापय ।