छिन्दवाडामण्डलम्

(छिन्दवाड़ा मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)

छिन्दवाडामण्डलम् ( /ˈxhɪndəvɑːdɑːməndələm/) (हिन्दी: छिन्दवाडा जिला, आङ्ग्ल: Chhindwara district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति छिन्दवाडा इति नगरम् ।

छिन्दवाडामण्डलम्

Chhindwara District
छिन्दवाडा जिला
छिन्दवाडामण्डलम्
छिन्दवाडामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे छिन्दवाडामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे छिन्दवाडामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि छिन्दवाडा, तामिया, परासिया, अमरवाडा, चौरई , उमरेठ, जुन्नारदेव, मोहखेड़ , बिछुआ, सौसर , पांढुरना
विस्तारः ११,८१५ च. कि. मी.
जनसङ्ख्या (२०११) २०,९०,९२२
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७१.१६%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४८.५%
Website http://chhindwara.nic.in/

भौगोलिकम् सम्पादयतु

छिन्दवाडामण्डलस्य विस्तारः ११,८१५ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य दक्षिणभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सिवनीमण्डलं, पश्चिमे नरसिंहपुरमण्डलम्, उत्तरे बैतूलमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति ।

जनसङ्ख्या सम्पादयतु

२०११ जनगणनानुगुणं छिन्दवाडामण्डलस्य जनसङ्ख्या २०,९०,९२२ अस्ति । अत्र १०,६४,४६८ पुरुषाः, १०,२६,४५४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १७७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १७७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.०७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९६४ अस्ति । अत्र साक्षरता ७१.१६% अस्ति ।

उपमण्डलानि सम्पादयतु

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- छिन्दवाडा, तामिया, परासिया, अमरवाड़ा , चौरई , उमरेठ, जुन्नारदेव, मोहखेड़, बिछुआ, सौसर, पांढुरना।

वीक्षणीयस्थलानि सम्पादयतु

पातालकोट सम्पादयतु

पातालकोट तामिया-उपमण्डले स्थितमस्ति । अस्य स्थलस्य भौगोलिकं दार्शनिकं च वातावरणं सुन्दरम् अस्ति । अत्र १२००-१५०० फीट परिमितः गर्तः अस्ति । अतः अस्य स्थलस्य नाम पातालकोट अस्ति । उच्यते यत् अत्रैव राज्ञा मेघनाथेन भगवतः शिवस्य पूजा कृता । भगवतः शिवस्य कृपया राजा मेघनाथः पाताललोकम् अगच्छत् । जनाः वदन्ति यत् १८-१९ शताब्द्याम् अत्र राजशासनम् आसीत् । अस्मात् नगरात् पचमढीपर्यन्तं एकः सुरङ्गमार्गः आसीत् । अस्मिन् मण्डले छोटा महादेव गुफा, देवगढ-दुर्गः, कुकडीखापा एवं लिलाही जलप्रपातः, आदिवासी सङ्ग्रहालयः इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

http://chhindwara.nic.in/
http://www.census2011.co.in/census/district/322-chhindwara.html

"https://sa.wikipedia.org/w/index.php?title=छिन्दवाडामण्डलम्&oldid=463955" इत्यस्माद् प्रतिप्राप्तम्