जलधरमाला
जलधरमाला।
प्रतिचरणम् अक्षरसङ्ख्या १२
अब्ध्यङ्गै: स्याज्जलधरमाला म्भौ स्मौ। केदारभट्टकृत- वृत्तरत्नाकर:३. ६५
ऽऽऽ ऽ।। ।।ऽ ऽऽऽ
म भ स म।
यति: चतुर्भि: अष्टाभि:च।
उदाहरणम् -
धर्मो ग्लानो बलवदधर्मो यद्वा, पार्थात्मानं समवसृजाम्येतस्मिन्। साधुत्राणं खलदलनाशं कर्तुं, काले काले रचयितुमेवं धर्मम्॥