ज्ञानं तेऽहं सविज्ञानम्...

भगवद्गीताश्लोकः ७.२


श्लोकः सम्पादयतु

 
गीतोपदेशः
ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः ।
यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ॥ २ ॥

अयं भगवद्गीतायाः सप्तमोध्यायस्य ज्ञानविज्ञानयोगस्य द्वितीयः(२) श्लोकः ।

पदच्छेदः सम्पादयतु

ज्ञानं ते अहं सविज्ञानम् इदं वक्ष्यामि अशेषतः यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते ॥ २ ॥

अन्वयः सम्पादयतु

अहम् इदं सविज्ञानं ज्ञानं ते अशेषतः वक्ष्यामि यत् ज्ञात्वा अन्यत् ज्ञातव्यं भूयः इह न अवशिष्यते ।

शब्दार्थः सम्पादयतु

अहम् = सर्वेश्वरः अहम्
इदम् = एतत्
सविज्ञानम् = अनुभवसहितम्
ज्ञानम् = परमात्मज्ञानम्
ते = तव
अशेषतः = समग्रम्
वक्ष्यामि = कथयिष्यामि
यत् ज्ञात्वा = यत् अवबुद्ध्य
ज्ञातव्यम् = बोद्धव्यम्
अन्यत् = इतरत्
भूयः = पुनः
इह = अत्र
न अवशिष्यते = परिशिष्टं न भवति ।

अर्थः सम्पादयतु

अहम् एतत् अनुभवसहित परमात्मज्ञानं ते अशेषतः वक्ष्यामि । एतद् यदि जानासि तर्हि पश्चात् अस्मिन् लोके ज्ञातव्यम् अन्यत् किमपि ते न अवशिष्यते ।

बाह्यसम्पर्कतन्तुः सम्पादयतु

सम्बद्धाः लेखाः सम्पादयतु