ज्योतिषस्य संहितास्कन्धः

संहितास्कन्धः ज्योतिषशास्त्रस्य कश्चन भागः वर्तते। ज्योतिषस्य हि सन्ति त्रयो मुख्यभागाः स्कन्धसंहिता-सिद्धान्तसंहिता-होराऽऽख्याः । तत्र ग्रहाद्यवस्थितिर्बोधकः स्कन्धः सिद्धान्तो यस्य गणितग्रहगणितगोलभेदेन त्रयः पादाः । ग्रहाणां सामूहिकप्रभावो येन ज्ञायते स संहितास्कन्धः सार्वत्रिकविषयः । येन सः प्रभावो व्यक्तावन्विष्यते स होरास्कन्धः । एतेनैतत्सिध्यति यद्ग्रहस्थितिज्ञानमेव सिद्धान्तस्तस्याः समूहे प्रभाव ज्ञानं संहिताव्यक्ती तु होरेति । केचित्तु नैतद वाञ्छन्ति । तेषां मते जातकप्रश्नमुहूर्तनिमित्तादिहोराविषयम् । सिद्धान्तहोयोरेका वर्णनमेव संहितेति । मतभेदोऽयं संहिताहोरे आदायैव । कल्याणवर्मा स्पष्टमेव निर्दिशति यज्ञातस्य शुभाशुभादिकमैफलादेशिका होरेति । यथोक्तम्--

'कर्मफललाभहेतु चतुराः संवर्णयन्त्यन्ये।

होरेति शास्त्रसंशा लग्नस्य तथार्धराशेवा ।।

तकमिति प्रसिद्धं यल्लोके तदिह कीय॑ते होरा।' इति ।

तद्विपरीतं होराविषयो यथा नारदसंहितायाम् -

'शास्त्रोपनयनाध्यायो ग्रहचारोऽब्दलक्षणम् ।

तिथिर्वारञ्च नक्षत्रं योगं तिथ्यर्द्धसंज्ञकम् ।।

मुहूर्ताऽपग्रहोऽर्कस्य, सङ्क्रान्तिर्गोचरस्तथा ।

चन्द्रताराबलाध्यायः सर्वलग्नार्तवाह्वयः ।।

आधानपुंससीमन्तो जातनमान्नभुक्तयः ।।

चौलाङ्कुरार्पणे मौजीछरिकाबन्धने क्रमात् ।

समावर्तनवैवाहप्रतिष्ठा सग्नलक्षणम् ।।

यात्राप्रवेशनं सद्यो वृष्टिकर्म विलक्षणम् ।।

उत्पातलक्षणं शान्तिमश्रक श्राद्धलक्षणम् ।

सप्तत्रिशद्भिरध्यायैर्नारदीयाऽऽख्यसंहिता ॥' इति ।

वराहमिहिरस्तु -

"ज्योतिःशास्त्रमनेकभेदविषयं स्कन्धत्रयाधिष्ठितम्

तत्कात्स्यपनयस्य नाम मुनिभिः सङ्कीर्यते संहिता ॥' इति ।

स तत्रैव कथयति -

•••••••••••••गणितेन या ग्रहगतिस्तन्त्राभिधानस्त्वसौ । ।

होराऽन्योऽङ्गविनिश्चयश्च कथितः स्कन्धस्तृतीयोऽपरः ।।' इति ।

भट्टोत्पलो व्याख्यात्येतत् -

'प्रतिष्ठायात्राविवाहादीनां लग्नग्रहवशेन च शुभाशुभफलं जगति यथा निश्चीयते सा होरा' । इति । एतेनैतदुक्तं भवति--‘गणितेन ग्रहगतिज्ञानं सिद्धान्तः, अङ्गविनिश्चयो होरा सामान्यफलवर्णनं संहितेति ।।

एतावत्तु सुनिश्चितमेव यद्धोरासंहितयोविषयविभागो यः कोऽपि स्यात् ग्रहाणां शुभाशुभप्रभावस्तुभयोरेव विषयः । तत्र संहिताभागः प्राणिमात्रे ग्रहप्रभावं कालस्थितिञ्च, निरूपयति, यदा होराभागो व्यक्तिविशेषे एव । तेन हि संहिताभागः सार्वभौमविषयकः । अत्र हि सिद्धान्तफलितयोरुभयोरेव समन्वयो दृश्यते । । सम्भवतः संहिताभागः सिद्धान्तभागादपि प्राचीनतरः । अस्य हि पर्याप्ती सामग्री वैदिकसंहितायां वैदिकसाहित्ये च समुपलभ्यते । वस्तुतस्तु वेदा हि यज्ञप्रयोजकास्तेन वेदेषु यत्किञ्चिदपि प्रोक्तं तत्सर्वं यज्ञार्थमेव । अतो यज्ञनिमित्तकोपयुक्तकालज्ञानायैव तत्र ज्योतिषं हि प्रवर्ततम् । यत्र कुत्र ज्योतिष कालज्ञानशास्त्रमित्यप्युक्तं तेनैव । विषयोऽयं संहितासाध्यः । तेन प्रथम संहिता एव प्रचलिताऽऽसीत् । पश्चाच्च विशिष्टज्ञानाय संहितातः सिद्धान्तभागः पृथक्कृतः । होराभागस्तु सर्वेष्वर्वाचीनः । यद्यपि पश्चाद्वतिकाले संहिताभागे मुहूर्तविषय एवावशिष्टस्तथापि नेदमस्य यथार्थरूपम्। संहिताकालेऽपीदं दृश्यते यत्प्रत्येककर्मनिमित्तं शुभ मुहूर्त आवश्यकः, किञ्च शुभे मुहुर्ते कृतं कर्म शुभं फलति तदन्यथा तद्विपरीतम् । अथात्र शुभकालसूचकानि कानिचिद्वचनानि समुध्रियन्ते तत्रत्यानि-

‘आ यद्हाव वरुणश्च नावं प्र यत समुद्रमीरयाव मध्यम् । ।

अधि' यदपां स्नुभिश्चराव प्र प्रेङ्ख ईङ्ख्यावहै शुभे कम् ॥

वसिष्ठं ह वरुणो नाव्याधादृषिञ्चकार स्वपा महोभिः ।।

स्तोतारं विप्रः सुदिनत्वे अह्रां यान्नु द्यावस्ततनन् यादुषासः ॥'[]

'शं नो मित्रः शं वरुणः शं विवस्वांछमन्तकः ।

उत्पाताः पार्थिवान्तरिक्षाः शं नो दिविचराः ग्रहाः ॥

शं नो भूमिप्यमाना शमुल्को निर्हतं च यत् ।

शं गावो लोहितक्षीराः शं भूमिरव तीर्यतीः ।।

नक्षत्रमुल्काभिहतं शमस्तु नः शं नोऽभिचाराः शमु सन्तु कृत्याः ।।

शं नो निखाता वल्गाः शमुल्का देशोपसर्गाः शमु नो भवन्तु ।

शं नो ग्रहाश्चान्द्रमसाः शमादित्यश्च राहुणा ।।

शं नो मृत्युधूमकेतुः शं रुद्रास्तिग्मतेजसः ॥'[]

‘कृत्तिकास्वग्नीऽआदधति:::"तभूमानमेवैतदुपैति ।

तस्मात्कृत्तिकास्वादधीत•••••••••••••••••• ।'[]

‘अथ यस्मान्न कृत्तिकास्वादधीत । ऋक्षाणां ह वा एताऽअग्रे पन्य आसुरः सप्तर्षीनु ह स्म वै पुरक्षऽइत्याचक्षते । ना मिथुनेन व्याध्यन्तामी हयुत्तरा हि सप्तऋषय उद्यन्ति पुरऽएता अशमिव वै तद्यो मिथुनेन व्यूद्धः स नेन्मिथुनेन व्युध्या इति तस्मान्नकृत्तिकास्वादधीत ।'[]

•••••••'रोहिण्यां ह वै प्रजापतिः प्रजाकामोऽग्नीऽआदधे••••••।

•••••••"पशुषु कामं रोहति य एवं विद्वान् रोहिण्यामाधत्ते ।।[]

•••श्रियं ह गच्छति यऽएवं विद्वान् मृगशीर्ष आधत्ते ।'[]

••••":"उत्तरयोरादधीत श्वः श्रेयस हैवास्माऽउत्तरावद्भवति ॥[]

••••••हन्ति सपत्नान् हन्ति द्विषन्तं भ्रातृव्यं य एव विद्वांश्चित्रायामाधत्ते तस्मादेतत् क्षत्रिय एव नक्षत्रमुपेत्••••••" ।'[]

'वसन्तो ग्रीष्मो वर्षाः । ते देवा ऋतवः शरद्धेमन्तः शिशिरस्ते पितरो य. एवाऽऽपूर्यतेऽर्द्धमासः स देवाः योऽपक्षीयते स पितरोऽहरेव देवारात्रिः पितरः पुनरहः पूर्वाह्नो देवाः अपराह्नः पितरः । []

"उदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं विसृजति ।[१०]

‘कृत्तिकास्वग्निमादधीत'•••••••••••••ब्रह्मवर्चसी भवति इति । मुख्यं वा । एतन्नक्षत्राणां यत्कृत्तिकाः । यः कृत्तिकास्वग्निमाधत्ते मुख्य एव भवति इति ।

यः कामयेत दानकामाः ये प्रजाः स्युरिति स पूर्वयोः फल्गुन्योशनिमादधीत । अर्यम्णो वा एतन्नक्षत्रं यत्पूर्वं फल्गुनी । अर्यमेति तमाहुर्यों ददाति दानकामा अस्मै प्रजा भवन्ति इति ।'[११] 'पुण्याह एव कुरुते ।'[१२] 'यां कामयेत दुहितरं प्रिया स्यादिति तां निष्टयायां दद्यात् । प्रियैव भवति ।'[१३]

‘निष्टया स्वाती ।

पौष्णेन व्यवस्यन्ति । मैत्रेण कृषन्ते । वारुणेन विधुता आसते । क्षेत्रपत्येन पाचयन्ते । आदित्यनादधते ।।[१४]

'यत्पुण्यं नक्षत्रं तद्वत्कुर्वीतोपव्युषम् । यदा वै सूर्य उदेति । अथ नक्षत्र नैति । यावति तत्र सूर्यो गच्छेत् । यत्र जघन्यं पश्येत् । तावति कुर्वीत यत्कारी स्यात् । पुण्याह एव कुरुते । एवं ह वै यज्ञेषु च शतद्युम्नञ्च मात्स्यो निरवसाययाञ्चकार ।' ( १।५।२।१ )

न केवलं संहितायां ब्राह्मणे वाऽपितु कंल्पेऽपि यथा श्रौतधर्मगृह्यसूत्रेष्वपि कृत्यनिर्वाहायनमासपक्षतिथिचन्द्रनक्षत्रविषयिण्योऽनेकाः शुभाशुभनिर्देशिकाः पद्धतयो निर्दिष्टा दृश्यन्ते ।।

सामान्यतः संहिताशास्त्रे सूर्यादीनां विशेषेण नक्षत्रेण सहोदयेन प्राणिषु सम्भवी प्रभावो ग्रहकृतपरिवर्तनं वर्षादियोगाश्च निरूपणीयविषयेष्वन्यतमाः । मुहुर्तज्ञानमस्य मुख्य विषयः ।

पृथक्शास्त्रत्वेन संहिताभागस्य कदोदयो जात इति तु न शक्यत इदमित्थ-. |न्तया वक्तुम् । बृहत्संहिताकृद्वराहमिहिराचार्यों हि स्वपूर्ववतत्वेन गर्गपराशर-असित-देवल-वृद्धगर्ग-कश्यप-भृगु-वसिष्ठ-बृहस्पति-मनु-मय-सारस्वत-ऋषिपुत्रादीन् संहिताकृत्तया स्मरति तत्र तत्र । तद्विवृतौ भट्टोत्पलश्च व्यास-भानुभट्ट-विष्णुगुप्तविष्णुचन्द्र-यवन-रोम-सिद्धासन-भद्रबाहु-नन्दि-नग्नजित्प्रमुखान् संहिताकारान् स्मरति यथाप्रसङ्गम् । तेषां हि ग्रन्थाः सम्प्रति नैवोपलभ्यन्ते । सम्प्रति नारदसंहिता. पाराशरसंहिता गर्गसंहिता भृगुसंहिता काश्यपसंहिता वसिष्ठसंहिता च बृहत्संहितापूर्ववतित्वेन ज्ञायन्ते समुपलभ्यग्रन्थत्वेन ।

इदमनुमीयते यद्वेदाङ्गकालपर्यन्तं संहिताशास्त्रस्य पृथगस्तित्वं नैवाऽऽसीत् । महाभारते हि कतिपयेषां संहिताशास्त्राणां विशेषतो व्याससंहिताया अवस्थितिसंसूचकवचनान्युपलभ्यन्ते -

'तत इष्टेऽहनि प्राप्ते मुहूर्त साधुसम्मते ।

जग्राह विधिवत्पाणि माद्रयाः पाण्डुनैराधिपः ।। [१५]

‘ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजिदष्टमे ।।

दिवा मध्यगते सूर्ये तिथौ पूर्णेऽतिपूजिते । [१६]

'ततोऽब्रवीद्भगवान् धर्मराजमचैव पुण्याहमुत वः पाण्डवेयाः ।।

अद्य पौष्यं योगमुपैति चन्द्रमाः पाणि कृष्णायास्त्वं गृहाणाद्य पूर्वम् ॥' इत्यादि ।[१७]

न केवलं महाभारतेऽपितु वाल्मीकीये रामायणेऽपि संहिताविषयाः समुल्लिखिता दृश्यन्ते । यथा--

‘युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः ।

भ्रातृभिः सहितो रामः कृतकौतुकमङ्गलः ॥[१८]

‘ततो यज्ञे समाप्ते तु ऋतूनां षट् समत्ययुः ।

ततश्च द्वादशे मासे चैत्रे नावमिके तिथौ ।।

नक्षत्रेऽदितिदेवत्ये स्वोच्चसंस्थेषु पञ्चसु ।

ग्रहेषु कर्कटे, 'लग्ने वाक्पताविन्दुना सह ।।'[१९]

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः । [२०]

श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः ।।' इत्यादि।[२१]

ग्रन्थत्वेन आर्षेषु प्रथमं नारदसंहिता लभ्यते सम्प्रति, यद्यप्यस्य साम्प्रतिकं - स्वरूपं नवीनमिव प्रतिभाति ।।

नारदसंहिता

सम्पादयतु

नारदसंहिता पञ्चपञ्चाशदध्यायेषु विभक्ता । तत्र हि प्रथमे विषयनिर्देश: उक्तः। तत्र मङ्गलाचरणानन्तरमष्टादशज्योतिःशास्त्रप्रवर्तकाः, इत्थं स्मृताः -

‘ब्रह्माऽऽचार्यों वसिष्ठोऽत्रिर्मनुः पौलस्त्यरोमशौ ।

आचार्यः सूर्यं इति परम्परा ।

मरीचिरङ्गिरा व्यासो नारदः शौनको भृगुः ।।

च्यवनो यवनो गर्गः कश्यपश्च पराशरः ।

अष्टादशैते गम्भीरा ज्योतिःशास्त्रप्रवर्तकाः ॥' इति ।[२२]

ततश्च ज्योतिषस्य सिद्धान्तः संहिता होरा चेति श्रयः स्कन्धा उक्ता नामतः ( ४ )। पञ्चमपद्ये शास्त्रस्य वेदाङ्गेन सह सम्बन्ध उक्तोऽभिधेयञ्च जगतः शुभाशुभनिरूपणम् । प्रयोजनञ्चास्य यज्ञाध्ययनसक्रान्तिग्रहषोडशकर्मणां तत्तत्कालविनिर्णयः । ततो विषयनिर्देशो यथा -

'शास्त्रोपनयनाघ्यायो ग्रहचारोऽब्दलक्षणम् ।

तिथिर्वारञ्च नक्षत्रं योगं तिथ्यर्द्धसंज्ञकम् ।।

मुहूर्तोऽपग्रहोऽर्कस्य सङ्क्रान्तिर्गोचरस्तथा ।

चन्द्रताराबलाध्यायः सर्वलग्नार्तवाह्वयः ॥

आधानपुंससीमन्तो जीतनामान्नभुक्तयः ।

चौलाङ्कुरार्पणे मौञ्जीच्छुरिकाबन्धने क्रमात् ।।

समावर्तनववाहप्रतिष्ठाः सद्यलक्षणम् ।।

यात्राप्रवेशनं सद्यो दृष्टिकर्म विलक्षणम् ॥

उत्पातलक्षणं शान्तिमिश्रकं श्राद्धलक्षणम् ।

सप्तत्रिंशद्भिरध्यायैर्नारदीयाख्यसंहिता ॥'[२३]

अनेन सिध्यति यन्मूलनारदीयसंहितांयामासन् सप्तत्रिशद्भिरेवाध्यायाः सङ्ग्रहकत्र च पश्चात्संयोजिता अन्येऽष्टादशाध्यांया इति । ततश्च सांवत्सरिकलक्षणमुक्तम् । यथा--

'त्रिस्कन्धज्ञो दर्शनीयः श्रौतस्मार्तक्रियापरः ।

निर्दाम्भिकः सत्यवादी दैवज्ञो दैववित्स्थिरः ॥' इति ।

ततश्च क्रमेण द्वितीयेऽध्याये सूर्यादिनवग्रहचाराः कथिताः । तृतीये निरूपितं यद्भवन्ति नव मानानि ब्राह्मदेवभानुषपित्र्यसौरसावनचान्द्रनाक्षत्रबार्हस्पत्यभेदात् । तत्रोक्तं यद्ग्रहणं सौरमानतः गर्भादिकं सावनतः वर्षादिकं नाक्षत्रमानतः यात्रोद्वाहव्रतक्षौरतिथिपर्वादि तु चान्द्रमानतो गुरुमानेन प्रभवाद्यब्दलक्षणमेव । ततश्च षष्टिसंवत्सराणां नामान्युक्तानि तत्र । तत्रोक्तं यत्पञ्चभिवैषैर्युगं भवति द्वादश युगानि च । ततश्च युगेश्वराः प्रोक्ता विष्ण्वाद्याः । ततश्च संवत्सरफलभुक्तम् । तत उक्तम् -

'सौम्यायनं मासषट्कं मृगाचं भानुयुक्तिक्तः ।

अहः सुराणां तद्रात्रिः ककचं दक्षिणायनम् ॥' इति ।

ततश्च अयनकृत्यमृतवो माससंज्ञा पक्षविचारश्चोक्तः । अत्र हि मृगादित उत्तरायणं कर्कोदितो दक्षिणायनमुक्तम्, शिशिराचा ऋतवश्चैत्राद्या मासाःशुक्लकृष्णौ च पक्षाविति । चतुर्थेऽध्याये तिथिविचारः प्रोक्तो यत्र तिथिदेवतास्तिथिकृत्यं युगादितिथयश्च प्रोक्ताः । पञ्चमे वासरविचारः । नक्षत्रविवेकः ताराविचारश्च षष्ठे। सप्तमे योगविचारः, अष्टमे करणविचारः, नवमै मुहर्तविवेकः, दशमे उपग्रहविचारः। एवमेव सङ्क्रान्तिविचारः, गोत्ररविवेकः, शुभा-शुभपक्षविचारः, कृत्येषु मुहूर्त विचारः शान्तिप्रकरणमुल्काविचारश्चात्र निरूपितविषयाः पश्चाद्वर्त्यध्यायेषु ।

पाराशरगर्गकाश्यपवासिष्ठादिसंहितादिष्वपि नारदसंहितायामिव विषयाः सम्भवति कामं निरूपणक्रमो भिन्न एव भवेत् । संहितासु भृगुसंहिता स्थूलकलेवरा बहुविषया च । पौरुषेयेषु संहिताग्रन्थेषु ज्ञातेषु वराहमिहिराचार्यस्य बृहत्संहितैवाद्या ।

बृहत्संहिता

सम्पादयतु
मुख्यलेखः : बृहत्संहिता

बृहत्संहिता वाराहीसंहिताप्युच्यते । वराहमिहिराचार्योऽस्य प्रणेता । स हि ४२७ मितशकाब्दमभित आसीत् । एषा हि तस्य चरमा कृतिः । अत्र सन्ति षडधिकशताध्यायाः, यत्र निरूपितविषया यथा तेनैवोक्तम् -

‘शास्त्रोपनयः पूर्वं सांवत्सरसूत्रमर्कचारश्च ।

शशिराहुभौमबुधगुरुसितमन्दशिखिग्रहाणाञ्च ॥

चारश्चागस्त्यमुनेः सप्तर्षीणाञ्च कुर्मयोगश्च ।

नक्षत्राणां व्यूहो गहभक्तिर्ग्रहविमर्दश्च ।

ग्रहशशियोगः सम्यग्गृहवर्षफलं. ग्रहाणाञ्च ।।

शृङ्गारसंस्थितानां मेधानां गर्भधारणञ्चैव ।।

धारणवर्षंणरोहिणिवायव्याषाढभाद्रपदयोगाः ।।

क्षणवृष्टिः कुसुमलताः सन्ध्याचिह्न दिशा दाहः ॥

भूकम्पोल्कापरिवेशलक्षणं . शक्रचापखपुरञ्च ।

प्रतिसूर्यो निर्घातः सस्यद्रव्यार्धकाण्डञ्च ।

इन्द्रध्वजनीराजनखञ्जनकोत्पातबहिचित्रञ्च ।

पुष्याभिषेकपट्टप्रमाणमसिलक्षणं वास्तु ।।

उदकार्गलमारामिकममरालयलक्षणं कुशिललेपः ।

प्रतिमा वनप्रवेशः सुरभवनानां प्रतिष्ठा च ।।

चिह्न गवामथ शूनां कुक्कुटकूर्माजपुरुषचिह्नञ्च ।

पञ्चमनुष्यविभागः स्त्रीचिह्न वस्त्रविच्छेदः ।।

चामरदण्डपरीक्षा स्त्रीस्तोत्रञ्चापि सुभगकरणञ्च ।।

कान्दपिकानुलेपनपुंस्त्रीकाध्यायशयनविधिः ॥

वज्रपरीक्षामौक्तिकलक्षणमथ पद्मरागमरकतयोः ।

दीपस्य लक्षणं दन्तधावनं शाकुन मिश्रम् ॥

अन्तरचक्र विरुतं श्वचेष्टितं विरुतमथ शिवायाश्च ।

चरितं मृगाश्वकंरिणां वायसविद्योत्तरञ्च ततः ॥

पाको नक्षत्रगुणास्तिथिकरणगुणाः सधिष्ण्यजन्मगुणाः ।

गोचरस्तथा ग्रहाणां कथितो नक्षत्रपुरुषश्च ।।

शतमिदमध्यायानामनुपरिपाटिक़मादनुकान्तम् ।

अथ श्लोकसहस्राण्याबद्धा न्यूनचत्वारि ।'

ग्रन्थस्यास्य भट्टोत्पलकृता विस्तृता टीका लभ्यते । अत्र हि वराहमिहिरेण यात्राविवाहप्रकरणे नैव समावेशिते तयोः संहिताङ्गत्वेऽपि । सम्भवति तत्तद्विषये तेनैव पृथक्पृथग्ग्रन्थप्रणीतत्वात्तथा कृतं स्यात् । योगयात्रा विवाहपटलः विवाहखण्ड: ढिकनिकयात्रा दिक्किनीयात्रा ग्रहमण्डलपटलं समाससंहिता चेत्यस्यैवान्ये संहिताविषयकग्रन्थाः । तत्र योगयात्रायां राज्ञां यात्राविषये विस्तरतो विचारितमस्ति । पञ्चपक्षी भविष्यदर्थप्रकाशको ग्रन्थः । तेषु विवाहखण्डपञ्चपक्ष्योर्वराहाचार्यप्रणेतृत्वे पण्डिता संशेरते । समाससंहिता सम्भवति बृहत्संहिताया एव संक्षिप्तरूपम् ।

बृहत्संहितायाः प्रागपि तत्तद्विषये ग्रन्थाः प्रोक्ताः प्रणीता वा आसन्निति तत्र तत्र पूर्वाचार्यत्वेन पराशर-गर्ग-भृगु-मय-असित-देवल-वृद्धगर्ग-कश्यप-वसिष्ठबृहस्पति-मनु-सारस्वत-ऋषिपुत्रादीनां स्मरणेन ज्ञायते, किन्तु तेषां ग्रन्थास्तुन सम्प्रति सर्वेषां सुलभाः । एतदनुमीयते यद् ब्रह्मप्रोक्तं हि ज्योतिषशास्त्रमपि बहुशाखमासीत् । तेषु हि कश्चित् केनचित् पुनरुक्तोऽपरोऽन्येनेति सर्वेषां सङ्ग्रहो वाराह्यां विहितो मतिविभ्रमपरिहाराय ।

बृहत्संहितातः पूर्वं तु वयमनुमातुमेव प्रभवामः कथमासीत् किमिति किन्तु एतदनन्तरमेतदनुसृतपद्धतिस्तु न केनाप्यनुसृता । मुहूर्ततत्त्वे यद्यपि ग्रन्थान्तरापेक्षया सन्ति बहव एव विषयाः, किन्तु न तथा यथाऽभीष्टा । तेन हि शक्करबालकृष्णः सत्यमेव कथयति यद्वराहमिहिरानन्तरं संहितैव लुप्तप्रायेति । संहिताविषयेषु केवलं मुहूर्तखण्डमेव सम्प्रत्यपि सजीवम् । मुहूर्ता नाम कृत्यनिमित्त निश्चितसमयः । यथा हि विवाहमुहूर्ता इति । कृत्यविशेषनिमित्तग्राह्याग्राह्यतिथिवारनक्षत्रादिविचारणैर मुहर्तग्रन्थस्य प्रयोजनम् । सामान्यतो मूहर्तस्य व्यवहारेण सहापरिहार्यः सम्बन्धः । निषेकादिश्मशानान्ता ये संस्काराः कर्षणादारभ्य कुसूलपूरणपर्यन्तं यत्कृषिकर्म चुल्लिकानिर्माणादिकं यद् गृहकर्म यात्रारम्भः शिलान्यासादारभ्य गृहप्रवेशनपर्यन्तं यन्निर्माणकर्म ते सर्वेऽपि शुभमुहूर्ते एव भवन्ति । अथाऽत्र कतिपये ज्ञाता मुहूर्तग्रन्था अत्रोपस्थाप्यते सारतः ।

रत्नकोशः

सम्पादयतु

कथ्यते हि ५६० मितशकाब्दमभितः स्थितिमता- लल्लाचार्येण ग्रन्थोऽयं प्रणीत आसीदिति । एतद्विषये नाधिकं ज्ञातमस्त्यस्माकम् । कथ्यते ह्येनमेवाधारीकृत्य श्रीपतिह रत्नमालां प्रणिनायेति ।

रत्नमाला

सम्पादयतु

ग्रन्थोऽयं ९६१ मितशकाब्दमभितः श्रीपत्याख्येन विदुषा प्रणीतः । अस्य माधवप्रणीता टीका लभ्यते ११८५ मितशकाब्दमभितः प्रणीता। माधवो हि स्वपूर्ववतत्वेन बहून् ग्रन्थान् ग्रन्थकारांश्च स्मरति येषां विषये नास्माकं सूच्यग्रभागमात्रमपि प्रवेशः ।

राजमार्तण्डः

सम्पादयतु

राजमार्तण्डो राजमृङ्गाङ्ककर्तुरेव ग्रन्थान्तरत्वेन गृह्यते ९६४ मितशकाब्दमभितः प्रणीत इत्यपि । विद्वज्जमवल्लभाख्य एतद्विषयक एव ग्रन्थोऽन्योऽपि भोजकृतत्वेन स्वीक्रियते तद्विद्भिः। रत्नमालाटीकाकृन्माधवोऽपि ग्रन्थमिदं तथैव स्मरति ।

अद्भुतसागरः

सम्पादयतु

वस्तुतः अद्भुतसागरोऽद्भुत एव । ग्रन्थोऽयं १०८९ मितशकाब्दे पूरितः । अत्र हि वाराह्यामिव विषयाः । सन्ति बहवो नवीना अपि विषयाः, ये खलु अन्तरिक्षभूमीराश्रित्य बहवोऽद्भुतरूपा उत्पातास्तेऽप्यत्र विवेचिता येषां खलु वाराह्यां चर्चाऽपि नास्ति । तत्र दिव्याश्रया अन्तरिक्षाश्रया भौमाश्रेयाश्च विविधोत्पाताः सोपपत्तिकं वणिताः कथितश्च तेषां शान्त्युपायोऽपि । तत्र दिव्याश्रये सूर्यचन्द्रराहुभौमबुधगुरुशुक्रशनिराहुकेतुधुवादीनामदभुतावर्ताः, ग्रहयुद्धातावर्ताः, आकृत्यादियोगाभुतावर्ताः, रव्यादिवर्षाद्भुतावर्ताः, संवत्सराद् भुतावर्ताः ऋक्षाद्यद्भुतविर्ताश्च सप्रपञ्चं निरूपिताः । अन्तरिक्षाश्रयाद्भुतप्रसङ्गे प्रतिसूर्य-परिवेषेन्द्रधनू-रश्मिदण्ड-गन्धर्वनगर-निर्यात-सन्ध्या-सन्ध्याकालिकरविकिरण-दिग्दाह-छाया-तमोधूमनोहारोल्का-विद्युद्-वात-मेघ-मेघगर्भप्रवर्षणातिवृष्टि-कबन्धातावर्ताः साङ्गोपाङ्गं प्रपञ्चिताः । भौमाश्रये तु भूकम्प-जलाशयाग्नि-दीप-देवप्रतिमा-शक्रध्वज-वृक्ष-गृह-वातजोपस्कर-वस्त्रोपानहासन-शस्त्र-पुरा-दीव्यस्त्रीपुरुषदर्शन-मानुष-पिटक-स्वप्न-कायरिष्ट-दन्तजन्मप्रसव-सर्वंशाकुन-नानामृगविहग-गजाश्व-वृषमहिष-बिडाल-शकुन-शृगाल-गृहगोधिकापिपीलिकापतङ्गमशक-मक्षिक-लूताभ्रमरभेक-खञ्जरीटदर्शन-पोतकी-कृष्णपेचिका-बायसादभुतावर्ताः, मिश्रकाद्भुताबर्ताः, अद्भुतशान्त्यभुतावर्ताः, सद्योवर्षनिमित्ताभुतावतः, अविरुद्धाद्भुतवर्षाः पाकसमयाभुतावतश्च निरूपिताः । . ग्रन्थोपक्रमे तत्रोक्तम्

'ज्योतिर्विदार्यवचनानि विचार्य तेषां तात्पर्यपर्यवसितो ग्रथनानुपूर्त्या ।

विप्रप्रसादनवशादवसादबुद्धिनिःशङ्कशङ्करनृपः कुरुते प्रयत्नम् ॥

ग्रन्थेऽत्र वृद्धगर्गगर्गपराशरवसिष्ठगार्गीयान् ।।

बार्हस्पत्यबृहस्पतिकठश्रुतिब्रह्मसिद्धान्तान् ।

आथर्वणाभुताशितषत्रिशद् ब्रह्मर्षिकृतीः ।

गार्गीयमतौशनसे कालावलिसूर्यसिद्धान्तौ ।।

विन्ध्यवासिबादरायणोशनशालिहोत्रविधुगुप्तसुश्रुतान् ।

पीलुकार्यनूपपुत्रदेवलान् भार्गवीयविजवायकाश्यपान् ।

नारदमयूरचित्रे चरकं यवनेश्वरस्य मतम् ।

निखिलं वराहमिहिराचार्यग्रन्थं वसन्तराजकृतिम् ।।

मार्कण्डेयपुराणं स्कन्दं भागवतमाद्यमाग्नेयम् ।

पाझं मत्स्यपुराणं रामायणमहाभारताख्याने ।।

हरिवंशविष्णुधर्मोत्तरे निबन्धं चरिण्यमाणञ्च ।

वचनं तेषां सारान् बहुशोऽर्थान्वीक्ष्य सोऽद्राक्षीत् ॥'

एवमेवाग्रे उक्तम् -

'शाके नवाष्टखेन्द्राख्य आरम्भेऽदभुतसागरम् ।।

गौडेन्द्रकुञ्जरालानस्तम्भबाहुर्महीपतिः ॥'

ग्रन्थोऽयं वङ्गेशेन लक्ष्मणसेनेन प्रारब्धस्तत्तनयेन बल्लालसेनेन पूरितः १०८९ शकाब्दे । यथोक्तं तत्रैव--

'ग्रन्थेऽस्मिन्नसमाप्त एव तनये साम्राज्यलक्ष्मीं मुदा

दीक्षापर्वणि दक्षिणे निजकृतेनिष्पत्तियस्थापयत्।

नानादानतिलाम्बुसंवलनभं सूर्यात्मजासङ्गमं

गङ्गायां विरचय्य निर्जरपुर भार्यानुयातो गतः ॥

श्रीमल्लक्ष्मणसेनभूपतिरतिश्लाघ्यो यदुद्योगतो

निष्पन्नोऽभुतसागरः कृतिरसौ वल्लाभूमीभुजः ।

ख्यातः केवलमर्णवः सगरजस्तातस्य तत्पूरण

प्रावीण्येन भगीरथेन भुवनेष्वद्यापि विद्योतते ।। इति ।

अदभुतो यथा -

'अभूतपूर्वं यत्पूर्वं यत्पूर्वं जायतेऽन्यथा ।

तदद्भुतमिति प्रोक्तं नैमित्तं स्यान्निमित्तजम् ।।

अभूतपूर्व यल्लोकस्य पूर्वं भवति पूर्वञ्च यदन्यथा भवति तदद्भुतम् । तच्च नैमित्तानैमित्तभेदेन द्विविधम् । तदुभयमपि द्विविधं शुभसूचकमशुभसूचकञ्च । यदसूचकं स एवोत्पातः । यथोक्तम् -

'प्राग्विनाशाय सम्प्रोक्तो योऽत्रोत्पात इति स्मृतः ।' इति ।

सोऽपि त्रिविधः दिव्यनामसभूमिजभेदात् । तस्योत्पत्तिर्यथा -

‘अतिलोभादसत्याद्वा नास्तिक्याद्वाऽप्यधर्मतः ।।

नरापचारान्नियतमुपसर्गः प्रजायते ।।' इति ।

अयनचलनविषये तत्रोक्तम्--

सकलवसुधाधिनाथश्रीमबल्लालसिंहदेवेन ।

अयनद्वयं यथा तत्परीक्ष्य संलिख्यते सवितुः ।।

इदानीं तद्विसंवादादयनं दक्षिणं रवेः ।।

भवेत् पुनर्वेसोरादौ विश्वादावुत्तरायणम् ॥' इति ।

ब्रह्मगुप्तस्तु यथा -

'द्वौ द्वौ राशी मकरादृतवः षट् सूर्यगतिवशाद् ग्राह्याः ।

शिशिरवसन्तग्रीष्मवर्षाशरदः सहेमन्ताः ॥'

पञ्चसिद्धान्तिकायां तु--

''उदगयनं मकरादातृतवः शिशिरादयश्च सूर्यवशात् ।

द्विभवनकालसमाना दक्षिणमयनञ्च कर्कटकात् ।।

वल्लालकाले तु -

‘धनुषो विंशत्यंशात् षष्ठांशकभोगसम्मिता ऋतवः ।।

शिशिराद्याः षट् क्रमशः सम्प्रत्ययनक्रमेण रवेः ॥'

पाराशर्यां तु--

'तस्य श्रविष्ठाद्यात्पौष्णान्तं चरतः शिशिरः वसन्तः पौष्णोद्धद्रोहिण्यन्तम् । सौम्यात सापद्धं ग्रीष्मः प्रादृट् सापद्धद्धस्तान्तम् । चित्राद्यादिन्द्राधं शरत् हेमन्तो ज्येष्ठाद्धाद्वैष्णवान्तमिति ।

पूर्वाषाढाया द्वितीयपादान्ते धनुषो विंशत्यंशाः पूरिता भवन्ति । अत एव । पूर्वाषाढायोस्तृतीयपादे यदो रविः प्राप्नोति तदेवोत्तरायणं प्रारम्भते शिशिरतुश्च । धनिष्ठाद्धत् पूर्वाषाढार्द्धपर्यन्तं भवन्ति द्वादशपादाः कालश्च तदतिक्रमणाय २४०० वर्षमितः । एतेन सिरपति यत् प्रतिक्षितवर्ष सूर्यस्योदगयनं दक्षिणायनपादेनैकेन पश्चात् सरति । मानेनानेन १९११ मितशकाब्दे उदगयनं सूर्ये मूलस्य द्वितीयपादमाक्रामति सति घटते यद्धि साम्प्रतिकपञ्चाङ्गेषु ‘मकरे सायनार्कः इति ज्ञाप्यते । २३०० मितशकाब्दे तद्धनुषारम्भे एव घटिष्यते । ग्रन्थान्ते हयुक्तम् -

'इति श्रीमहाराजाधिराजनिःशङ्कशङ्करश्रीमद्वल्लालसेनविरचिते अद्भुतसागरे:::::::।' इति ।

ग्रन्थोऽयं श्रीमुरलीधर शर्मणा संशोध्य प्रकाशितः काश्यां प्राभाकरीयन्त्रालयतः ।

व्यवहारप्रदीपः व्यवहारप्रदीपो हि मुहूर्त विषयकग्रन्थः । अस्य प्रणेता पद्मनाभमिश्र इति तु तत्रत्यार -

'किल पद्मनाभनामा कुरुते व्यवहारदीपाख्यम् ।।

इति वचनाज्ज्ञायते । स हि काशीवासिनः कृष्णदेवाख्यस्य पुत्र इत्यपि तत्रत्यवर्णनाज्ज्ञायते । स हि स्वपितामहप्रपितामहत्वेन गङ्गादासशिवदासौ स्मरति च । असौ भास्कराचार्येण ‘ब्रह्माह्वयश्रीधरपद्मनाभबीजानि' इति स्मृतोऽन्य एवेति न निश्चितं किन्त्वसौ भोजकृत-राजमार्तण्डं स्मरतीत्यस्य स्थितिकालः ९६४ मितशकाब्दादनन्तरमेवेति निश्चय एव । सामान्यतो बीजगणितकारो हि पद्मनाभः ७०० मितशकाब्दात् पूर्ववर्तत्वेनानुमितः । भास्कराचार्येण सिद्धान्तशिरोमणिः १०७२ मितशकाब्दे पूरितः । व्यवहारप्रदीपसिद्धान्तशिरोमण्योः कतिपयश्लोकानां साम्यं दृश्यते । तत्र सुधाकरः भास्करेण व्यवहारप्रदीपाद गृहीता इमे इति मन्यते ( ग० त० २८,२९ ); किन्तु शङ्करबालकृष्णस्तु पद्मनाभेन भास्करतो गृहीता इमे इति निश्चिनोति । यथा हि भास्करीये -

‘तुष्यन्तु सुजना बुद्ध्वा विशेषान्मदुदीरितान् ।।

अबोधेन हसन्तो मां तोषमेष्यन्ति दुर्जनाः ॥' इति । [२४]

व्यवहारप्रदीपे यथा -

‘तुष्यन्तु सुजना बुद्ध्वा विशेषान्मदुदीरितान् ।

अबोधेन हसन्तो मां स्वतस्तुष्यन्तु दुर्जनाः ॥' इति । ( १/७)

तथैव, शिरोमणौ गोलाध्यायस्य छेद्यकाधिकारे समुपन्यस्तं दिव्यज्ञानमतीन्द्रिय::::(९) इत्यादिपद्यं व्यवहारंप्रदीपे तथा शौनकसंहितायाम् इत्युपक्रम्य दत्तमस्ति यथापाठम् । तथैव सिद्धान्तशिरोमणी गोलाघ्याये यत् 'यो वेद वेदवदनम्' (८) इति पद्यं व्यवहारप्रदीपे 'यथा चोक्तं वासिष्ठे' इत्युपक्रम्य वेदवदनमित्येतस्य स्थाने वेदनयनमिति पाठं कृत्वा यथायोगं पठितमस्ति । वस्तुतस्तु भास्करीयेऽपि नयनमेव पाठः समीचीनः प्रतिभाति, ज्योतिषशास्त्रप्रशंसनप्रसङ्ग तथैवान्वयित्वात् । ‘शब्दशास्त्रे पटिष्ठ' । इति पूर्वमेवोक्तत्वाच्च । प्रथमं शब्दशास्त्रं ततो गणितशास्त्रं ततश्च समग्न ज्योतिषशास्त्रं च ज्ञात्वैव वेदाध्ययनेऽधिकारी भवति इति पद्यद्वयस्याशयाच्च । एतदपि सम्भवति यदुभाभ्यामेव तद्ग्रन्थान्तरतो यथा शौनकसंहिता वसिष्ठसंहितादितो गृहीतं स्यात् ।

यतो हयभावेव समकालिकाविव दश्येते । भास्करः १०३६ मितशकाब्दे जातः, पद्मनाभोऽपि राजमार्तण्डं स्मरतीति न हि १००० मितशकाब्दपूर्ववर्ती यतो हि ९७० मितशकाब्दमभितो राजमार्तण्डस्य प्रणयनकालः । स्याद्यत्किञ्चिदपि तथ्यमेतत्तु निश्चितमेव यद्भास्कर स्मृत: पद्मनाभो बीजगणितकृद् व्यवहारप्रदीपकृतोऽन्य एवेति शङ्करबालकृष्णमतं समीचीनमेव । ज्योतिषशास्त्रे हि आर्यभटद्वयं भास्करद्वयं पद्मनाभद्वयमिति यद् द्विकं तद् भ्रमहेतुरेव पाठकानाम् । व्यवहारप्रदीपे हि बहवः पूर्ववत्र्याचार्यास्तद्ग्रन्थाश्च स्मृता दृश्यन्ते । तत्र हि भीमपराक्रमः रत्नमाला रूपनारायणः राजमार्तण्डः सारसागरः रत्नावली ज्योतिस्तन्त्रम्, व्यवहारचण्डेश्वरः मुक्तावली चेत्यादिग्रन्थाः असकृत्स्मृताः शौनकसंहिता बार्हस्पत्यं व्याससंहिताऽत्रिसंहिता वसिष्ठसंहिता वासिष्ठतन्त्रम्, चन्द्रिका दीपिका लल्लसंहिता खण्डखाद्यकम्, सारावली देवलसंहिता वामनपुराणं स्कन्दपुराणं पाठकगृह्यसूत्रं भारद्वाजसंहिता कश्यपसंहिता मणित्थः जैमिनिसूत्रम्, विष्णुधर्मोत्तरं वायुपुराणञ्च । ग्रन्थोऽयं बाहुल्येन प्रचारयोग्यः ।

ज्योतिविदाभरणम् । मुहूर्तविषयकग्रन्थोऽयं कालिदासप्रणीतत्वेनात्मानं परिचाययति । अत्रोक्तं यद्ग्रन्थोऽयं कलिगत ३०६८ वर्षे रघुवंशादिकाव्यप्रणेत्री कालिदासेन प्रणीत इति । तत्र वराहमिहिरोऽपि कालिदाससमकालिकत्वेन स्मृतः । किन्तु वराहमिहिरो न कथमपि ४२७ मितशकाब्दपूर्ववर्ती सम्भवति, यतो हि स पञ्चसिद्धान्तिकायामार्यभटं स्मरति ( १५।२० )। आर्यभटस्तु कलिगत ३६०० वर्षमभित आसीदिति तस्यैव षष्टयब्दानां षष्टिः-' इति कथनेन सिद्धयति । तेन ज्योतिर्विदाभरणोक्तमसत्यमिति स्पष्टमेव । नैतावन्मात्रमपितु स्वयमेवापि ऐन्द्रयोगस्य तृतीयांशे व्यतीते सूर्याचन्द्रमसोः क्रान्तिसाम्यं वर्णयति, येन हि तस्य प्रणयनकालः ११६४ मितशकाब्दमभित आपतति । यदि ह्यस्य प्रणेता कालिदास.. एव तदाऽसौ महाकविकालिदासाद्भिन्नः कश्चिदपरे एव स्याद्यो ह्यात्मानं तथा प्राचीनत्वेन परिचाययति । न च श्रीहर्षमेव विक्रमादित्यं मत्वा तथा कल्पना सम्भवति यतो हि श्रीहर्षः कलिगत ३६४९ वर्षे एव राज्यारूढ आसन्न तु ३०६८ वर्षमभितः । वस्तुतस्तु ज्योतिविदाभरणं हि भोजप्रबन्ध इव कल्पनाप्रधानो ग्रन्थः । विषयनिरूपणे तु ग्रन्थोऽयं प्रामाणिक एव ।

विवाहवृन्दावनम्

सम्पादयतु

विवाहवृन्दावनं हि वराहस्य विवाहपटल इव विवाहसम्बद्धग्रन्थः । असौ : हि केशवप्रणीतत्वेन प्रसिद्धः । केशवोऽसौ ग्रहलाघवप्रणेतुर्गणेशस्य पितृतोऽभिन्न इति सुधाकरमतं भिन्नः कश्चित्प्राचीन इति शङ्करबालकृष्णमतम् । अस्य टीकायां गणेशदैवज्ञस्य ग्रन्थप्रणयनकाले अयनांशा १२ आसन्निति कथनेनास्य प्रणयनकाल: ११६५ भितशकाब्दमभित इति गणेशपितुः केशवस्य तु १४१८ मितशकाब्दमभितः स्थितिरिति शङ्करबालकृष्णमतपृष्ठभूमिः । अस्य हि पितुर्नाम राणग इति पितामहस्य श्रियादित्यः प्रपितामहस्य जनार्दन इति । यदा मुहूर्ततत्वकृतस्तु पितुनम कमलाकर इति । ' आद्यो भारद्वाजगोत्रीय औदीच्यो ब्राह्मणो द्वितीयस्त कोशिकगोत्रीयो दाक्षिणात्यः । । अस्य करणकण्ठीरवो नाम करणग्रन्थोऽप्यासीदिति शङ्करबालकृष्णः कथयति । रत्नमालाटीकायां माधवेन केशवः स्मर्यते इति तस्य ११८५ शकाब्दपर्ववतित्वं सिध्यति । तत्रैवास्य केशवव्यवहारराख्यग्रन्थान्तरमपि स्मृतं माधवेन । विवाहवृन्दावनं हिं प्रसिद्ध ग्रन्थः । अस्य गणेशदैवज्ञेन व्याख्याग्रन्थः प्रणीतोऽस्ति ।

विवाहपटलः

सम्पादयतु

विवाहपटलो हि शार्ङ्गधरप्रणीतो ग्रन्थो मुहुर्तविषयकः । अत्र हि हेमाद्रिमाधवौ स्मृतौ इत्यस्य रचनाकाल: १४०० मितशकाब्दमभितः । अत्र हि हरिगदाधर-मुकुन्द-भार्गव-पवनेश्वर-लक्ष्मीधरभट्टप्रभृतय आचार्याः स्मृताः ।।

मुहूर्ततत्त्वम्

सम्पादयतु

मुहर्ततत्त्वं हि केशवस्य कमलाकरसुतस्य १४०० मितशकाब्दमभितः स्थितिमतः कृतिः । अस्य गणेशदैवज्ञेन टीका प्रणीताऽस्ति । अत्र विषयान्तरातिरिक्तं ग्रहचारयुद्धादिविषया अपि संक्षेपेण निरूपिताः । नौकाप्रकरणमस्य वैशिष्ट्यं मौलिकञ्च, यत्र नौकानिर्माणजलावतारणजलयात्राविषयकमुहूर्ता निरूपिताः । अत्र वसन्तराजभूपालनृसिंहादयः स्मृता आचार्यत्वेन । अस्य हि पूर्वखण्डे गर्भाधानादिसंस्कारमुहूर्ता उत्तरखण्डे ग्रहचारादिविषयाः । अस्यैव जातकपद्धतिस्ताजिकपद्धतिश्च परां प्रसिद्धि प्राप्ताः ।

विवाहपटलः

सम्पादयतु

विवाहपटलः जगन्नाथपौत्रेण पीताम्बरेण १४४४ मितशकाब्दे प्रणीतः । अस्य हि ग्रन्थकर्तुरेव निर्णयामृतनाम्नी टीका लभ्यते । अत्रापि सन्ति बहवो ख्याता अज्ञाताश्च ग्रन्थाः ग्रन्थकाराश्च स्मृताः ।

ज्योतिनबन्धः

सम्पादयतु

ज्योतिनबन्धो हि शिवदासप्रणीतो धर्मशास्त्रसम्बद्धो मुहूर्तविषयकग्रन्थः । असौ हि विवाहपटलस्य निर्णयामृतटीकायां स्मर्यते इति १४४६ मितशकाब्दप्राग्वतित्वमस्य सिध्यति ।

ज्योतिषदर्पणः

सम्पादयतु

गद्यपद्योभयात्मकोऽयं ग्रन्थः पञ्चपल्लूसंज्ञकेन ज्योतिर्विदा १४७९ मितशकाब्दे प्रणीतः । पञ्चपल्लूह कण्वशाखाध्यायी वत्सगोत्रीयो ब्राह्मणः । स हिं पैलूभटीयाऽऽख्यं ग्रन्थं स्मरति ।।

मुहूर्तमार्तण्डः

सम्पादयतु

ग्रन्थोऽयमनन्ताऽऽख्यसुतेन नारायणेन १४९३ मितशकाब्दमभितो हि प्रणीतः । ग्रन्थोऽयमतीव लोकप्रियः सर्वत्र सुलभश्च । अत्र हि त्याज्यप्रकरणं नक्षत्रप्रकरणं संस्कारप्रकरणं विवाहप्रकरणमग्न्याधानप्रकरणं यात्राप्रकरणं मिश्रप्रकरणं गोचरप्रकरणं सङक्रान्तिप्रकरणमनध्यायप्रकरणञ्चेति सन्ति दश प्रकरणानि ग्रन्थान्ते प्रणेता कथयति -

‘श्रीमत्कौशिकपावनो हरिपदद्वन्द्वापतात्मा

हरितज्जोऽनन्त इलासुरार्चितगुणो नारायणस्तत्सुतः ।

ख्यातं देवगिरेः शिवालयमुदक्तस्मादुदक् टापर

ग्रामस्तद्वसतिर्मुहूर्तभवनं मार्तण्डमत्राकरोत् ।'

अत्र हि काव्यगुणगुणितानि सन्ति १६० पद्यानि सुगुम्फितानि । असौ हि १४९३ मितशकवर्षे माघे मासि प्रणीतः । अस्य ग्रन्थकत्रैव १४९४ मितशकाब्दे प्रणीता मार्तण्डवल्लभाऽऽख्या टीका लभ्यते । ज्योतिर्विदसौ कौशिकगोत्रीयो माध्यन्दिनीयशाखाध्यायी कृष्णाख्यः प्रपौत्रः हयख्यस्य पौत्रोऽनन्ताख्यस्य पुत्रः । निभाल्यतामस्य काव्यात्मकत्वम् -

'चौलं माघादिपञ्चस्वमधुषु गदितं द्वित्रिपञ्चोन्मितेऽब्दे

स्वाचाराद्वा सगर्भा यदि भवति जनन्यत्र नो कार्यमेतत् ।

साकं यात्रोपनीत्या क्रियत इह तदाऽयं निरोधो न हि स्या

ज्जह्यादम्बार्तवोऽदो व्रतमुपनयनं चाविशुद्धेः शुभार्थी ॥ १० ॥

ग्रन्थस्यास्य प्रयोजनं मन्दमतीनामपि विषयज्ञानसौकर्याय । यथाऽऽह ग्रन्थकृत्स्वयमेव --

‘पूर्ववाक्यार्थमादाय ग्रन्थोऽयं रचितो लघुः ।

पठनार्थमशक्तानामङ्गीकार्यों बुधैर्मुदा ॥' इति ।

अस्यैव मैथिलेन कपिलेश्वरशास्त्रिणा प्रणीता मार्तण्डप्रकाशिकाऽऽख्या टीकाऽपि लभ्यते ।

तोडरानन्दः

सम्पादयतु

सुविस्तृतोऽयं ग्रन्थः १५०९ शकाब्दे नीलकण्ठेन सङ्कलितः । अत्र चण्डेश्वरपवनेश्वरदुर्गादित्यप्रभृत्याचार्याः स्मृताः दैवज्ञ मनोहरव्यवहारोच्चयकल्पलताप्रभृतिग्रन्थाश्च ।' सुधाकरस्त्विम् रामदैवज्ञसङ्कलितं मन्यते ।।

मुहूर्तचिन्तामणिः

सम्पादयतु

मुहूर्त चिन्तामणिहि अनन्तदैवज्ञात्मजेन रामाख्येन दैवज्ञेन प्रणीतः १५२२ मितशकाब्दे । अतीवलोकप्रिये ग्रन्थेऽस्मिन् सन्ति बहवष्टीका यासु ग्रन्थकृत एवं प्रमिताक्षरा गोविन्दस्य पीयूषधारा च प्रसिद्धाः । सुधाकरो हि ग्रन्थमेनं श्रीपतिप्रणीतरत्नमालाप्रतिबिम्बं मन्यते । ग्रन्थोऽयं १५२२ मितशकाब्दे प्रणीतः । ग्रन्थेऽस्मिन् शुभाशुभ-नक्षत्र-सङ्क्रान्ति-गोचर-संस्कार-विवाह-वधूप्रवेश-द्विरागमन-अग्न्याधान-राजाभिषेक-यात्रा-वास्तु-गृहप्रवेशप्रभृतिप्रकरणानि सन्ति । अहो अस्य काव्यात्मकताऽनिर्वर्णनीया । दिङ्मात्रमुद्धरणं यथा -

क्रियाकलापप्रतिपत्तिहेतुं संक्षिप्तसारार्थविलासगर्भम् ।

अनन्तदैवज्ञसुतः स रामो मुहूर्त चिन्तामणिमातनोति ॥ ( १॥२ )

एवं सुलग्ने स्वगृहं प्रविश्य वितानपुष्पश्रुतिघोषयुक्तम् ।

शिल्पज्ञदैवज्ञविधिज्ञपौरान राजाऽर्चयेद् भूमिहिरण्यवस्त्रैः ॥ (१३॥७ )

आसीद्धर्मपुरे षडङ्गनिगमाध्येतृद्विजैर्मण्डिते

ज्योतिवित्तिलकः फणीन्द्ररचिते भाष्ये कृतातिश्रमः ।

तत्तज्जातकसंहितागणितकृन्मान्यो महाभूभुजां

तकलङ्कृतिवेदवाक्यविलसद्बुद्धिः स चिन्तामणिः ॥ १ ॥

ज्योतिवद्गणवन्दितान्त्रिकमलस्तत्सुनुरासीत्कृती ।

नाम्नाऽनन्त इति प्रथामधिगतो भूमण्डलाहस्करः ।

यो रम्य जनपद्धति समकरोद दुष्टाशयध्वंसिनीं ।

टीकाञ्चोत्तमकामधेनुगणितेऽकार्षीत् सदां प्रीतये ।। २ ।।

तदात्मज उदारधीविबुधनीलकण्ठानुजो ।

गणेशपदपङ्कजं हृदि निधाय रामाभिधः ।

गिरिशनगरे वरे भुजभुजेषुचन्द्रमिते

शके विनिरमादिम खलु मुहूर्तचिन्तामणिम् ॥ ३ ॥ इत्यादि ।

मुहूर्तचूडामणिः

सम्पादयतु

अन्वर्थनामा ग्रन्थोऽयं शिवाख्येन दैवज्ञेन १५४० मितशकाब्दमभितः प्रणीतः ।

मुहूर्तकल्पद्रुमः

सम्पादयतु

विठ्ठलदीक्षितस्य कृतिरियं मुहूर्तविषयैव । ग्रन्थोऽयं १५४५ मितशकाब्दं प्रणीतः । अस्य ग्रन्थकर्तुरेव १५४९ मितशकाब्दमभितः प्रणीता मञ्जर्याख्या टीका लभ्यते ।

मुहूर्तमाला

सम्पादयतु

ग्रन्थोऽयं १५८२ मितशकाब्दे रघुनाथदैवज्ञेन प्रणीतः । रघुनाथो हि शाण्डिल्यगोत्रीयो महाराष्ट्रब्राह्मणः । ग्रन्थोऽयमपि ग्रन्थान्तरवन्मुहूर्तविषयकः ।

मुहूर्तदीपकः

सम्पादयतु

ग्रन्थोऽयं महादेवाऽऽख्येन विदुषा १५८३ मितशकाब्दं प्रणीतः । अस्य ग्रन्थकत्रैव प्रणीता टीकाऽस्तीति श्रूयते ।

कल्पलता

सम्पादयतु

ग्रन्थोऽयं जलदाख्यग्रामवास्तव्येन रुद्रभटात्मजेन सोमदेवज्ञेन १५६४ मितशकाब्दे प्रणीतः ।।

मुहर्तगणपतिः

सम्पादयतु

ग्रन्थोऽयं गणपतिनाम्ना दैवज्ञेन १६०७ मितशकाब्दे प्रणीतः । असो हि भारद्वाजगोत्रीयो गुर्जरब्राह्मणः । तद्वृत्तान्तो यथा -

‘गौडोर्वीशशिरोविभूषणमणिर्गोपालदासोऽभवन्मान्धातेत्यभिरक्षिताद् व्यलभते ख्याति न दिल्लीश्वरात् । तत्पुत्रो विजयी मनोहरनृपो विद्योतते यः सदा भुतु'"""

मुहूर्तसिन्धुः

सम्पादयतु

ग्रन्थोऽयं गङ्गाधरशास्त्रिणा १८०५ मितशकाब्दे प्रणीतः। ग्रन्थेऽस्मिन् प्राचीनग्रन्थाधारेण विषया निरूपिताः सन्ति । सुसङ्ग्राह्योऽयं ग्रन्थः ।।

एते हि केचन ज्ञाता मुहूर्तविषयकग्रन्थाः । एतदतिरिक्तमपि सन्त्यन्येऽपि शतशः श्रुतमात्रा वा श्रुतिपथमप्यनागता एतद्विषयकग्रन्था येषां सङ्ख्यानं ग्रन्थविस्तरायैव। राजावली जगन्मोहनं समयसिद्धाञ्जनं नरेन्द्रवल्ली च प्रसिद्धा एतद्विषयकग्रन्थाः, यान् हि शङ्करबालकृष्णः सादरं स्मरति ।

शकुनविचारोऽपि संहिताया भाग एव । विषयेऽस्मिन्नपि सन्त्यनेके ग्रन्था येषु नरपतिदैवज्ञेन प्रणीताः नरपतिजयचर्या प्रसिद्धा ।

नरपतिजयचर्यास्वरोदयः

सम्पादयतु

व्ररपत्याख्येन दैवज्ञेन १०९७ मितशकाब्दमभितः प्रणीतोऽयं ग्रन्थः । अत्र शास्त्रसङ्ग्रह-

मास्वर-द्वादशवाषिकादिस्वर-चक्रबन्ध-भूबल-शान्त्याख्याः षडध्यायाः । तत्रोक्तम्---

‘श्रुत्वादौ यामलान् सप्त तथा युद्धजयार्णवम् ।

कौमारी कौशलञ्चैव योगिनीजालसञ्चरम् ।।

रक्षोघ्नञ्च त्रिमुण्डञ्च स्वरसिंहं स्वरार्णवम् ।

भूबलं भैरवं नाम पटलं स्वरभैरवम् ।।

तन्त्रं रणाह्वयं ख्यातं सिद्धान्तं जयपद्धतिम् ।

पुस्तकेन्द्रञ्च ढौकञ्च श्रीदर्शज्यौतिषं तथा ।।

मन्त्रयन्त्रण्यनेकानि कूटयुद्धानि यानि च ।

तन्त्रयुक्तिञ्च विज्ञाय विज्ञानं वडवानले ।।

एतेषां सर्वशास्त्राणां दृष्टसारोऽहमात्मना ।।।

सारोद्धारं भणिष्यामि सर्वसत्त्वानुकम्पया ॥' इति[२५]

ग्रन्थेऽस्मिन् हरिवंशस्य जयलक्ष्मीः नरहरिकृता भूधरप्रणीता रामनाथविरचिता गणेशदत्तस्य सुबोधिनी टीका च व्याख्याग्रन्थाः ।

समरसारः

सम्पादयतु

ग्रन्थोऽयं नैमिषारण्यनिवासिनः सूर्यदासस्य सुतस्य रामस्य कृतिः स्वरशास्त्रविषयकः । अस्योपरि भरतस्य टीका लभ्यते । असौ हि १६७१ मितशकाब्दमभितः प्रणीतः । यथा -

‘ग्रन्थे वत्समुनीश्वरस्य शिवदासाख्या दुरुख्यातितः

सम्राडग्निचिदाप यस्य जनकः श्रीसूर्यदासोऽजनि ।

यन्मातुर्यशसा दिशो दश विशालाक्ष्या बलक्षा व्यधात्

स प्राज्यस्वरशास्त्रसारविचितं रामो वसनैमिषे ॥ इति ।

बृहद्वास्तुमाला

सम्पादयतु

रामनिहोरद्विवेदेन सम्पादिता बृहद्वास्तुमालाऽपि प्रकरणेऽस्मिन् स्मर्तव्यो ग्रन्थः । अत्र हि वास्तुपुरुषस्वरूपं वर्गज्ञानं दिग्दिशाज्ञानं भूमिलक्षणं भूशोधनप्रकारः निषिद्धग्राह्यकाष्ठानि मानादि दिक्साधनानि मुहूर्त विचार इतिप्रभृतयो विषयाः सप्रपञ्चं निरूपिताः । अन्ते च वास्तुशान्तिः ।

गृहरत्नविभूषणम्

सम्पादयतु

ग्रन्थोऽयं १८७८ मितशकाब्दे मातृकाप्रसादपाण्डेयसङ्गृहीतः । अत्रापि सर्वे वास्तुविषयाः सयुक्तिकं निरूपिताः । तत्रोक्तं

‘गृहस्थस्य गेहं विना सर्वकार्यं न सिध्यन्त्यतो गेहिनाञ्चैव गेहम् ।।

अवश्यं तु रम्यं पवित्रेऽतिभूमौ विनिमय कार्या क्रिया सर्वदैव ॥'

इति संक्षेपतो निरूपितो ज्योतिषशास्त्रस्य सुविपुलः संहितास्कन्धः । विस्तृतज्ञानाय तु तत्तद्ग्रन्था एव अध्येतव्याः ।।

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. ( ऋ० ७॥८८।३-४ )
  2. ( अथर्व० १९॥९॥७-१० )
  3. (शत० २॥१॥२॥१-२)
  4. ( शत०४ )
  5. ( शत० ७)
  6. ( शत० ८)
  7. ( शत० ११ )
  8. ( शत० १७ )
  9. ( शत० २।१।३।१ )
  10. ( तै० सं० ६।१।४।४ )
  11. ( तै० ब्रा० १॥१॥२ )
  12. ( १० ब्रां० १॥५॥२ )
  13. ( ते० प्रा० १॥५॥२ )
  14. ( तै० ब्रा० १।८।४ )
  15. ( १।११३।१६ )
  16. ( १।१२३।६ )
  17. ( १।१९८६ )
  18. ( १॥७३॥९ )
  19. ( १।१८।८-९ )
  20. ( २।३।४ )
  21. ( २।४।२ )
  22. ( २-३ )
  23. ( १०-१५ )
  24. १/५
  25. ( ३०/७ )