नरसिंहपुरमण्डलम्

नरसिंहपुरमण्डलम् ( /ˈnərəsɪnhəpʊrəməndələm/) (हिन्दी: नरसिंहपुर जिला, आङ्ग्ल: Narsinghpur district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति नरसिंहपुरम् इति नगरम् ।

नरसिंहपुरमण्डलम्

Narsimhapur District
नरसिंहपुर जिला
नरसिंहपुरमण्डलम्
नरसिंहपुरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे नरसिंहपुरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे नरसिंहपुरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि नरसिंहपुर, तेन्दुखेडा, करेली, गोतेगांव, गडरवाडा
विस्तारः ५,१३३ च. कि. मी.
जनसङ्ख्या (२०११) १०,९१,८५४
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७५.६९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४६%
Website http://narsinghpur.nic.in/

भौगोलिकम्संपादित करें

नरसिंहपुरमण्डलस्य विस्तारः ५,१३३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे जबलपुरमण्डलं, पश्चिमे होशङ्गाबादमण्डलम्, उत्तरे सागरमण्डलं, दक्षिणे छिन्दवाडामण्डलम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति । अस्मिन् मण्डले उत्तरदिशि विन्ध्याचलपर्वतशृङ्खला एवं दक्षिणदिशि सतपुडापर्वतशृङ्खला अस्ति ।

जनसङ्ख्यासंपादित करें

२०११ जनगणनानुगुणं नरसिंहपुरमण्डलस्य जनसङ्ख्या १०,९१,८५४ अस्ति । अत्र ५,६८,८१० पुरुषाः, ५,२३,०४४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २१३ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २१३ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १४.०१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२० अस्ति । अत्र साक्षरता ७५.६९% अस्ति ।

उपमण्डलानिसंपादित करें

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- नरसिंहपुरम्, तेन्दुखेडा, करेली, गोतेगांव, गडरवाडा ।

कृषिः वाणिज्यं चसंपादित करें

अस्मिन् मण्डले फेनकपाषाणं, ’डोलोमाइट’, चूर्णपाषाणः इत्यादयः उत्पाद्यन्ते । चीचाली-ग्रामे जनाः पित्तलं, ताम्रं, ’जस्ता’ इत्येतेषां धातूनां पात्राणि निर्मान्ति ।

वीक्षणीयस्थलानिसंपादित करें

नरसिंह-मन्दिरम्संपादित करें

नरसिंह-मन्दिरस्य निर्माणं १८ शताब्द्यां ’जटसरदार’ इत्यनेन कारितम् । अस्मिन् मन्दिरे भगवतः विष्णोः नरसिंहावतारस्य प्रतिमा अस्ति ।

ब्राह्मण-घट्टःसंपादित करें

ब्राह्मण-घट्टः करेली-ग्रामात् १२ कि. मी. दूरे अस्ति । स्थलमिदं नर्मदायाः तटे स्थितमस्ति । इमं घट्टं परितः भगवतः चतुर्मुखब्रह्मणः यज्ञशाला, दुर्गावती-मन्दिरम्, गजद्वारं, वराहमूर्तिः (statue of Varaha) च अस्ति । झोटेश्वर, डमरु घाटी, चौरागढ-दुर्गः इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुःसंपादित करें

http://narsinghpur.nic.in/
http://www.census2011.co.in/census/district/319-narsimhapur.html

"https://sa.wikipedia.org/w/index.php?title=नरसिंहपुरमण्डलम्&oldid=463981" इत्यस्माद् प्रतिप्राप्तम्