ज्ञानयज्ञेन चाप्यन्ये...
भगवद्गीतायाः श्लोकः ९.१५
श्लोकः
सम्पादयतुअयं लेखः विकिपीडिया-विश्वकोषस्य अन्यलेखैः सह संयोजनीयः । सन्दर्भानुगुणं परिसन्धयः योज्यन्ताम् । तेन(जनुवरि २०१४) |
- ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते ।
- एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
अयं भगवद्गीतायाः नवमोध्यायस्य राजविद्याराजगुह्ययोगस्य पञ्चदशः(१५) श्लोकः ।
पदच्छेदः
सम्पादयतुज्ञानयज्ञेन च अपि अन्ये यजन्तः माम् उपासते एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ॥ १५ ॥
अन्वयः
सम्पादयतुअन्ये च विश्वतोमुखं मां ज्ञानयज्ञेन एकत्वेन पृथक्त्वेन बहुधा यजन्तः अपि उपासते ।
शब्दार्थः
सम्पादयतु- अन्ये च = इतरे तु
- विश्वतोमुखं माम् = सर्वतोमुखं माम्
- ज्ञानयज्ञेन = तत्त्वज्ञानरूपयज्ञेन
- एकत्वेन = एकतया
- पृथक्त्वेन = पृथक्तया
- बहुधा = बहुप्रकारेण
- यजन्तः अपि = आराधयन्तः अपि
- उपासते = सेवन्ते ।
अर्थः
सम्पादयतुअन्ये एतत्सर्वं वासुदेव इति ज्ञानरूपेण यज्ञेन मां पूजयन्ति । तत्रापि केचन सर्वत्र वर्तमानं माम् एकमेव परं ब्रह्मेति बुद्ध्या पूजयन्ति, अन्ये तु तादृशस्य ब्रह्मणः दासोऽहमिति भेदबुद्ध्या इति विशेषः ।